मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १०८

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 108

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

अविद्या दृश्यरूपेयं कचन्ती यस्य विद्यते ।

चिन्नभःस्वप्ननगरी दृश्यमानापि शून्यकम्

॥१॥

तस्याज्ञस्य कियत्कालं किंरूपा स्यात्किमात्मिका ।

कियती सा च वेत्येवं मुने मे कथ्यतां पुनः

॥२॥

श्रीवसिष्ठ उवाच ।

अविद्या विद्यते येषामज्ञानां भूतलादिका ।

तेषामस्यां ब्रह्मणीव नास्त्यन्तोऽत्र कथां श्रृणु

॥३॥

सदृशं जगतोऽस्यास्ति क्वचिदम्बरकोणके ।

कस्मिंश्चिद्त्रिजगत्किंचिदनयैव व्यवस्थया

॥४॥

अस्ति कश्चिद्भुवो भागो भूषणं तत्र भूस्थितेः ।

पुरी ततमितिर्नाम्ना सुव्यक्तकलनाऽवनौ

॥५॥

तत्रासीत्पार्थिवः कश्चिद्विपश्चिदिति विश्रुतः ।

यः सभायां सुसभ्यायां विपश्चित्त्वाद्विराजते

॥६॥

राजहंस इवाब्जिन्यामृक्षचक्र इवोडुराट् ।

सुमेरुरिव शैलौघे यः सभायामराजत

॥७॥

निवर्तते यतोऽशक्त्या वचनं गुणवर्णनात् ।

कवीनामचलाकारा भवेद्भा भूधरो यथा

॥८॥

प्रातःप्रातर्विकसितात्सर्वाशाभासनोद्यतात् ।

यतः प्रतापजनितश्रीरुदेत्यम्बुजादिव

॥९॥

स ब्रह्मण्यमतिर्मानी वह्निमेवाधिदैवतम् ।

अपूजयत्समं भक्त्या देव वेत्ति स्म नेतरम्

॥१०॥

समत्स्यमकरव्यूहा गजवाजिगणान्विताः ।

आवर्तचक्रव्यूहाढ्याः कल्लोलबलमालिताः

॥११॥

मर्यादापालने युक्ता अकम्पनबलाधिकाः ।

मन्त्रिष्वप्यस्य चत्वारो दिक्षु सत्सागरा इव

॥१२॥

तैरशेषककुप्चक्रनाभिराभासितावनिः ।

आसीत्सुदुर्जयो जेता स सुदर्शनचक्रवत्

॥१३॥

तमेकदा ययौ पूर्वदिङ्मुखाच्चतुरश्चरः ।

स उवाच रहो रंहोगतिघोराक्षरं वचः

॥१४॥

देव दोर्द्रुमविश्रान्तधरागोबन्धनाच्युत ।

श्रूयतां मन्मुखात्पश्चाद्यथाप्राप्तं विधीयताम्

॥१५॥

पूर्वदिङ्मुखसामन्तो ज्वरेणास्तमुपागतः ।

मन्ये जेतुं यमं यातस्त्वयारब्धो जितारिणा

॥१६॥

तस्मिन्समन्ततो जेतुं दक्षिणापथनायकः ।

पूर्वापराभ्यामाक्रम्य बलाभ्यामरिणाऽऽहतः

॥१७॥

तस्मिन्मृते समागम्य यावद्वारुणदिक्पतिः ।

बलेनायाति ककुभौ ते समादातुमादृतः

॥१८॥

पूर्वदेशनृपैः सार्धं दक्षिणापथपार्थिवैः ।

तावदेवारिभिरसावर्धमार्गे रणे हतः

॥१९॥

श्रीवसिष्ठ उवाच ।

अथास्मिन्कथयत्येवं त्वरार्तमपरश्चरः ।

उपप्लवजडोत्पीड इव हर्म्यं विवेश ह

॥२०॥

चर उवाच ।

उत्तराशाबलाध्यक्षो देवारिभिरुपद्रुतः ।

इत आयाति सबलो भग्नसेत्वम्बुपूरवत्

॥२१॥

श्रीवसिष्ठ उवाच ।

इति श्रुत्वा महीपालः कालक्षेपमवास्तवम् ।

मन्यमान उवाचेदं निर्गच्छन्वरमन्दिरात्

॥२२॥

राज्ञः सन्नह्य सामन्तानानीयन्तां च मन्त्रिणः ।

उद्धाट्यन्तां हेतिशाला दीयन्तां घोरहेतयः

॥२३॥

श्लेष्यन्तां कंकटा देहेष्वागच्छन्तु पदातयः ।

गण्यन्तामाशु सैन्यानि क्रियन्तां वरकल्पनाः

॥२४॥

कल्प्यन्तां च बलाध्यक्षाः प्रेष्यन्तामभितश्चराः ।

