मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः ८९

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 89

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

पार्थिवीं धारणां बद्ध्वा जगन्ति समवेक्षितुम् ।

संपन्नस्त्वमसौ भूमिलोकः किमुत मानसः

॥१॥

श्रीवसिष्ठ उवाच ।

इदं च मानसं चाहं संपन्नः पृथुभूतलम् ।

नेदं न मानसं नैव संपन्नो वस्तुतस्त्वहम्

॥२॥

अमानसं महीपीठं न संभवति किंचन ।

यदसद्वेत्सि यत्सद्वा मनोमात्रकमेव तत्

॥३॥

चिदाकाशमहं शुद्धं तस्य मे तत्पदात्मनः ।

यच्चिन्मात्रात्मकचनं तत्संकल्पाभिदं स्मृतम्

॥४॥

तन्मनस्तन्महीपृष्ठं तज्जगत्स पितामहः ।

संकल्पपुरवद्व्योम्नि कचत्येतन्मनोनभः

॥५॥

एवं संकल्पमात्रं मे मनोमात्रं तदाततम् ।

धारणाभ्याससंपुष्टं भूमण्डलमिति स्थितम्

॥६॥

नेदं भूमण्डलं तद्वै तदन्यद्धि मनोमयम् ।

आकाशमात्रकचनमचेत्यं कचनं चितेः

॥७॥

तदेवाकाशमात्रात्म तथाभूतं चिरं स्थितम् ।

इदं प्रत्ययलब्धत्वान्मानसत्वं समुज्झति

॥८॥

इदं स्थिरं सुकठिनं विततं भूमिमण्डलम् ।

अस्तीति जायते बुद्धिर्व्योम्नीव चिरवेदनात्

॥९॥

न्यायेनेदमिवानेन न स्थितं वसुधातलम् ।

इदं चैवैकमेवाद्यसर्गस्याद्यमुपागतम्

॥१०॥

यथा स्वप्ने पुरत्वेन चिदेव व्योम्नि भासते ।

तथा चिदेव सर्गादाविदं जगदिति स्थितम्

॥११॥

विद्धि चिद्रूपबालस्य मनोराज्यं जगत्त्रयम् ।

महीतलादिकं दृश्यमिदं सर्वं च सर्वदा

॥१२॥

चिद्रूपस्यात्मनो नान्यः संकल्पस्तन्मयं जगत् ।

वस्तुतस्तु न सत्यात्म न पिण्डात्म न भासुरम्

॥१३॥

दृश्यमस्त्यपरिज्ञातं परिज्ञातं न विद्यते ।

परिज्ञातं तदेवास्य शृणोषि यदिदं चिरम्

॥१४॥

सर्वं चिन्मात्रमाशान्त प्रकचत्यात्मनात्मनि ।

भूमण्डलात्म दृश्यात्म द्वैतैक्याभ्यां विवर्जितम्

॥१५॥

मणिर्यथा स्वभावेन शुक्लपीतादिकास्त्विषः ।

अकुर्वन्नेव कुरुते चिदाकाशस्तथा जगत्

॥१६॥

यतो न किंचित्कुरुते न च रूपं समुज्झति ।

तस्मान्न मानसं नेदं किंचिदस्ति महीतलम्

॥१७॥

महीतलमिवाभाति चिद्व्योमैव निरन्तरम् ।

आत्मन्येवातलं व्योम यथामलतलं स्थितम्

॥१८॥

स्वभावमात्रकचन तत्तदेव यथास्थितम् ।

भूमण्डलमिवात्यच्छं खमेव विशतान्तरम्

॥१९॥

इदं भूमण्डलं तच्च द्वयमेतन्महाचितेः ।

स्वरूपमेव कचति तव स्वप्नपुरं यथा

॥२०॥

इदमाकाशमात्रात्म तदप्याकाशमात्रकम् ।

अज्ञानात्मपरिज्ञानाज्ज्ञानान्नेदं न तत्क्वचित्

॥२१॥

त्रैलोक्यभूतजालानां कालत्रितयभाविनाम् ।

संभ्रमः स्वप्नसंकल्पो मनोराज्यदशास्थितौ

॥२२॥

भूतान्यथ भविष्यन्ति वर्तमानानि यानि च ।

भूमण्डलानि तान्यत्र सत्ता सामान्यतां गता

॥२३॥

अहमेव समग्राणि तेषामन्तर्गतान्यपि ।

तेन तान्यनुभूतानि तथा दृष्टानि चाखिलम्

॥२४॥

चिन्मात्रमेतदजरं परमात्मतत्त्वं

शुद्धात्मतामजहदङ्गगतं बिभर्ति ।

सर्वं यथास्थितमिदं जगदात्तभेदं

बुद्धं सदङ्ग न बिभर्ति तु किंचनापि

॥२५॥