मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — स्थितिप्रकरणम् — सर्गः ४३

3
योगवासिष्ठम् · स्थितिप्रकरणम् · 43

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

एवं जीवाश्चितो भावा भवभावनयोहिताः ।

ब्रह्मणः कल्पिताकाराल्लक्षशोऽप्यथ कोटिशः

॥१॥

असंख्याताः पुरा जाता जायन्ते चापि वाद्य भोः ।

उत्पतिष्यन्ति चैवाम्बुकणौघा इव निर्झरात्

॥२॥

स्ववासनादशावेशादाशाविवशतां गता ।

दशास्वतिविचित्रासु स्वयं निगडिताशयाः

॥३॥

अनारतं प्रतिदिशं देशे देशे जले स्थले ।

जायन्ते वा म्रियन्ते वा बुद्बुदा इव वारिणि

॥४॥

केचित्प्रथमजन्मानः केचिज्जन्मशताधिकाः ।

केचिद्वाऽजन्मसंख्याकाः केचिद्धित्रिभवान्तराः

॥५॥

भविष्यज्जातयः केचित्केचिद्भूतभवोद्भवाः ।

वर्तमानभवाः केचित्केचित्त्वभवता गताः

॥६॥

केचित्कल्पसहस्राणि जायमानाः पुनः पुनः ।

एकामेवास्थिता योनिं केचिद्योन्यन्तरं श्रिताः

॥७॥

केचिन्महादुःखसहाः केचिदल्पोदयाः स्थिताः ।

केचिदत्यन्तमुदिताः केचिदर्कादिवोदिताः

॥८॥

केचित्किंनरगन्धर्वविद्याधरमहोरगाः ।

केचिदर्केन्द्रवरुणास्त्र्यक्षाधोक्षजपद्मजाः

॥९॥

केचित्कूश्माण्डवेतालयक्षरक्षःपिशाचकाः ।

केचिद्ब्राह्मणभूपाला वैश्यशूद्रगणाः स्थिताः

॥१०॥

केचिच्छ्रपचचाण्डालकिरातावेशपुष्कसाः ।

केचित्तृणौषधी केचित्फलमूलपतङ्गकाः

॥११॥

केचित्चित्रलतागुल्मतृणोपलदृशोऽभितः ।

केचित्कदम्बजम्बीरशालतालतमालकाः

॥१२॥

केचिद्विभवसंसारमन्त्रिसामन्तभूमिपाः ।

केचिच्चीराम्बराच्छन्ना मुनिमौनमुपस्थिताः

॥१३॥

केचिद्भुजङ्गगोनासकृमिकीटपिपीलिकाः ।

केचिन्मृगेन्द्रमहिषमृगाजचमरैणकाः

॥१४॥

केचित्सारसचक्राह्वबलाकाबककोकिलाः ।

केचित्कमलकह्वारकुमुदोत्पलतां गताः

॥१५॥

केचित्कलभमातङ्गवराहवृषगर्दभाः ।

केचिद्विरेफमशकाः पुत्तिकादंशवंशजाः

॥१६॥

केचिदापद्वलाक्रान्ताः केचित्संपदमागताः ।

केचित्स्थिताः स्वर्गपुरे केचिन्नरकमास्थिताः

॥१७॥

ऋक्षचक्रगताः केचिहृक्षरन्ध्रगताः परे ।

वातभूताः स्थिताः केचित्केचिद्व्योमपदेस्थिताः

॥१८॥

सूर्यांशुषु स्थिताः केचित्केचिदिन्द्वंशुषु स्थिताः ।

केचित्तृणलतागुल्मरसस्वादुष्ववस्थिताः

॥१९॥

जीवन्मुक्ता भ्रमन्तीह केचित्कल्याणभाजनाः ।

चिरमुक्ताः स्थिताः केचिन्नूनं परिणताः परे

॥२०॥

केचिच्चिरेण कालेन भविष्यन्मुक्तयः शिवाः ।

केचिद्द्विषन्ति चिद्भावाः केवलीभावमात्मनः

॥२१॥

केचिद्विशालाः ककुभः केचिन्नद्यो महारयाः ।

केचित्स्त्रियः कान्तदृशः केचित्पण्डनपुंसकाः

॥२२॥

केचित्प्रबुद्धमतयः केचिज्जडतराशयाः ।

