मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः २३

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 23

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

अथासौ वायसश्रेष्ठो जिज्ञासार्थमिदं मया ।

भूयः पृष्टो महाबाहो कल्पवृक्षलताग्रके

॥१॥

चरतां जगतः कोशे व्यवहारवतामपि ।

कथं विहगराजेन्द्र देहं मृत्युर्न बाधते

॥२॥

भुशुण्ड उवाच ।

जानन्नपि हि सर्वज्ञ ब्रह्मञ्जिज्ञासयेव माम् ।

पृच्छसि प्रभवो नित्यं भृत्यं वाचालयन्ति हि

॥३॥

तथापि यत्पृच्छसि मां तत्ते प्रकथयाम्यहम् ।

आज्ञाचरणमेवाहुर्मुख्यमाराधनं सताम्

॥४॥

दोषमुक्ताफलप्रोता वासनातन्तुसंततिः ।

हृदि न ग्रथिता यस्य मृत्युस्तं न जिघांसति

॥५॥

निःश्वासवृक्षक्रकचाः सर्वदेहलताघुणाः ।

आधयो यं न भिन्दन्ति मृत्युस्तं न जिघांसति

॥६॥

शरीरतरुसर्पौघाश्चिन्तार्पितशिरःफणाः ।

आशा यं न दहन्त्यन्तर्मृत्युस्तं न जिघांसति

॥७॥

रागद्वेषविषापूरः स्वमनोबिलमन्दिरः ।

लोभव्यालो न भुङ्क्ते यं मृत्युस्तं न जिघांसति

॥८॥

पीताशेषविवेकाम्बुः शरीराम्भोधिवाडवः ।

न निर्दहति यं कोपस्तं मृत्युर्न जिघांसति

॥९॥

यन्त्रं तिलानां कठिनं राशिमुग्रमिवाकुलम् ।

यं पीडयति नानङ्गस्तं मृत्युर्न जिघांसति

॥१०॥

एकस्मिन्निर्मले येन पदे परमपावने ।

संश्रिता चित्तविश्रान्तिस्तं मृत्युर्न जिघांसति

॥११॥

वपुःखण्डाभिपतितं शाखामृगमिवोदितम् ।

न चञ्चलं मनो यस्य तं मृत्युर्न जिघांसति

॥१२॥

एते ब्रह्मन्महादोषाः संसारव्याधिहेतवः ।

मनागपि न लुम्पन्ति चित्तमेकं समाहितम्

॥१३॥

आधिव्याधिसमुत्थानि चलितानि महाभ्रमेः ।

न विलुम्पन्ति दुःखानि चित्तमेकं समाहितम्

॥१४॥

नास्तमेति न चोदेति न संस्मृतिर्न विस्मृतिः ।

न सुप्तं न च जाग्रत्स्याच्चित्तं यस्य समाहितम्

॥१५॥

अन्धीकृतहृदाकाशाः कामकोपविकारजाः ।

चिन्ता न परिहिंसन्ति चित्तं यस्य समाहितम्

॥१६॥

न ददाति न चादत्ते न जहाति न याचते ।

कुर्वदेव च कार्याणि चित्तं यस्य समाहितम्

॥१७॥

ये दुरर्था दुरारम्भा दुर्गुणा दुरुदाहृताः ।

दुष्क्रमास्ते न कृन्तन्ति चित्तं यस्य समाहितम्

॥१८॥

आभान्ति विपुलार्थानि महान्ति गुणवन्ति च ।

सर्वाण्येवानुधावन्ति चित्तं यस्य समाहितम्

॥१९॥

यदुदर्कहितं सत्यमनपायि गतभ्रमम् ।

दुरीहितदृशोन्मुक्तं तत्परं कारयेन्मनः

॥२०॥

यददृष्टमशुद्धेन चित्तवैधुर्यदायिना ।

अनेकत्वपिशाचेन तत्परं कारयेन्मनः

॥२१॥

आदौ मध्ये तथान्ते च चिराय परमोचितम् ।

यच्चारु मधुरं पथ्यं तत्परं कारयेन्मनः

॥२२॥

यदनन्तं मनःपथ्यं तथ्यमाद्यन्तमध्यगम् ।

समस्तसाधुभिर्जुष्टं तत्परं कारयेन्मनः

॥२३॥

यद्बुद्धेः परमालोकमाद्यं यदमृतं परम् ।

यदनुत्तमसौभाग्यं तत्परं कारयेन्मनः

॥२४॥

सामरासुरगन्धर्वे सविद्याधरकिन्नरे ।

ससुरस्त्रीगणे स्वर्गे न किंचित्सुस्थिरं शुभम्

॥२५॥

सतरौ सनराधीशे सपर्वतपुरव्रजे ।

साम्बुधौ भूतले तात न किंचिच्छोभनं स्थिरम्

॥२६॥

सनागे सासुरव्यूहे सासुरस्त्रीगणे तथा ।

समस्त एव पाताले न किंचिच्छोभनं स्थिरम्

॥२७॥

सस्वर्गे ससुरालोके सपाताले सदिक्तटे ।

जगत्यस्मिंस्तु सर्वस्मिन्न किंचिच्छोभनं स्थिरम्

॥२८॥

आधिव्याधिविलोलासु दुःखौघवलितासु च ।

क्रियासुनित्यतुच्छासु न किंचित्सुस्थिरं शुभम्

॥२९॥

तरलीकृतचित्तासु हृदयानन्दिनीषु च ।

चिन्तासु धीविकारासु नकिंचित्सुस्थिरं शुभम्

॥३०॥

हृत्क्षीरोदकसंस्पन्दमन्दरेषु चलेष्वपि ।

स्वसंकल्पविकल्पेषु न किंचित्सुस्थिरं शुभम्

॥३१॥

अनारतागमापायपरास्वसिशिरास्वपि ।

चित्राकारासु चेष्टासु न किंचित्सुस्थिरं शुभम्

॥३२॥

न वरमेकमहीतलराजता

न च वरं विबुधामररूपता ।

न च वरं धरणीतलनागता

स्थितिमुपैति हि यत्र सतां मनः

॥३३॥

न वरमाकुलशास्त्रविचारणं

न च वरं परकार्यविवेचनम् ।

न वरमग्र्यकथाक्रमवर्णनं

स्थितिमुपैति हि यत्र सतां मनः

॥३४॥

न वरमाधिमयं चिरजीवितं

न च वरं मरणं दृढमूढता ।

न च वरं नरको न च विष्टपं

स्थितिमुपैति हि न क्वचिदाशयः

॥३५॥

इति विविधजगत्क्रमाः समस्ताः

खलु मतिमूढतया नरस्य रम्याः ।

चलतरकलनाहिते पदार्थे

कथमुपयान्ति चिरस्थितिं महान्तः

॥३६॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० निर्वाण० पू० भुशुंडो० समाधानसंकल्पनिराकरणं नाम त्रयोविंशः सर्गः ।। २३ ।।