मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः ५५

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 55

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीभगवानुवाच ।

न कुर्याद्भोगसंत्यागं न कुर्याद्भोगभावनम् ।

स्थातव्यं सुसमेनैव यथाप्राप्तानुवर्तिना

॥१॥

अनात्मन्यात्मतां देहे मा भावय भवात्मनि ।

आत्मन्येवात्मतां सत्ये भावयाऽभवरूपिणि

॥२॥

देहनाशे महाबाहो न किंचिदपि नश्यति ।

आत्मनाशो हि नाशः स्यान्न चात्मा नश्यति ध्रुवः

॥३॥

न हि शीर्यत्यचित्तात्मा त्यक्तसर्वपरिग्रहः ।

कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः

॥४॥

आसक्तिमाहुः कर्तृत्वमकर्तुरपि तद्भवेत् ।

मौर्ख्यस्थिते हि मनसि तस्मान्मौर्ख्यं परित्यजेत्

॥५॥

परं तत्त्वज्ञमाश्रित्य निरासक्तेर्महात्मनः ।

सर्वकर्मरतस्यापि कर्तृतोदेति न क्वचित्

॥६॥

अविनाशमनाद्यन्तमात्मानमजरं विदुः ।

नश्यत्यात्मेति दुर्बोधो मा तवास्त्विह दुःखदः

॥७॥

न तथा परिपश्यन्ति विदितात्मान उत्तमाः ।

पश्यन्त्यनात्मनात्मानं स्वमात्मन्यात्ममानिनः

॥८॥

अर्जुन उवाच ।

एवं चेत्त्रिजगन्नाथ मूढानामपि मानद ।

देहनाशे समुत्पन्ने इष्टं नष्टं न किंचन

॥९॥

श्रीभगवानुवाच ।

एवमेतन्महाबाहो न किंचिन्नश्यति क्वचित् ।

आत्मैवास्त्यविनाशात्मा किं तस्य क्व विनश्यति

॥१०॥

इदं नष्टमिदं युक्तमिति मोहभ्रमादृते ।

अन्यत्तथा न पश्यामि वन्ध्यास्त्रीतनयं यथा

॥११॥

नासतो विद्यते भावो नाभावो विद्यते सतः ।

उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः

॥१२॥

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।

विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति

॥१३॥

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।

अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत

॥१४॥

आत्मा चैकोऽस्ति न द्वित्वमसतः संभवः कुतः ।

अविनाशस्त्वनन्तोऽसौ सतो नाशो न विद्यते

॥१५॥

द्वित्वैकत्वपरित्यागे शेषं यत्परिशिष्यते ।

शान्तं सदसतोर्मध्यं तदस्तीह परं पदम्

॥१६॥

अर्जुन उवाच ।

तन्मृतोऽस्मीति भगवन्किंकृता तु नृणां स्थितिः ।

कथं स्थितौ च लोकानां तौ स्वर्गनरकौ प्रभो

॥१७॥

श्रीभगवानुवाच ।

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।

एतत्तन्मात्रजालात्मा जीवो देहेषु तिष्ठति

॥१८॥

स कृष्यते वासनया रज्वेव पशुपोतकः ।

स तिष्ठति शरीरान्तः पञ्जरे विहगो यथा

॥१९॥

स कालदेशतो देहाज्जर्जरत्वमुपागतात् ।

वासनावशतो याति प्लक्षपर्णाद्रसो यथा

॥२०॥

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।

गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात्

॥२१॥

वासनावत्त्वमेवास्य देहो नेतरयुक्तिजः ।

