मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १४

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 14

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

भुशुण्ड उवाच ।

तस्य शक्रस्य कुलजः कश्चिदासीत्सुराधिपः ।

तत्रोत्तमगुणः श्रीमान्पाश्चात्या यस्य सा तनुः

॥१॥

अथेन्द्रकुलपुत्रस्य तस्य तत्र बभूव ह ।

प्रतिभाज्ञानसंप्राप्तिर्बृहस्पतिगिरोदिता

॥२॥

ततो विदितवेद्योऽसौ यथाप्राप्तानुवृत्तिमान् ।

चकार जगतां राज्यमाज्यपानामधीश्वरः

॥३॥

युयुधे दानवैः सार्धमजयत्सर्वशात्रवान् ।

शतं चकार यज्ञानामज्ञानोत्तीर्णमानसः

॥४॥

उवास कार्यवशतो बिसबालान्तरे चिरम् ।

अन्यान्यपि च वृत्तान्तशतान्यनुबभूव ह

॥५॥

कदाचिदासीत्तस्येच्छा प्रबोधबलशालिनः ।

ब्रह्मतत्त्वमवेक्षेऽहं यथावद्ध्यानवानिति

॥६॥

सोऽपश्यत्प्रणिधानेन तत एकान्तसंस्थितः ।

सबाह्याभ्यन्तरेऽशेषकारणत्यागशान्तधीः

॥७॥

सर्वशक्तिपरं ब्रह्म सर्ववस्तुमयं ततम् ।

सर्वथा सर्वदा सर्वं सर्वैः सर्वत्र सर्वगम्

॥८॥

सर्वतः पाणिपादान्तं सर्वतोक्षिशिरोमुखम् ।

सर्वतः श्रुतिमल्लोके सर्वमावृत्य संस्थितम्

॥९॥

सर्वेन्द्रियगुणैर्मुक्तं सर्वेन्द्रियगुणान्वितम् ।

असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च

॥१०॥

बहिरन्तश्च भूतानामचरं चरमेव च ।

सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत्

॥११॥

सर्वत्र चन्द्रार्कमयं सर्वत्रैव धरामयम् ।

सर्वत्र पर्वतमयं सर्वत्राब्धिमयं तथा

॥१२॥

सर्वत्र सारगुरुकं सर्वत्रैव नभोमयम् ।

सर्वत्र संसृतिमयं सर्वत्रैव जगन्मयम्

॥१३॥

सर्वत्रैव च मोक्षात्म सर्वत्रैवाद्यचिन्मयम् ।

सर्वत्र सर्वार्थमयं सर्वतः सर्ववर्जितम्

॥१४॥

घटे पटे वटे कुड्ये शकटे वानरे तथा ।

धाम्नि व्योम्नि तरावद्रावनिले सलिलेऽनले

॥१५॥

नानाचारविचाराणि विविधावृत्तिमन्ति च ।

परमाण्वंशमात्रेऽपि त्रिजगन्ति ददर्श सः

॥१६॥

मरिचस्यान्तरे तैक्ष्ण्यं शून्यत्वमिव चाम्बरे ।

त्रिजगत्सत्यसति च विद्यते चिन्मयात्मनि

॥१७॥

इत्येवं भावयन्मुक्तभावया शुद्धसंविदा ।

शक्रः क्रमेण तेनैव तथैव ध्यानवानभूत्

॥१८॥

ध्यानेन सर्वमेकत्र पश्यंश्चिरमुदारधीः ।

ददर्शेममसौ सर्गमस्मदीयं महामतिः

॥१९॥

ततोऽस्मिन्विचरन्सर्गे शक्रान्ते शक्रतां गतः ।

चकार राजतां राज्यं वृत्तान्तशतशोभितम्

॥२०॥

विद्याधरकुलाधीश इत्यद्यैव स देवराड् ।

तस्येन्द्रस्य कुलोत्पन्न इति विद्धि यथास्थितम्

॥२१॥

ततो हृदयबीजस्थप्राङ्मुख्याभ्यासयोगतः ।

बिसबालनिवासादिवृत्तान्तमनुभूतवान्

॥२२॥

यथैष शक्रः कथितस्त्रसरेणूदरास्पदः ।

बिसबालास्पदश्चैतत्कुलजः कान्तिमानथ

॥२३॥

तथा शतसहस्राणि तत्रेतश्चान्यतश्च खे ।

तादृशव्यवहाराणि समतीतानि सन्ति च

॥२४॥

वहतीयमविच्छिन्ना चिरायैवं तरङ्गिणी ।

तावदृश्यसरित्प्रौढा रूढारूढे च तत्पदे

॥२५॥

इति मायेयमादीर्घा प्रसृता प्रत्ययोन्मुखी ।

सत्यावलोकमात्रातिविलयैकविलासिनी

॥२६॥

यतः कुतश्चिन्मायेयं यत्र क्वचन वानघ ।

यथाकथचित्संपन्नमात्रैव परिदृश्यते

॥२७॥

अहंभावचमत्कारमात्रादृष्टरिवाम्बुदात् ।

जायते मिहिकेवाशु प्रेक्षामात्रविनाशिनी

॥२८॥

येनायताभिमतदर्शनद्रष्टृदृश्य-

मुक्तस्वभावमवभासनमात्मतत्त्वम् ।

सर्वार्थशून्यमत एव च शून्यरूप-

मेकं खमात्रमिव मात्रविकल्पमेव

॥२९॥

इत्यार्षे श्रीवा० वा ० दे ० मो० नि० उ० विद्याधरोपाख्यानान्तर्गतेन्द्राण्वाख्याने सर्गसंकल्पयोरैक्यप्रतिपादनं नाम चतुर्दशः सर्गः १४