श्रीवसिष्ठ उवाच ।

वदत्येवं त्वरायुक्तं संरम्भवति राजनि

॥२५॥

प्रतीहार उवाचेदं प्रविश्याकुलमानतः ।

प्रतीहार उवाच ।

उत्तराशाबलाध्यक्षो देव द्वार्यवतिष्ठति ।

काङ्क्षत्यब्जमिवार्कस्य देवदेवस्य दर्शनम्

॥२६॥

राजोवाच ।

गच्छाविलम्बितं तावदेनमेव प्रवेशय ।

जानीमः किं दिगन्तेषु वृत्तं वृत्तान्तसंश्रवात्

॥२७॥

श्रीवसिष्ठ उवाच ।

इत्युक्त उत्तराशेशं प्रतिहारप्रवेशितम् ।

प्रणामपरमग्रेऽसौ राजाऽपश्यद्वलाधिपम्

॥२८॥

क्षतविक्षतसर्वाङ्गमङ्गमङ्गेषुसंततम् ।

श्वासाकुलं वमद्रक्तं धैर्येणाबलनिर्जितम्

॥२९॥

स प्रणम्य त्वरायुक्तमुवाचेदमुपक्रमम् ।

संस्तभ्याङ्गव्यथामाशु संततोच्छ्वासमुच्छ्वसन्

॥३०॥

बलाध्यक्ष उवाच ।

देव त्रयोऽपि दिक्पाला बलेन बहुना सह ।

त्वदाज्ञयेव निर्जेतुं यमं यमपुरं गताः

॥३१॥

तद्देशपालनाद्यर्थमशक्तं मामिमं ततः ।

अनुद्रवन्तो बहवो भूपाः प्राप्ता बलादिह

॥३२॥

महत्परबलं प्राप्तमिदं देवस्य मण्डलम् ।

विधीयतां तथाप्राप्तं न देवस्यास्ति दुर्जयम्

॥३३॥

श्रीवसिष्ठ उवाच ।

अथ तस्मिन्वदत्येवमार्तिमत्याजिविक्षते ।

सहसैवाभ्युवाचेदं प्रविश्य पुरुषोऽपरः

॥३४॥

पुरुषा मण्डलस्यास्य विपुला दललीलया ।

स्थितान्यरिबलान्युच्चैश्चतुर्दिक्कं नरेश्वर

॥३५॥

कचच्चक्रगदाप्रासकुन्तकाननकान्तिभिः ।

वलिता नोऽरिभिर्भूमिर्लोकालोकतटैरिव

॥३६॥

पताकायुधयोध्रङ्गाश्चलत्परिकराकुलाः ।

विसरन्ति रथास्तत्र प्रोड्डीनत्रिपुरौघवत्

॥३७॥

करानुन्नामयन्तः खे मांसवृक्षवनोपमाः ।

बृंहन्ति वारणव्यूहा वर्षावारिदवृन्दवत्

॥३८॥

नतोन्नतानि कुर्वन्तः स्पन्देनोर्वीनतोन्नतैः ।

हेषन्ते हयसंघाता वातस्पन्दमहाब्धिवत्

॥३९॥

रसन्ति तुरगापुराः फेनिलावर्तपातिनः ।

सर्वतो वलयाकारा लवणार्णववारिवत्

॥४०॥

आकाशकान्तिसन्नाहैर्दिशं प्रति बलं बलम् ।

उदेत्यलघुकल्लोलैः प्रलयार्णवपूरवत्

॥४१॥

शरास्त्रशस्त्रसन्नाहमुकुटाभरणत्विषः ।

कचन्ति त्वत्प्रतापाग्नेर्ज्वाला इव तदङ्गगाः

॥४२॥

समत्स्यमकरव्यूहाः सचक्रावर्तवृत्तयः ।

उद्यन्ति सैन्यसंघट्टैः कल्लोला जलधेरिव

॥४३॥

परस्परपरामर्शात्कुन्ताद्यायुधपङ्क्तयः ।

कोपादिवोग्रहुंकारैर्ज्वलन्ति विरटन्ति च

॥४४॥

इति कर्तुमहं देव विज्ञप्तिं स्वामिनेरितः ।

तस्मान्मण्डलसीमान्तगुल्माद्युद्धाय गच्छता

॥४५॥

तमहं देव गच्छामि शक्त्यृष्टिशरसंगतः ।

मयेहावेदितं सर्वं देवो जानात्यतः परम्

॥४६॥

श्रीवसिष्ठ उवाच ।

इत्युक्त्वाथ प्रणामं च स कृत्वा त्वरया ययौ ।

कृत्वा गुलुगुलारावं शान्तो वीचिरिवाम्बुधेः

॥४७॥

संभ्रान्तमन्त्रिनृपयोधनियोगिनाग-

नारीरथाश्वपरिचारकनागरौघम् ।

राज्ञो गृहं स्वभयतोलितहेतिसार्थं

चण्डानिलाकुलमहावनतुल्यमासीत्

॥४८॥

इत्यार्षे श्रीवा०वा०दे०मो०नि०उ० अविद्योपाख्यानान्तर्गतविपश्चिदुपा०अविद्याक्षेपणे पार्थिवसंरम्भवर्णनं नामाष्टोत्तरशततमः सर्गः ।।