मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः १९

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 19

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

भुशुण्ड उवाच ।

इत्युत्सवे वर्तमाने तासां वाहास्त उत्तमाः ।

तथैव मत्ता जहसुर्ननृतुः पपुरप्यसृक्

॥१॥

तत्रैकत्रासवोन्मत्ताः काश्चिन्ननृनुरम्बरे ।

रथहंस्यः स्थिता ब्राहम्यः काकश्चालम्बुसारथः

॥२॥

नृत्यन्तीनां च हंसीनां पिबन्तीनामथासवम् ।

तले चाब्धितटानां तु रतिः सम्यगजायत

॥३॥

संजातरतयो मत्ताः सर्वा हंस्य क्रमेण ताः ।

रेमिरे सह काकेनाप्यथ मत्तास्तदा किल

॥४॥

सप्तानां कुलहंसीनां दयितो वायसस्त्वसो ।

क्रमेणारमतैकत्र यावदन्योन्यमीप्सितम्

॥५॥

अथ ता गर्भधारिण्यो बभूवुरतितोषिताः ।

देव्यश्च कृतनृत्यास्ताः सुप्रशान्तमथाययुः

॥६॥

ददुरोदनतां यातमीश्वराय प्रियामुमाम् ।

भोजनाय महामायां देव्यस्ताः शूलपाणये

॥७॥

प्रिया मे भोजने दत्तेत्येवं च शशिशेखरः ।

बुद्ध्वा बभूव रुषितो यदा मातृगणं प्रति

॥८॥

तदा तास्तां समुत्पाद्य स्वाङ्गदानेन वै पुनः ।

ददुर्भूयो विवाहेन पार्वतीमिन्दुमौलये

॥९॥

ततो देव्यो हरश्चैव परिवारस्तथैतयोः ।

सर्वे संतुष्टमनसः स्वां स्वामुपययुर्दिशम्

॥१०॥

अन्तर्वत्न्यो बभूवुस्ता ब्राह्म्यो हंस्यो मुनीश्वर ।

वृत्तान्तं कथयामासुर्ब्राह्म्या देव्या यथास्थितम्

॥११॥

ब्राह्म्युवाच ।

हे वत्स्यः सांप्रतं वत्सवत्यो मे रथकर्मणि ।

न समर्था भवन्त्यो हि स्वैरं चरत सांप्रतम्

॥१२॥

इति गर्भालसा हंसीरुक्त्वा देवी दयापरा ।

निर्विकल्पसमाधाने ब्राह्मी तस्थौ यथासुखम्

॥१३॥

अजनाभिसरोजान्तवैरिञ्चकमलाकरे ।

गर्भालसा विचेरुस्ता राजहंस्यो मुनीश्वर

॥१४॥

एवं विपक्वगर्भास्ता नाभीकमलपल्लवे ।

सुवते स्म मृदून्यण्डान्यथ वल्ल्य इवाङ्कुरान्

॥१५॥

तानि कालं समासाद्य ततोऽण्डान्येकविंशतिः ।

गर्भाक्रान्त्या द्विधा जग्मुर्ब्रह्माण्डानीव सारवत्

॥१६॥

अण्डेभ्यस्तेभ्य एवं हि जाता वयमिमे मुने ।

भ्रातरश्चण्डतनया वायसा एकविंशतिः

॥१७॥

ते संजाता गता वृद्धिं तस्मिन्कमलपल्लवे ।

संजातपक्षाः संपन्ना गगनोड्डयने क्षमाः

॥१८॥

मातृभिः सह हंसीभिर्ब्राह्मी भगवती ततः ।

चिरमाराधिता सम्यक्समाधिविरता सती

॥१९॥

प्रसादपरया काले भगवत्या ततः स्वयम् ।

तथाङ्गानुगृहीता स्मो येन मुक्ता वयं स्थिताः

॥२०॥

संशान्तमनसः शान्ता एकान्ते ध्यानसंस्थितौ ।

तिष्ठाम इति निश्चित्य पितुः पार्श्वे वयं गताः

॥२१॥

आलिङ्गितास्ततः पित्रा पूजितालम्बुसा वयम् ।

तया दृष्टाः प्रसादेन संस्थितास्तत्र संयताः

॥२२॥

चण्ड उवाच ।

पुत्राः कच्चिदपर्यन्तवासनातन्तुगुण्ठितात् ।

भवन्तो निर्गता नूनमस्मात्संसारजालकात्

॥२३॥

नो चेद्वयं भगवतीं तदिमां भृत्यवत्सलाम् ।

प्रार्थयामो यथा यूयं भवथ ज्ञानपारगाः

॥२४॥

काका ऊचुः ।

तात ज्ञातमलं ज्ञेयं ब्राह्म्या देव्याः प्रसादतः ।

