मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १२३

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 123

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

इत्येते दृश्यरूपाया अविद्याया विचारणे ।

प्रवृत्ताः पादचारेण समुद्रद्वीपगामिनः

॥१॥

अब्धेर्द्वीपं पुनर्द्वीपादब्धिं द्वीपं गिरिं वनम् ।

लाघवाल्लङ्घयामासुश्छेदभेदविवर्जिताः

॥२॥

पीतो विपश्चित्पाश्चात्यो मीनेनामरमानिना ।

विष्णुमीनकुलोत्थेन वितस्तावाहनौजसा

॥३॥

क्षीरोदं प्राप्य मत्स्येन तेनोद्गीर्णः सुदुर्जरः ।

तेन क्षीरोदमुल्लङ्घ्य गतो दूरं दिगन्तरम्

॥४॥

दक्षिणो यक्षनगरे संप्रेक्ष्येक्षुरसार्णवे ।

शिक्षादक्षिणयाक्षिप्य यक्षिण्या कामुकीकृतः

॥५॥

पूर्वो मकरमाक्रम्य यदा गङ्गां निकृत्तवान् ।

गङ्गया स तदानीय कान्यकुब्जे समुज्झितः

॥६॥

उत्तरस्तूत्तरकुरूनाराध्य प्राप्तवाञ्श्रियम् ।

तं तयैनं न बाधन्ते दिगन्ते मृतभीतयः

॥७॥

तया मकरमातङ्गनिगीर्णोद्गीर्णमूर्तिमान् ।

अतिचक्राम सुबहून्द्वीपान्तरकुलाचलान्

॥८॥

पश्चिमः पृष्ठमारोप्य हेमचूडेन पक्षिणा ।

कुशद्वीपे कुशाङ्गश्रीस्तरसा तारतोऽर्णवान्

॥९॥

क्रौञ्चद्वीपाचले पूर्वो निगीर्णो रक्षसा वने ।

तद्रक्षः पाटितं तेन हृदयेऽन्त्रविकर्तनैः

॥१०॥

दक्षिणो दक्षशापेन यक्षतामागतः क्षणात् ।

शाकद्वीपे शतेनासौ वर्षाणां मोक्षमागतः

॥११॥

उत्तरस्तरसोत्तीर्णतारावरतरङ्गिणः ।

महार्णवसुवर्णोर्व्यां सिद्धशापाच्छिलां गतः

॥१२॥

ततो वर्षशतेनासौ प्रसादाज्जातवेदसः ।

तेनैवोन्मोचितस्तत्र सिद्धेन रतिमाप्तवान्

॥१३॥

वर्षाण्यष्टावभूद्राजा नालिकेरनिवासिनाम् ।

पूर्वः परमधर्मिष्ठः प्राप्तवान्प्राक्स्मृतिं ततः

॥१४॥

कल्पवृक्षवने मेरोरुत्तरेऽप्सरसा सह ।

उवास दशवर्षाणि नालिकेरफलाशनः

॥१५॥

विहगाश्वासतत्त्वज्ञः शाल्मलिद्वीपशाल्मलौ ।

पश्चिमः पक्षिणीनीडे क्रीडया न्यवसत्समाः

॥१६॥

मन्दराद्रौ मृदुतले मन्दारतरुमन्दिरे ।

किन्नरी मन्दरीनाम्नी दिनमेकमसेवत

॥१७॥

क्षीरोदवेलावनकल्पवृक्ष-

वनावलीनन्दनदेवताभिः ।

सार्धं समाः सप्ततिमप्सरोभि-

र्निनाय कामाकुलितोऽथ पूर्वः

॥१८॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० नि० उ० अवि० वि० दिग्विहरणं नाम त्रयोविंशाधिकशततमः सर्गः ।। १२३ ।।