मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः ११२

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 112

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

लोकहाराम्बरव्यालं चेदिचन्दनकाननम् ।

छिन्नं परशुधाराभिः पतितं दक्षिणार्णवे

॥१॥

पर्णवत्प्रोह्य पूरेण पारसीकाः परस्परम् ।

प्रहरन्तो विमोहेन विनष्टा वंजुलावने

॥२॥

दर्दुराद्रौ दुरन्तेषु दरदीर्णहृदन्तराः ।

दरीरन्ध्रेषु संलीना दरदा दानवा इव

॥३॥

चतुरायुधधाराग्रचूर्णनीहारधारिणः ।

विद्युद्वलयिनो वाता वेल्लितायुधवारिदाः

॥४॥

दन्तिनोऽन्योन्यमाभग्नदन्तदेहौघपीडिताः ।

मृत्यूदरोम्भकग्रासपिण्डपिण्डा इवाभवन्

॥५॥

तज्जा रैवतिका रात्रौ रौद्रतोमरताडिताः ।

रूपिकाभिः पिशाचीभिर्भुक्ता भागीकृताङ्गकाः

॥६॥

तालीतमालगहने दशार्णा जीर्णजङ्गले ।

गले पादं निधायान्तः कृत्ताः सिंहैर्गतासवः

॥७॥

पश्चिमार्णवतीरस्था नालिकेरधरावनौ ।

यवना विगतप्राणा निगीर्णा मकरोत्करैः

॥८॥

नाराचनिकरं नीलं निमेषं नासहञ्छकाः ।

रमठा नलिनीषण्डा इव ताण्डवितासवः

॥९॥

श्रवणाभोगशृङ्गाग्रो महेन्द्रोऽद्रिर्दिवि व्रजैः ।

विद्रुतैर्वलितो नीलैर्जालैर्जलमुचामिव

॥१०॥

चामीकरवराकारा भग्ना तङ्गणवाहिनी ।

मृता हृताम्बरा चोरैर्भुक्तैकान्ते निशाचरैः

॥११॥

द्यौरिवर्क्षभरैरासीत्तदासारं भुवस्तलम् ।

विवर्तमानैरभितः कचद्भिर्ज्वलनायुधैः

॥१२॥

धाराधरधरारन्ध्रप्रतिश्रुद्धनघुंघुमा ।

जगद्गेहगुहासीद्द्यौर्घनं गातुमिवोद्यता

॥१३॥

द्विपान्तरजनाश्चक्रैर्जर्जरा जीवितं जहुः ।

मीनजङ्गलजम्बाले जीर्णमत्स्या इवाजले

॥१४॥

यावद्द्वीपा जिताः कुक्षौ सह्याद्रौ सममूर्तयः ।

आश्वस्य दिवसान्सप्त ययुरायासमन्थरम्

॥१५॥

गन्धमादनपुन्नागवनकुञ्जेषु पुञ्जिताः ।

विद्याधरकुमारीभिर्गान्धाराः परिरक्षिताः

॥१६॥

हूणचीनकिरातानां मुक्तैस्तैश्चक्रवर्षणैः ।

कमलानीव लूनानि शिरांस्यभिमुखानिलैः

॥१७॥

निलीपा नलिनीनाले कण्टका इव निश्चलाः ।

द्रुमे द्रुमे द्रुममया भयात्त्वस्यावसंश्चिरम्

॥१८॥

चारुसारङ्गरङ्गासु शैलकाननभूमिषु ।

चतुर्दिक्कं तदापातैः संपन्नं क्षोभणं घनम्

॥१९॥

कण्टकस्थलनामानः कण्टकस्थलकर्कशाः ।

कण्टकस्थलगा आसन्कण्टकस्थलमण्डले

॥२०॥

पारसीकाः परं पूरैः पारं प्राप्य पयोनिधेः ।

निपेतुः पवनैः पूताः प्रलये तारका इव

॥२१॥

ववुरम्भोधिकुट्टाका दृषदां कटकाङ्किताः ।

सर्वदिग्वनलुण्टाका वाताः प्रलयशङ्किताः

॥२२॥

आसारसाराः पङ्काम्बुप्लुताः सघनघुंघुमाः ।

आसन्दशदिशोऽदृश्या बहुक्षुब्धायुधानिलैः

॥२३॥

निर्ह्रादकारिभिर्वातैर्वहच्छपछपारवम् ।

प्रसस्रुर्भुवि नीहारा महार्णवरया इव

॥२४॥

विदूरस्था रथेभ्यश्च वीचिचीत्कारकारिणः ।

सरोम्भस्यनिलैः पेतुः पद्मेभ्य इव षट्पदाः

॥२६॥

आयुधौघेऽपि चक्रौघात्पादातं वलमाविलम् ।

रजोराशिरिवासारे न समर्थं पलायने

॥२६॥

हूणा आमस्तकं मग्ना उत्तरार्णवसैकते ।

क्लिन्नास्तत्रैव पङ्कान्तः पूरणाविलशूलवत्

॥२७॥

तीरैलावनलेखासु शकाः पूर्वपयोनिधेः ।

नीता बद्ध्वा दिनं मुक्ता न गता यमसादनम्

॥२८॥

मन्दं मन्द्रा महेन्द्राद्रौ क्रन्दन्तः पतिता दिवः ।

आश्वासिता मुनिवरैर्निजाश्रममृगा इव

॥२९॥

प्रविष्टा याचनं सह्ये लब्धाः सुरविलाद्द्वयम् ।

अनर्थेनाऽर्थ आयाति काकतालीयतः क्वचित्

॥३०॥

पतिता दर्दुरारण्ये दशार्णा जीर्णपर्णवत् ।

भुक्त्वा विषफलान्यज्ञा मृतास्तत्रैव ते स्वयम्

॥३१॥

विशल्यकरणीं भुक्त्वा काकतालीययोगतः ।

हिमाद्रौ हैहया याता गृहं विद्याधरा इव

॥३२॥

पृष्ठनृम्लानकुसुमा धनुर्भिर्गृहमागताः ।

वङ्गा नाद्यापि दृश्यन्ते पिशाचत्वमिवागताः

॥३३॥

अङ्गा वनफलैर्भुक्तैर्विद्याधरपदप्रदैः ।

विद्याधरीभिः क्रीडन्ति दिवि विद्याधराः स्थिताः

॥३४॥

तालीतमालखण्डेषु पतिताः पातिताङ्गकाः ।

पारसीका गता मोहं भ्रमाद्वैमानिका इव

॥३५॥

तरलासारमातङ्गं पतितं तङ्गणाङ्गणे ।

अङ्गैरंग कलिङ्गानां चतुरङ्गं वलं हतम्

॥३६॥

क्रमत्यरिबले साल्वाः शरशैलोदकोदरे ।

पतिताः प्रभुणा सार्धमद्याप्येवोपलाः स्थिताः

॥३७॥

असंख्याः प्रपलायन्तः ककुभं ककुभं प्रति ।

नराः सरत्तरङ्गेषु सागरेषु लयं गताः

॥३८॥

क्षेत्राटवीपुरजलस्थलशैलकूल-

कुल्याग्रहारसरिदब्धिभृगुद्रुमेषु ।

ग्रामारपट्टिगिरिकूपगुहागृहेषु

भ्रष्टानि कःकलयितुं कुबलानि शक्तः

॥३९॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० नि० उ० अवि० वि० बलपरिभ्रंशो नाम द्वादशाधिकशततमः सर्गः ।। ११२ ।।