किंत्वेकान्तस्थितेः स्थानमभिवाञ्छाम उत्तमम्

॥२५॥

चण्ड उवाच ।

सर्वरत्नगणाधारः समस्तसुरसंश्रयः ।

अस्ति ह्येव महोत्सेधो मेरुर्नाम महीधरः

॥२६॥

लसच्चन्द्रार्कदीपस्य भूतवृन्दकलत्रिणः ।

ब्रह्माण्डमण्डपस्यान्तः स्तम्भः कनकनिर्मितः

॥२७॥

सौवर्णचन्द्रपीठाढ्यो रत्नाढ्यशिखराङ्गुलिः ।

ध्वनद्द्वीपाब्धिवलयो भुवेवोन्नमितो भुजः

॥२८॥

वृतः कुलाद्रिसामन्तैर्जम्बूद्वीपासने स्थितः ।

राजा चन्द्रार्कनयने भ्रमयञ्छैलसंसदि

॥२९॥

तारौघमालतीमाल्यो दिग्दशैकाम्बराम्बरः ।

नागजातिद्वयस्थात्मा नाकनायकभूषणः

॥३०॥

दिगङ्गनाभिरभितो रम्याभिः पुरभूषणैः ।

एष निस्यन्दिभिः शीतैर्वीजितो घनचामरैः

॥३१॥

षोडशास्य सहस्राणि योजनानामधः क्षितौ ।

स्थिताः पादाः प्रपूज्यन्ते नागासुरमहोरगैः

॥३२॥

अशीतिश्च सहस्राणि देहोऽस्यार्केन्दुलोचनः ।

पूज्यते नाकसदने सुरगन्धर्वकिंनरैः

॥३३॥

चतुर्दशविधान्येनं गृहस्थमिव बान्धवाः ।

उपजीवन्ति भूतानि मिथो दृष्टपुरास्पदम्

॥३४॥

अस्य त्वीशानदिग्भागे पद्मरागमयं बृहत् ।

विद्यते शृङ्गमपरो दिवाकर इवोदितः

॥३५॥

अस्यास्ति पृष्ठे भूतौघवृतः कल्पतरुर्महान् ।

जगतः शिखरादर्शे प्रतिबिम्बमिव स्थितः

॥३६॥

तस्यास्ति दक्षिणस्कन्धे शाखा कनकपल्लवा ।

रत्नस्तबकनीरन्ध्रा चन्द्रबिम्बोल्लसत्फला

॥३७॥

तत्र पूर्वं मया नीडं कृतमासीत्स्फुरन्मणि ।

देव्या ध्याननिषण्णायां यस्मिन्किल रमे सुताः

॥३८॥

रत्नपुष्पदलच्छन्नं रसायनफलान्वितम् ।

चिन्तामणिशलाकाभिर्विहितालिन्दसंस्थिति

॥३९॥

बुद्धिपूर्वसमाचारैः संपूर्णं काकपुत्रकैः ।

शीतलाभ्यन्तरं हृद्यं पूरितं कुसुमोत्करैः

॥४०॥

तद्गच्छत सुता नीडं दुर्गं नाकवतामपि ।

भोगं मोक्षं च तत्रस्था निर्विघ्रमलमाप्स्यथ

॥४१॥

इत्युक्त्वास्मान्पिता तत्र चुचुम्बाभ्यालिलिङ्ग च ।

ददौ देव्या यदानीतमस्मभ्यं च तदामिषम्

॥४२॥

तद्भुक्त्वा चरणौ देव्याः पितुश्चैवाभिवाद्य च ।

विन्ध्यकच्छाद्वयं तस्मात्स्थानादालम्बुसात्प्लुताः

॥४३॥

क्रमेणाकाशमुल्लङ्घ्य निर्गत्याम्बुदकोटरैः ।

पवनस्कन्धमासाद्य वन्दितव्योमचारिणः

॥४४॥

परिहृत्य दिनाधीशं लोकान्तरपुरं गताः ।

स्वर्गमुल्लङ्घ्य याताः स्मो ब्रह्मलोकं मुनीश्वर

॥४५॥

प्रणामपूर्वं तत्रैतद्यथावत्तत्पितुर्वचः ।

मात्रे च भगवत्यै च ब्राह्म्यै चाशु निवेदितम्

॥४६॥

ताभ्यां सस्नेहमालिङ्ग्य गच्छतेत्याज्ञयैधिताः ।

वयं कृतनमस्कारा ब्रह्मलोकाद्विनिर्गताः

॥४७॥

उल्लङ्घ्य लोकपालानां पुरीस्तपनभास्वराः ।

आकाशगामिनो लोलाः पवनस्कन्धचारिणः

॥४८॥

इमं कल्पतरुं प्राप्य निजं नीडं प्रविश्य च ।

दूरस्थबाधास्तिष्ठामो मुने मौनमवस्थिताः

॥४९॥

जाता यथा वयमिमे स्थितिमागताश्च

संप्राप्य बोधमुपशान्तधियो यथावत् ।

एतत्तदुक्तमविखण्डमलं मया ते

शेषेण मां समनुशाधि महानुभाव

॥५०॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निवाणप्र० पू० भुशुं० आलयलाभो नामैकोनविंशतितमः सर्गः १९।।