क्षीयते वासनात्यागे क्षीणे भवति तत्पदम्

॥२२॥

वासनावान्परापुष्टो भूत्वा भ्राम्यति योनिषु ।

जीवो भ्रमभराभारो मायापुरुषको यथा

॥२३॥

अक्षस्वभावानखिलाञ्छरीराद्वासनावशः ।

जीवो गृहीत्वा संयाति पुष्पाद्गन्धमिवानिलः

॥२४॥

देहो निस्पन्दतामेति जीवे कौन्तेय निर्गते ।

निस्पन्दावयवाभोगः शान्तवात इव द्रुमः

॥२५॥

अचेष्टं छेदभेदादिदोषैरायात्यदृश्यताम् ।

मृत इत्युच्यते तेन देहो विगतजीवितः

॥२६॥

स जीवः प्राणमूर्तिः खे यत्र यत्रावतिष्ठते ।

तं तं स्ववासनाभ्यासात्पश्यत्याकारमाततम्

॥२७॥

अयं देहो हि जीवेन त्वसन्नेवावलोकितः ।

अस्य नाशे त्वमप्येवं पश्य मा वा सुषुप्तवत्

॥२८॥

यथैव पश्यत्याकारांस्तेषां नाशांस्तथैव सः ।

आदिसर्गे भावनया किलैष्वेवं विभावतः

॥२९॥

झटित्युद्भवकाले हि यद्यथा दृश्यते पुरः ।

आनिपातं तदेवास्या अविनाभाविसंविदः

॥३०॥

प्राक्तनं वासनामूलं पुरुषार्थेन जीयते ।

यत्नेनाद्यतनेनाशु ह्यस्तनायतनं यथा

॥३१॥

य एव पुरुषार्थेन दृष्टो बलवता क्षणात् ।

पूर्वोत्तरविशेषांशः स एव जयति स्फुटम्

॥३२॥

अपि स्फुटति विन्ध्याद्रौ वाति वा प्रलयानिले ।

पौरुषं हि यथाशास्त्रमतस्त्याज्यं न धीमता

॥३३॥

नरकस्वर्गसर्गादिवासनावशतोऽभितः ।

प्रपश्यति चिराभ्यस्तं जीवो जरठमोहधीः

॥३४॥

अर्जुन उवाच ।

नरकस्वर्गसर्गादिसंभ्रमेषु जगत्पते ।

किमस्य कारणं ब्रूहि जीवस्य जगतः स्थितेः

॥३५॥

श्रीभगवानुवाच ।

स्वप्नोपमाना तेनेह श्रेयसे वासना क्षयः ।

चिराभ्यासवशात्प्रौढा संसारभ्रमकारिणी

॥३६॥

अर्जुन उवाच ।

किमुत्था देवदेवेश क्षीयते वासना कथम् ।

श्रीभगवानुवाच ।

मौर्ख्यमोहसमुत्थाना त्वनात्मन्यात्मभावना ।

आत्मज्ञानान्महाबोधाद्विलयं याति वासना

॥३७॥

भावितात्मासि कौन्तेय सत्यं विज्ञातवानसि ।

अयं सोहं जना एते मयेति त्यज वासनाम्

॥३८॥

अर्जुन उवाच ।

वासनाविलये जीवो विलीनो भवति स्वयम् ।

यो हि यत्सत्तयोच्छूनस्तन्नाशात्स विलीयते

॥३९॥

जीवे विलयमायाते देशकालान्यथाकृतौ ।

कोऽसौ भाजनतामेति जन्मनो मरणस्य च

॥४०॥

श्रीभगवानुवाच ।

स्वयं कल्पितसंकल्पमात्मरूपं यदाविलम् ।

तदेव वासनाकारं जीवं विद्धि महामते

॥४१॥

अनायत्तमसंकल्पमात्मरूपं यदव्ययम् ।

प्रबोधाद्वासनामुक्तं तन्मोक्षं विद्धि भारत

॥४२॥

जीवन्नेव महाबाहो तत्त्वं प्रेक्ष यथास्थितम् ।

वासनावागुरोन्मुक्तो मुक्त इत्यभिधीयते

॥४३॥

यो न निर्वासनो नूनं सर्वधर्मपरोऽपि सः ।

सर्वज्ञोऽप्यभितो बद्धः पञ्जरस्थो यथा खगः

॥४४॥

दुर्दर्शनस्य गगने शिखिपिच्छिकेव

सूक्ष्मा परिस्फुरति यस्य तु वासनान्तः ।

मुक्तः स एव भवतीह हि वासनैव

बन्धो न यस्य ननु तत्क्षय एव मोक्षः

॥४५॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे पू० अर्जुनोपाख्याने जीवतत्त्वनिर्णयो नाम पञ्चपञ्चाशः सर्गः ।।५५।।