मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — स्थितिप्रकरणम् — सर्गः ५९

3
योगवासिष्ठम् · स्थितिप्रकरणम् · 59

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

अन्नपानाङ्गनासङ्गादृते नास्तीह किंचन ।

शुभमस्त्विति संवादि महान्किमिव वाञ्छतु

॥१॥

तिर्यञ्चः पशवो मूढा ये न तुष्यन्त्यसाधवः ।

भोगैः कृपणसर्वस्वैरादिमध्यान्तपेलवैः

॥२॥

विश्वासं यान्ति ये लोके तैरलं नरगर्दभैः ।

इतः केशा इतो रक्तमितीयं प्रमदातनुः

॥३॥

एतया तोषमायान्ति सारमेया न मानवाः ।

मृन्महीदारुतरवो देहा मांसमया अपि

॥४॥

अधो भूरम्बरं पृष्ठे किमपूर्वं सुखाय तु ।

मात्रास्पर्शानुसारिण्यो विवेकपदभङ्गुराः

॥५॥

मोहायैवापरामृष्टाः सकला लोकसंविदः ।

सर्वस्या एव पर्यन्ते सुखाशायाश्च संस्थितम्

॥६॥

मालिन्यं दुःखमप्येवं ज्वालाया इव कज्जलम् ।

आगमापायिनोऽनित्या मनःषष्ठेन्द्रियक्रियाः

॥७॥

लता नागेन्द्रमृदिता धारयन्ति न संपदः ।

पुत्रिका रक्तमांसस्य कान्तेयमिति सादरम्

॥८॥

स्वदेहनाम्नाऽस्थिचये श्लिष्यते मोहकक्रमः ।

सर्वं सत्यमिदं राम स्थिरमज्ञस्य तुष्टये

॥९॥

ज्ञस्यास्थैर्यमसत्यं च जगद्राम न तुष्टये ।

अभुक्तेऽपि विषा यैषा विषमूर्च्छां प्रयच्छति

॥१०॥

तां परित्यज्य भोगास्थां स्वात्मैकत्वगतिं भज ।

अनात्ममयभावेन चित्तं स्थितिमुपागतम् ।

यदा तदैतदाजातं जगज्जालमसन्मयम्

॥११॥

वासनावशतो ब्रह्ममनसा कल्पितं वपुः ।

तेजसा श्रितकुड्येन हेमाभत्वमिवात्मनः

॥१२॥

श्रीराम उवाच ।

वैरिञ्चपदमासाद्य मनो ब्रह्मन्महामते ।

इदं जगत्सुघनतां कथमानयति क्रमात्

॥१३॥

श्रीवसिष्ठ उवाच ।

गर्भतल्पात्समुत्थाय पद्मजः प्रथमः शिशुः ।

ब्रह्मेति शब्दमकरोद्ब्रह्मा तेन स उच्यते

॥१४॥

संकल्पजालरूपस्य मनसा कल्पिताकृतेः ।

अकरोत्तस्य संकल्पलक्ष्मीः पदमथोत्तरे

॥१५॥

ततः संकल्पयामास पूर्वं तेजो महाप्रभम् ।

शरदन्ते लताचक्रचक्रीकृतदिगन्तरम्

॥१६॥

पक्षप्रतिमनिस्यूतकर्मणातिगुणाक्षरम् ।

पुञ्जपिञ्जरपर्यन्तं हेमज्ञाननिभाम्बरम्

॥१७॥

जालहेमलताजालजटालनिजमन्दिरम् ।

कचत्प्रसरदुद्यानाकारकुण्डलमण्डितम्

॥१८॥

तं शरीरं मनस्तस्मिंस्ततस्तेजसि भास्वरे ।

आत्माकारसमाकारं भास्वरं समकल्पयत्

॥१९॥

स ततस्तेजसस्तस्मादभ्युदेति दिवाकरः ।

जालमण्डलमध्यस्थो ज्वलत्कनककुण्डलः

॥२०॥

ज्वलज्जटाभारधरोपान्तविस्फारपावकः ।

ज्वालाविशालावयवः पूरिताकाशमण्डलः

॥२१॥

अथ ब्रह्मा महाबुद्धिरन्यास्तास्तेजसः कलाः ।

अपाल्य यदसद्ब्रह्मा तरङ्गानिव सागरः

॥२२॥

तेऽपि संकल्पसंप्राप्तसिद्धयः समशक्तयः ।

यथासंकल्पितं वस्तु क्षणाद्दृष्ट्वापुरग्रतः

॥२३॥

संकल्पयन्तो यान्यांस्ते नानाभूतगणान्बहून् ।

भूतेष्वन्यांस्तु तेष्वन्यांस्तेष्वन्यान्विविधानपि

॥२४॥

संस्मृत्य वेदांस्तदनु यज्ञक्रमगुणान्बहून् ।

जगद्ग्रहादयं ब्रह्मा मर्यादां समकल्पयत्

॥२५॥

ब्राह्मं रूपमुपादाय मनोनाम महद्वपुः ।

तनोतीत्थमिमां दृष्टिं भूतसंततिसंकुलाम्

॥२६॥

समुद्राचलवृक्षाढ्यां कृतलोकोत्तरक्रमाम् ।

मेरुभूपीठदिक्कुञ्जजटालोदरमण्डलाम्

॥२७॥

सुखदुःखजराजन्ममरणस्वाधिबोधिताम् ।

