मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः २६

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 26

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

संसारमार्गगहने पतितस्यापतन्ति हि ।

वृत्तवृत्तान्तलक्षाणि कीटा इव घनागमे

॥१॥

सर्व एव त्विमे भावाः परस्परमसङ्गिनः ।

अटव्यामुपलानीव भावनैतेषु शृङ्खला

॥२॥

चित्तमान्ध्याय वृत्तान्तद्रुमैर्गहनवत्स्थितम् ।

रसरञ्जनया लोके वसन्त इव काननम्

॥३॥

अहो बत विचित्राणि वासनावशतोऽवशैः ।

भूतकैरनुभूयन्ते सुखदुःखानि जन्मसु

॥४॥

अहो बतातिविषमा वासना यद्वशाज्जनैः ।

अविद्यमानैरेवायं भ्रमोऽन्तरनुभूयते

॥५॥

आह्लादिनो मृतवतः शुद्धस्यालोककारिणः ।

शीतलस्याखिलार्थेषु ज्ञस्येन्दोश्च किमन्तरम्

॥६॥

पूर्वापरमनालोच्य यत्किंचिदभिवाञ्छतः ।

निर्मर्यादस्य मूढस्य बालस्य च किमन्तरम्

॥७॥

लब्धमाप्राणपर्यन्तं......भमनुज्झतोः ।

आमिषं को वि.......... वद माकरमूढयोः

॥८॥

सर्व एव त्विमे भावा देहदारधनादयः ।

क्षिप्रमाशुष्कसिकताशरावविशरारवः

॥९॥

आब्रह्मस्तम्बपर्यन्तमपि योनिशतेषु ते ।

आकल्पं भ्रमतश्चित्तशान्तिर्नास्ति शमादृते

॥१०॥

पर्यालोचनमात्रेण बन्धगन्धो न बाधते ।

गच्छतो मार्गवैषम्यमिवालोकनकारिणः

॥११॥

तव नावहितं चित्तं कामः कवलयिष्यति ।

सावधानस्य बुद्धस्य पिशाचः किं करिष्यति

॥१२॥

यथेक्षणप्रसरणं रूपालोकनमात्रकम् ।

संवित्प्रसृतिमात्रात्म तथा साहंजगत्स्थितम्

॥१३॥

यथाक्षिसंवृतिः सर्वरूपालोकशमोऽरिहन् ।

संवित्संवरणं नाम सर्वदृश्यशमस्तथा

॥१४॥

असदेव जगत्साहं शुद्धा संवित्तनोति खे ।

ईषत्प्रसरणेनाशु स्पन्दनं पवनो यथा

॥१५॥

सदिवासत्यमेवेदमकुर्वत्यन्यमेधते ।

मृदा हेम्नेव कुम्भत्वमपृथग्लभ्यमात्मगम्

॥१६॥

शून्यमात्रं यथा व्योम स्पन्दमात्रं यथानिलः ।

जलमात्रं यथोर्म्यादि संविन्मात्रं तथा जगत्

॥१७॥

अव्यवच्छिन्ननिर्भागसंविन्मात्रं जगत्त्रयम् ।

विद्धि शान्तं तथा व्योम यथा वारिणि पर्वतम्

॥१८॥

निर्वाणस्योपशान्तस्य ज्ञस्य सोदेति शीतता ।

अन्तर्यत्रेन्दवोऽप्येते दीप्तज्वलनबिन्दवः

॥१९॥

किं केन कथमेकान्तशान्ताततशिवात्मनि ।

निरालोकोऽपरालोकः शून्ये जगति जन्यते

॥२०॥

या सत्ता ब्रह्मशब्दाख्या रूपं सर्वस्य तन्निजम् ।

न यत्र काचिद्वाधास्ति सर्वं तन्मयमव्ययम्

॥२१॥

यदिदं तु पदार्थत्वं यत्र बाधानुभूयते ।