केचिज्ज्ञानोपदेष्टारः केचिदात्तसमाधयः

॥२३॥

जीवाः स्ववासनावेशविवशाशयतां गताः ।

एतास्वेतास्ववस्थासु संस्थिता बद्धभावनाः

॥२४॥

विहरन्ति जगत्केचिन्निपतन्त्युत्पतन्ति च ।

कन्दुका इव हस्तेन मृत्युनाऽविरतं हताः

॥२५॥

आशापाशशताबद्धा वासनाभावधारिणः । ।

कायात्कायमुपायान्ति वृक्षात्वृक्षमिवाण्डजाः

॥२६॥

अनन्तानन्तसंकल्पकल्पनोत्पादमायया ।

इन्द्रजालं वितन्वाना जगन्मयमिदं महत्

॥२७॥

तावद्भ्रमन्ति संसारे वारिण्यावर्तराशयः ।

यावन्मूढा न पश्यन्ति स्वमात्मानमनिन्दितम्

॥२८॥

दृष्ट्वात्मानमसत्त्यक्त्वा सत्यामासाद्य संविदम् ।

कालेन पदमागत्य जायन्ते नेह ते पुनः

॥२९॥

भुक्त्वा जन्मसहस्राणि भूयः संसारसंकटे ।

पतन्ति केचिदबुधाः संप्राप्यापि विवेकिताम्

॥३०॥

केचिच्छक्तत्वमप्युच्चैः प्राप्य तुच्छतया धिया ।

पुनस्तिर्यक्त्वमायान्ति तिर्यक्त्वान्नरकानपि

॥३१॥

केचिन्महाधियः सन्त उत्पद्य ब्रह्मणः पदात् ।

तदैव जन्मनैकेन तत्रैवाशु विशन्त्यलम्

॥३२॥

ब्रह्माण्डेष्वितरेष्वन्ये तेष्वन्ये जीवराशयः ।

प्रयान्तिपद्मोद्भवतामन्ये च हरतामपि

॥३३॥

अन्ये प्रयान्ति तिर्यक्त्वमन्ये च सुरतामपि ।

अन्येऽपि नागतां राम यथैवेह तथैव हि

॥३४॥

यथेयं हि जगत्सारं तथान्यानि जगन्त्यपि ।

विद्यन्ते समतीतानि भविष्यन्ति च भूरिशः

॥३५॥

अन्येनान्येन चित्रेण क्रमेणान्येन हेतुना ।

विचित्राः सृष्टयस्तेषामापतन्ति पतन्ति च

॥३६॥

कश्चिद्गन्धर्वतां याति कश्चिद्गच्छति यक्षताम् ।

कश्चित्प्रयाति सुरतां कश्चिदायाति दैत्यताम्

॥३७॥

येनैव व्यवहारेण ब्रह्माण्डेऽस्मिन्जनाः स्थिताः ।

तेनैवान्येषु तिष्ठन्ति सन्निवेशविलक्षणाः

॥३८॥

स्वस्वभाववशावेशादन्योन्यपरिघट्टनैः ।

सृष्टयः परिवर्तन्ते तरङ्गिण्या इवोर्मयः

॥३९॥

आविर्भावतिरोभावैरुन्मज्जननिमज्जनैः ।

सृष्टयः परिवर्तन्ते तरङ्गिण्या इवोर्मयः

॥४०॥

निर्यान्त्यविरतं तस्मात्परस्माज्जीवराशयः ।

अनिर्देश्याः स्वसंवेद्यास्तत्रैवाशु स्फुरन्ति च

॥४१॥

दीपादिवालोकदृशः सूर्यादिव मरीचयः ।

कणास्तप्तायस इव स्फुलिङ्गा इव पावकात्

॥४२॥

कालादिवर्तवश्चित्रा आमोदाः कुसुमादिव ।

शीतला इव वर्षाणुपूरादब्धेरिवोर्मयः

॥४३॥

उत्पत्त्योत्पत्त्य कालेन भुक्त्वा देहपरम्पराम् ।

स्वत एव पदे यान्ति निलयं जीवराशयः

॥४४॥

अविरतमियमातता तथोच्चै-

र्भवति विनश्यति वर्धते मुधैव ।

त्रिभुवनरचनादिमोहमाया

परमपदे लहरीव वारिराशौ

॥४५॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे जीवनिचयस्थानोपदेशो नाम त्रिचत्वारिंशः सर्गः ।। ४३ ।।