मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः १२३

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 123

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

एवं स्थिते हि भगवञ्जीवन्मुक्तस्य सन्मतेः ।

अपूर्वोऽतिशयः कोऽसौ भवत्यात्मविदां वर

॥१॥

श्रीवसिष्ठ उवाच ।

ज्ञस्य कस्मिंश्चिदेवांशे भवत्यतिशयेन धीः ।

नित्यतृप्तः प्रशान्तात्मा स आत्मन्येव तिष्ठति

॥२॥

मन्त्रसिद्धैस्तपःसिद्धैस्तन्त्रसिद्धैश्च भूरिशः ।

कृतमाकाशयानादि का तत्र स्यादपूर्वता

॥३॥

अणिमाद्यपि संप्राप्तं तादृशैरेव भूरिशः ।

यत्नेन साधितत्वात्तैर्नेतरेणात्मदर्शिना

॥४॥

एष एव विशेषोऽस्य न समो मूढबुद्धिभिः ।

सर्वत्रास्थापरित्यागान्नीरागममलं मनः ।

भवेत्तस्य महाबुद्धेर्नासौ वस्तुषु मज्जति

॥५॥

एतावदेव खलु लिंगमलिंगमूर्तेः

संशान्तसंसृतिचिरभ्रमनिर्वृतस्य ।

तज्ज्ञस्य यन्मदनकोपविषादमोह-

लोभापदामनुदिनं निपुणं तनुत्वम्

॥६॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाण० पू० अज्ञादेर्ज्ञस्य विशेषकथनं नाम त्रयोविंशत्युत्तरशततमः सर्गः ।। १२३ ।।