यद्यच्च बाधनं प्रेक्ष्य तन्न विद्मः खपुष्पवत्

॥२२॥

ज्ञ एवापगतस्वान्तं शान्तमास्व महाश्मवत् ।

असौ न मननं मानमनन्तमजमव्ययम्

॥२३॥

आकाशकल्पे स्वे भावे तिष्ठतोऽङ्गानिवेदनम् ।

भवत्यभ्यासदार्ढ्येन विना स्वप्नविकारवत्

॥२४॥

निरुपादानसंभारमभित्तावेव चेतति ।

ब्राह्मं कर्तृ जगच्चित्रं न कश्चिद्वा न किंचन

॥२५॥

तनोति यत्तदास्मैव तस्य तत्र तथा स्थितम् ।

दृश्याभावादसद्दृश्यं तेन कः क्व करोति किम्

॥२६॥

अहं सुखीति सुखिता अहं दुःखीति दुःखिता ।

सर्व एव स्वरूपस्था व्योमात्मानोऽपि पार्थिवाः

॥२७॥

सर्वेषामेव भावानां चिदाकाशात्मनामपि ।

मिथ्यैव स्वप्नशैलानामिव पार्थिवता स्थिता

॥२८॥

अहंत्वोल्लेखतः सत्ता भ्रमभावविकारिणी ।

तदभावात्स्वभावैकनिष्ठता शमशालिनी

॥२९॥

हेम्नः कटकशब्दार्थो व्यतिरिक्तो यथास्ति ते ।

व्यतिरिक्ता तथा सत्या नाहंतास्ति शमात्मनः

॥३०॥

निर्वाणो निर्मना मौनी कर्ताऽकर्ता च शीतलः ।

ज्ञ एव शान्त एवास्ते शून्य एवाभिपूरितः

॥३१॥

निर्वासनास्पन्दपरो यन्त्रपुत्रकगात्रवत् ।

स यथास्थितमेवास्ते ज्ञः संव्यवहरन्नपि

॥३२॥

यथा मञ्चकसंस्थस्य स्पन्दन्ते नैव वा शिशोः ।

अङ्गानि स्वानुसंधानं विनैवंविदितात्मनः

॥३३॥

निःसंबोधैकबोधस्य निराशेहैषणाशिषः ।

शान्तानन्तात्मरूपत्वादनुसंधानता कुतः

॥३४॥

अद्रष्टुरपदृश्यस्यादृग्रूपस्यापरूपिणः ।

कुतः किलानुसंधानमनपेक्षस्य पश्यतः

॥३५॥

अपेक्षैव घनो बन्ध उपेक्षैव विमुक्तता ।

सर्वशब्दान्विता तस्यां विश्रान्तेन किमीक्ष्यते

॥३६॥

पार्थिवत्वे शरीरेऽस्मिन्स्वस्वप्नाङ्ग इवासति ।

भ्रममात्रात्मनि कुतः क्व कस्य किमपेक्षणम्

॥३७॥

उपशान्तसमस्तेहं विगताखिलकौतुकम् ।

निरस्तवेदनं ज्ञेन विदा केवलमास्यते

॥३८॥

मङ्किनेति श्रुतवता ततो मोहो महानपि ।

अशेषेण परित्यक्तस्तत्रैव त्वगिवाहिना

॥३९॥

प्रवाहापतितं कार्यं कुर्वतापास्तवासनम् ।

तेन वर्षशतस्यान्ते स्थितमद्रौ समाधिना

॥४०॥

तत्राद्ययावत्पाषाणसमधर्मा स तिष्ठति ।

संशान्तकरणो योगी बोध्यमानः प्रबुध्यते

॥४१॥

एतेन राघव विवेकपदेन शान्ति-

मासादयोदयवता मनसा विहर्तुम् ।

मा दीनतां व्रजतु रागमयी मतिस्ते

क्षीणा क्षणादसलिलेव शरद्धनाली

॥४२॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मोक्षो० निर्वाणप्रकरणे उ० मङ्क्युपा० निर्वाणसमाप्तिर्नाम षड्विंशः सर्गः ।। २६ ।।