रागद्वेषमयोद्विग्नां गुणत्रयमयात्मिकाम्

॥२८॥

मनोहस्तैर्विरिंचोत्थैर्यद्यथा कल्पितं पुरा ।

तत्तथैवाखिलं द्रष्टुं दृश्यतेऽद्यापि मायया

॥२९॥

इत्थं सर्वेषु भूतेषु केषुचित्त्वथवा पुनः ।

संकल्पयति संसारं परं पश्यति चित्स्थितम्

॥३०॥

मोह एवंमयो मिथ्या जागतः स्थिरतां गतः ।

संकल्पनेन मनसा कल्पितोऽचिरतः स्वयम्

॥३१॥

संकल्पवशतः सर्वाः प्रसवन्ति जगत्क्रियाः ।

संकल्पवशतो देवा निर्यान्ति नियतिस्थिताः

॥३२॥

कोपितायाः प्रजानाथैर्जगत्सृष्टेः कुलोद्भवः ।

ब्रह्मा संचिन्तयत्येष पद्मासनगतः प्रभुः

॥३३॥

मनःस्पन्दनमात्रेण चित्रं चित्तं यदुत्थितम् ।

सृष्टिर्वा भोगिनी स्फारा व्यवहारविकारिणी

॥३४॥

रुद्रोपेन्द्रमहेन्द्राद्या शैलसागरसंकुला ।

पातालरोदोदिक्स्वर्गमार्गसंकटकोटरा

॥३५॥

संकल्पजालमत्यन्तं मयेदमभितस्ततम् ।

अधुनाविरतोऽस्म्यस्माद्विकल्पोल्लासनक्रमात्

॥३६॥

इति निश्चित्य विरतः कल्पनानर्थसंकटात् ।

अनादिमत्परं ब्रह्म स्मरत्यात्मानमात्मना

॥३७॥

तमासाद्य तदाभासे पदे गलितमानसे ।

सुखं तिष्ठति शान्तात्मा तल्पेऽधः श्रमवानिव

॥३८॥

निर्ममो निरहंकारः परां शान्तिमुपागतः ।

अविक्षुब्ध इवाम्भोधिरात्मनात्मनि तिष्ठति

॥३९॥

ध्यानात्कदाचिद्भगवान्स्वयं विरमति प्रभुः ।

बन्धनात्सलिलस्यन्दात्सौम्यत्वादिव वारिधिः

॥४०॥

विचारयति संसारं सुखदुःखसमन्वितम् ।

आशापाशशतैर्बद्धं रागद्वेषभयातुरम्

॥४१॥

ततः स करुणाक्रान्तमना भूतविभूतये ।

करोतीह महार्थानि शास्त्राणि विविधानि च

॥४२॥

अध्यात्मज्ञानगर्भाणि वेदवेदाङ्गसंग्रहम् ।

पुराणादीनि चान्यानि मुक्तये सर्वदेहिनाम्

॥४३॥

पुनस्तत्पदमालम्ब्य परमापद्विनिर्गतः ।

स्वस्थस्तिष्ठति शान्तात्मा निर्मन्दर इवार्णवः

॥४४॥

अवलोक्य जगच्चेष्टां मर्यादां विनियोज्य च ।

ब्रह्मा कमलपीठस्थः पुनः स्वात्मनि तिष्ठति

॥४५॥

कदाचित्केवलं सर्वसंकल्पपरिहीनया ।

यदृच्छयानुग्रहार्थं लोकक्रमवदास्थितः

॥४६॥

नार्जवं नास्य संत्यागो वपुषो नच संग्रहः ।

नाना न चेतनं नेह न स्थितिर्नास्थितिः स्थिता

॥४७॥

सर्वभावसमारम्भः समः सर्वासु वृत्तिषु ।

परिपूर्णार्णवाकारो मुक्तशेषोऽवतिष्ठते

॥४८॥

कदाचित्केवलं सर्वसंकल्पपरिहीनया ।

यदृच्छयानुग्रहार्थ लोकानां प्रतिबुध्यते

॥४९॥

एषाब्राह्मी स्थितिः पुण्या या मयोक्ता महामते ।

यातां विधिसुरानीकौ तामेतां सात्त्विकीमपि

॥५०॥

चित्सर्गोपरमाकाशे ब्रह्मणो यन्मनःफलम् ।

उदेति प्रथमः सैव ब्रह्मत्वं समवाश्नुते

॥५१॥

सर्गे स्थितिं गते त्वन्या योदेति कल्पनापरा ।

सा व्योमानिलमाश्रित्य प्रविश्यौषधिपल्लवान्

॥५२॥

काचित्सुरत्वमायाति काचिदायाति यक्षताम् ।

उदेति प्रथमं सैषा ब्रह्मत्वं समवाश्नुते

॥५३॥

या यत्सत्त्वं समन्वेति सा तदेवाशु जायते ।

जाता संसर्गवशतस्तस्मिन्नेव च जन्मनि ।

बध्यते मुच्यते वासौ स्वयमन्वारभेदतः

॥५४॥

इत्थं गतास्थितिरियं किल रामभद्र

सृष्टिः स्फुटप्रकटसंकटकर्मलब्धा ।

आविर्भवेद्विविधवेगविहारभार-

संरम्भगर्भविधृता कलनापदे सा

॥५५॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे कमलजव्यवहारवर्णनं नामैकोनषष्टितमः सर्गः ।। ५९ ।।