मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः १६

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 16

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

अथ तत्याहमपतं दीप्यमानवपुः पुरः ।

किंचिद्विक्षोभितसभः खान्नक्षत्रमिवाचले

॥१॥

चुक्षोभ वायसास्थानं नीलोत्पलसरःसमम् ।

मत्पातमन्दवातेन भूकम्पेनेव सागरः

॥२॥

अशङ्कितमपि प्राप्तं दर्शनान्मामनन्तरम् ।

भुशुण्डस्तु वसिष्ठोऽयं प्राप्त इत्यवबुद्धवान्

॥३॥

पत्रपुञ्जात्समुत्तस्थौ मेघशाव इवाचलात् ।

हे मुने स्वागतमिति प्रोवाच मधुराक्षरम्

॥४॥

संकल्पमात्रजाताभ्यां कराभ्यां कुसुमाञ्जलिम् ।

मह्यमाशु तदैवादान्मेघो हैममिवोत्करम्

॥५५॥

इदमासनमिप्युक्त्वा नवं कल्पतरुच्छदम् ।

उपानीतवति त्यक्तभृत्ये वायसनायके

॥६॥

भुशुण्ड उत्थिते स्वीयकलापक्षेषु पक्षिषु ।

उपविष्टं मुनिं दृष्ट्वा स्वासनोन्मुखदृष्टिषु

॥७॥

समन्तात्खगवृन्देन भुशुण्डेन समं ततः ।

तस्मिन्कल्पलतापुञ्जे ह्युपविष्टोऽहमासने

॥८॥

अर्घ्यपाद्यादि संपाद्य भुशुण्डस्तुष्टमानसः ।

मामुवाच महातेजाः सौहृदान्मधुराक्षरम्

॥९॥

भुशुण्ड उवाच ।

अहो भगवताऽस्माकं प्रसादो दर्शितश्चिरात् ।

दर्शनामृतसेकेन यत्सिक्ताः सद्द्रुमा वयम्

॥१०॥

मत्पुण्यचिरसंभारप्रेरितेन त्वयाधुना ।

मुने मान्यैकमान्येन कुतश्चागमनं कृतम्

॥११॥

कच्चिदस्मिन्महामोहे चिरं विहरतस्तव ।

अखण्डितैव समता स्थिता चेतसि पावने

॥१२॥

किमर्थमद्यागमनक्लेशेनात्मा कदर्थितः ।

वचनश्रवणोत्कानामाज्ञां नो वक्तुमर्हसि

॥१३॥

त्वत्पाददर्शनादेव सर्वं ज्ञातं मया मुने ।

त्वदागमनपुण्येन वयमायोजितास्त्वया

॥१४॥

चिरंजीवितचर्चाभिर्वयं वः स्मृतिमागताः ।

तेनेदमास्पदं पादैस्त्वं पवित्रितवानयम्

॥१५॥

ज्ञातत्वदागमोऽप्येवं त्वां पृच्छामीह यन्मुने ।

भवद्वाक्यामृतास्वादवाञ्छितं प्रविजृम्भते

॥१६॥

इत्युक्तवानसौ पक्षी भुशुण्डश्चिरजीवितः ।

त्रिकालामलसंवेदी तत्र प्रोक्तमिदं मया

॥१७॥

श्रीवसिष्ठ उवाच ।

विहंगम महाराज सत्यमेतत्त्वयोच्यते ।

द्रष्टुमभ्यागतोऽस्म्यद्य त्वामेव चिरजीवितम्

॥१८॥

आशीतलान्तःकरणो दिष्ट्या कुशलवानसि ।

पतितोऽसि न बुद्धात्मा भीषणां भववागुराम्

॥१९॥

तदेतं संशयं छिन्धि भगवन्मम सत्यतः ।

कस्मिन्कुले भवाञ्जातो ज्ञातज्ञेयः कथं भवान्

॥२०॥

कियदायुश्च ते साधो वृत्तं स्मरसि किंच वा ।

केनायं वा निवासस्ते निर्दिष्टो दीर्घदर्शिनः

॥२१॥

भुशुण्ड उवाच ।

यत्पृच्छसि मुने सर्वं तदिदं वर्णयाम्यहम् ।

अनुद्वेगितया यत्नात्कथा श्राव्या महात्मना

॥२२॥

युष्मद्विधास्त्रिभुवनप्रभुपूज्यरूपा

आकर्णयन्ति यमुदारधियो महान्तः ।

तेनाशुभं प्रकथितेन विनाशमेति

मेघास्पदेन विभवेन यथार्कतापः

॥२३॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० वसिष्ठभुशुण्डसमायोगो नाम षोडशः सर्गः ।।१ ६ ।।