मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः ११४

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 114

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

परस्माद्ब्रह्मणः पूर्वं मनः प्रथममुत्थितम् ।

मननात्मकमाभोगि तत्स्थमेव स्थितिं गतम्

॥१॥

पुष्पकोश इवामोदो महोर्मिरिव सागरे ।

रश्मिजालमिवादित्ये मनो ब्रह्मणि राघव

॥२॥

तस्यादृश्यात्मतत्त्वस्य विस्मृत्यैव गतं स्थितिम् ।

नान्यस्मादागतं राम जगद्रज्जुभुजङ्गवत्

॥३॥

आदित्यव्यतिरेकेण यो भावयति राघव ।

रश्मिजालमिदं ह्येतत्तस्यान्यदिव भास्वतः

॥४॥

कनकव्यतिरेकेण केयूरं येन भावितम् ।

केयूरमेव तत्तस्य न तस्य कनकं हि तत्

॥५॥

आदित्याव्यतिरेकेण रश्मयो येन भाविताः ।

आदित्य एव ते तस्य निर्विकल्पः स उच्यते

॥६॥

सलिलव्यतिरेकेण तरङ्गो येन भावितः ।

तरङ्गबुद्धिरेवैका स्थिता तस्य न वारिधीः

॥७॥

सलिलाव्यतिरेकेण तरङ्गो येन भाव्यते ।

अम्बुसामान्यताबुद्धिर्निर्विकल्पः स उच्यते

॥८॥

कनकाव्यतिरेकेण केयूरं येन भाव्यते ।

कनकैकमहाबुद्धिर्निर्विकल्पः स उच्यते

॥९॥

पावकव्यतिरेकेण ज्वालाली येन भाविता ।

तस्याग्निबुद्धिर्गलति ज्वालाधीरेव तिष्ठति

॥१०॥

ज्वालाजालाभ्रलेखेव रञ्जिता सा तथा स्थितिः ।

तामेवास्थां समादत्ते तद्गतान्याकुला मतिः

॥११॥

पावकाव्यतिरेकेण ज्वालाली येन भाव्यते ।

तस्याग्निबुद्धिरेकास्ति निर्विकल्पः स उच्यते

॥१२॥

यो निर्विकल्पः सुमहान्सोऽसंक्षीणमहामतिः ।

प्राप्तव्यं तेन संप्राप्तं नासौ वस्तुषु मज्जति

॥१३॥

नानातामखिलां त्यक्त्वा शुद्धचिन्मात्रकोटरे ।

संवेद्येन विनिर्मुक्ते संवित्तत्त्वे स्थितो भव

॥१४॥

स्वयमेवात्मनैवात्मा शक्तिं संकल्पनामिकाम् ।

यदा करोति स्फुरता स्पन्दशक्तिमिवानिलः

॥१५॥

तदा पृथगिवाभासं संकल्पकलनामयम् ।

मनो भवति विश्वात्मा भावयन्स्वाकृतिं स्वयम्

॥१६॥

तत्संकल्पात्मकं चेतो यथेदमखिलं जगत् ।

संकल्पयति संकल्पैस्तथैव भवति क्षणात्

॥१७॥

कीटत्वमब्जजत्वं च मेरुत्वं मरुतां तथा ।

मनो जीवमहंकारबुद्धिचित्तादिनामकम्

॥१८॥

संकल्पतो द्वितैकत्वमेत्य चेतो जगत्स्थितिम् ।

तनोति तस्यां तदनु नानातां गच्छति स्वयम्

॥१९॥

संकल्पमयमेवेदं जगदाभोगि दृश्यते ।

न सत्यं न च मिथ्यैव स्वप्नजालमिवोत्थितम्

॥२०॥

जन्तोर्यथा मनोराज्यं विविधारम्भभासुरम् ।

ब्राह्मं तथेदं विततं मनोराज्यं विराजते

॥२१॥

यथाभूतार्थभावित्वात्तदेतत्प्रविलीयते ।

परमार्थेन दृष्टं चेत्तदिदं नैव किंचन

॥२२॥

दृश्यं त्वपरमार्थेन प्रयाति शतशाखताम् ।

जलमूर्मितरङ्गादिकलनार्हं परिस्फुरन्

॥२३॥

यथाम्बुधिर्वपुर्धत्ते स्वभावेन तथा चितः ।

कुर्वन्कर्मसहस्राणि ह्यणुचित्स्पन्दनादृते

॥२४॥

नापूर्वं कुरुते किंचित्किंचिद्भेदमतस्त्यजन् ।

गच्छन्श्रृण्वन्स्पृशन्जिघ्रन्वदन्व्यवहरन्स्वपन्

॥२५॥

नापूर्वं विद्यते किंचित्सत्यमित्येव भावयन् ।

यद्यत्करोषि तद्विद्धि चिन्मात्रममलं ततम्

॥२६॥

ब्रह्म प्रबृंहिताकारं तस्मादन्यन्न विद्यते ।

पदार्थजाते सर्वस्मिन्संवित्सारमये स्थिते

॥२७॥

संविदेवेदमखिलं जगन्नान्यास्ति कल्पना ।

संवित्स्फुरणमात्रेऽस्मिञ्जगज्जालकनामनि

॥२८॥

इदमन्यदिदं चान्यदिति मिथ्याग्रहः कुतः ।

संभवादखिलाकारेष्वेकस्या एव संविदः ।

संवेद्यमपि नास्त्येव बन्धमोक्षावतः कथम्

॥२९॥

मोक्षोऽयमेष खलु बन्ध इति प्रसह्य

चिन्तां निरस्य सकलां विफलाभिमानाम् ।

मौनी वशी विगतमानमदो महात्मा

कुर्वन्स्वकार्यमनहंकृतिरेव तिष्ठ

॥३०॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० परमार्थोपदेशो नाम चतुर्दशाधिकशततमः सर्गः ।। ११४।।