मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १७६

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 176

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

जगन्ति सन्त्यसंख्यानि भविष्यन्ति गतानि च ।

तत्कथाभिः कथं ब्रह्मन्प्रबोधयसि मामिमम्

॥१॥

श्रीवसिष्ठ उवाच ।

जगत्स्वप्नेषु शब्दार्थसंबन्धोऽवगतस्त्वया ।

न नाम न च लोकेन व्यर्थं तत्कथनं ततः

॥२॥

या कथावगतात्मभ्यां शब्दार्थाभ्यां निगद्यते ।

बुध्यते सेतरा नान्तः सैवेह व्यवहारिणी

॥३॥

यदा विदितवेद्यः संस्त्रिकालामलदर्शनः ।

भविष्यसि तदा तानि प्रत्यक्षेणैव भोत्स्यसे

॥४॥

स्वप्ने चिन्मात्रमेवाद्यं स्वयं भाति जगत्तया ।

यथा तथैव सर्गादौ नात्रान्यदुपपद्यते

॥५॥

अणावणावसंख्यानि तेन सन्ति जगन्ति खे ।

तेषां तान्व्यवहारौघान्संख्यातुं क इव क्षमः

॥६॥

अत्रैव मे पुरा प्रोक्तं मत्पित्रा पद्मजन्मना ।

पद्मरेणुमताख्यानं श्रृणु तत्कथयामि ते

॥७॥

पुरा पृष्टो मया ब्रह्मा जगज्जालमिदं कियत् ।

क्व वा भातीति वद मे ब्रह्मोवाच ततः स माम्

॥८॥

श्रीब्रह्मोवाच ।

ब्रह्मैवेदं मुने सर्वं जगदित्यवभासते ।

सतामनन्तं सत्त्वेन जगत्त्वेनासतामपि

॥९॥

शुभं ममेदमाख्यानं श्रृणु श्रवणभूषणम् ।

ब्रह्माण्डपिण्ड इत्युक्तं ब्रह्माण्डाख्यानमेव च

॥१०॥

अस्ति खे खादनन्यात्मा चिद्व्योमपरमाणुकः ।

शून्यरूपमिवाकाशे शुद्धः स्पन्द इवानिले

॥११॥

सोऽपश्यदात्मना स्वप्न इव जीवत्वमात्मनि ।

शून्यरूपमिवाकाशं पवनः स्पन्दनं यथा

॥१२॥

आकाशरूपमजहदेव जीवस्ततः स्वयम् ।

अपश्यदहमित्येव रूपमाकाशरूपकम्

॥१३॥

अहंकारस्त्वहंबुद्धिरित्येवापश्यदात्मनि ।

एकनिश्चयनिर्माणमयी मायानुरूपिणी

॥१४॥

बुद्धिर्मनोहमित्येवं स्वप्ने पश्यदसन्मयम् ।

नमयन्त्यात्मनात्मानमविकल्पं विकल्पनैः

॥१५॥

अपश्यत्तन्मनः स्वप्ने देहे पञ्चेन्द्रियं ततः ।

अनाकारं घनाकारं स्वप्नाद्रित्वमिवाज्ञधीः

॥१६॥

ददर्श स मनोदेहो वपुस्त्रिभुवनात्मकम् ।

स्वात्मा स्वात्मैव निर्भित्ति भित्तिभासुरमाततम्

॥१७॥

अनेकभूतकलितं नानावयवरजङ्गमम् ।

कलनाकालकलितं कल्पितान्योन्यसंगमम्

॥१८॥

स्वप्ने प्रत्येकमेवात्र पश्यत्यादर्शबिम्बितम् ।

इव त्रैलोक्यनगरं नवरङ्गमनोहरम्

॥१९॥

अथ प्रत्येकमत्रापि नवरङ्गमनोहरम् ।

त्रिजगद्वेत्ति हृदये स्वादर्श इव बिम्बितम्

॥२०॥

परमाणोः परमाणोरिति सन्ति तनूदरे ।

अतनूनि जगन्त्युच्चैर्धनानीव च तान्यपि

॥२१॥

अविद्येयमनन्तेयमविद्यात्वेन चेतिता ।

ब्रह्मत्वेन परिज्ञाता भवति ब्रह्म निर्मलम्

॥२२॥

एवं द्रष्टापि यः स्वप्नजालं दृष्टे न किंचन ।

कोऽत्र द्रष्टा कुतो दृश्यं क्व द्वैतं क्व च कारणम्

॥२३॥

सर्वं निःशान्तमाभातं खात्म निर्भित्ति केवलम् ।

ब्रह्मात्मनि स्थिते स्वच्छमाद्यन्तपरिवर्जितम्

॥२४॥

ब्रह्माण्डलक्षनिचयाः परमात्मनीति

नित्यं स्थिता निपुणमन्यवदप्यनन्ये ।

वारिण्यवारितविसारितरङ्गवेगा-

ल्लोलं स्थिताम्बुपरमाणुचया यथैते

॥२५॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वा० उ० ब्रह्मगीतासु ब्रह्याण्डोपाख्यानं नाम षट्सप्तत्यधिकशततमः सर्गः ।।१७६ ।।