मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उपशमप्रकरणम् — सर्गः २१

3
योगवासिष्ठम् · उपशमप्रकरणम् · 21

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

एवं प्रबोधितस्तेन तदा पुण्येन पावनः ।

प्रबोधमाप प्राकाश्यं प्रभात इव भूतलम्

॥१॥

उभावपि ततः सिद्धौ ज्ञानविज्ञानपारगौ ।

विचेरतुर्वने तस्मिन्यावदिच्छमनिन्दितौ

॥२॥

ततः कदाचित्कालेन निर्वाणपदमागतौ ।

तौ विदेहौ गतस्नेहौ दीपाविव शमं गतौ

॥३॥

एवं प्राग्भुक्तदेहानामनन्ता जनबन्धुता ।

आः कैः किं गृह्यते ताभ्यः किं वा संत्यज्यतेऽनघ

॥४॥

तस्मादासामनन्तानां तृष्णानां रघुनन्दन ।

उपायस्त्याग एवैको न नाम परिपालनम्

॥५॥

चिन्तनेनैधते चिन्ता त्विन्धनेनेव पावकः ।

नश्यत्यचिन्ततेनैव विनेन्धनमिवानलः

॥६॥

ध्येयत्यागरथारूढः करुणोदारया दृशा ।

लोकमालोकयन्दीनमातिष्ठोत्तिष्ठ राघव

॥७॥

एषा ब्राह्मी स्थितिः स्वच्छा निष्कामा विगतामया ।

एनां प्राप्य महाबाहो विमूढोऽपि न मुह्यति

॥८॥

एकं विवेकं सुहृदमेकां प्रौढसखीं धियम् ।

आदाय विहरन्नेव संकटेषु न मुह्यति

॥९॥

विनिवारितसर्वार्थादपहस्तितबान्धवात् ।

न स्वधैर्यादृते कश्चिदभ्युद्धरति संकटात्

॥१०॥

वैराग्येणाथ शास्त्रेण महत्त्वादिगुणैरपि ।

यत्नेनापद्विघातार्थं स्वयमेवोन्नयेन्मनः

॥११॥

न तत्त्रिभुवनैश्वर्यान्न कोशाद्रत्नधारिणः ।

फलमासाद्यते चित्ताद्यन्महत्त्वोपबृंहितात्

॥१२॥

तदेतस्मिञ्जगत्कुक्षौ पातोत्पातनदोलनैः ।

पतन्ति पुरुषा ये वै मनस्तेषां गतज्वरम्

॥१३॥

पूर्णे मनसि संपूर्णं जगत्सर्वं सुधाद्रवैः ।

उपानद्रूढपादस्य ननु चर्मास्तृतैव भूः

॥१४॥

वैराग्यात्पूर्णतामेति मनो नाशावशानुगम् ।

आशया रिक्ततामेति शरदेव सरोमलम्

॥१५॥

हृदयं शून्यतामेति प्रकटीकृतकोटरम् । ।

अगस्तिपीतार्णववदाशाविवशचेतसाम्

॥१६॥

यस्य चित्ततरौ स्फारे तृष्णाचपलमर्कटी ।

न वल्गति महत्तस्य राजते हृद्वनं ततम्

॥१७॥

पद्माक्षकोशं त्रिजगद्गोष्पदं योजनव्रजम् ।

निमेषार्धं महाकल्पः स्पृहारहितचेतसाम्

॥१८॥

शीतता सा न शीतांशोर्न हिमाचलकन्दरे ।

न रम्भाचन्दनावल्यां निःस्पृहेषु मनःसु या

॥१९॥

न तथा भाति पूर्णेन्दुर्न पूर्णः क्षीरसागरः ।

न लक्ष्मीवदनं कान्तं स्पृहाहीनं यथा मनः

॥२०॥

यथाब्दलेखा शशिनं सुधालेपं मषी यथा ।

दूषयत्येवमेवान्तर्नरमाशापिशाचिका

॥२१॥

आशाख्याश्चित्तवृक्षस्य शाखाः स्थगितदिक्तटाः ।

तासु च्छिन्नास्वरूपत्वं याति चित्तमहाद्रुमः

॥२२॥

छिन्नतृष्णामहाशाखे चित्तस्थाणौ स्थितिं गते ।

एकरूपतया धैर्यं प्रयाति शतशाखताम्

॥२३॥

अनस्तमितधैर्येण तेन चित्ते क्षयं गते ।

तत्पदं प्राप्यते राम यत्र नाशो न विद्यते

॥२४॥

एतासां चित्तवृत्तीनामाशानामुत्तमाशयः ।

न ददासि प्ररोहं चेत्तद्भयं नास्ति राघव

॥२५॥

चित्तं वृत्तिविहीनं ते यदा यातमचित्तताम् ।

तदा मोक्षमयीमन्तः सत्तामाप्नोषि तां तताम्

॥२६॥

चित्तकौशिकपक्षिण्या तृष्णया क्षुब्धयान्तरे ।

अमङ्गलानि विस्तारमलमायान्ति राघव

॥२७॥

चिन्तनं वृत्तिरित्युक्तं वर्तते चित्तमाशया ।

चित्तवृत्तिमतो ह्याशां त्यक्त्वा निश्चित्ततां व्रज

॥२८॥

यो यया वर्तते वृत्त्या स तयैव विना क्षयी ।

अतश्चित्तोपशान्त्यर्थं तद्वृत्तिं प्रक्षयं नय

॥२९॥

प्रशमितसकलैषणो महात्म-

न्भव भवबन्धमपास्य मुक्तचित्तः ।

मनसि निगडरज्जवः कदाशाः

परिगलितासु च तासु को न मुक्तः

॥३०॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे तृष्णाविचिकित्सायोगोत्पत्तिर्नामैकविंशः सर्गः ।। २१ ।।