मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १३१

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 131

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

दशरथ उवाच ।

क्लिष्टोऽयं यदविद्यार्थं विपश्चिदविपश्चितः ।

तदहं चेष्टितं मन्ये कष्टोऽवस्तुनि किंग्रहः

॥१॥

श्रीवाल्मीकिरुवाच ।

अस्मिन्नवसरे तत्र राज्ञः पार्श्वे व्यवस्थितः ।

प्रसङ्गपतितं वाक्यं विश्वामित्रोऽभ्युवाच ह

॥२॥

अप्राप्तोत्तमबोधानां बोधवेद्या विलक्षणाः ।

भवन्त्येवंविधा राजन्बहूनां बहवो भृशम्

॥३॥

अद्य सप्तदशं वर्षलक्षमक्षीणनिश्चयाः ।

एवमेव भ्रमन्तोऽस्यां वटधाना भुवि स्थिताः

॥४॥

भूमेरन्तावलोकार्थमद्याप्युद्वेगवर्जितम् ।

प्रवृत्ता न निवर्तन्ते वहनात्सरितो यथा

॥३॥

अयं खलु महालोको वर्तुलो व्योम्नि संस्थितः ।

बालसंकल्पतरुवद्ब्राह्मसंकल्पनिश्चयः

॥६॥

कन्दुके व्योम्नि संरुद्धे दशदिक्कं पिपीलिकाः ।

इत्थं भ्रमन्ति भूतानि तदाधाराणि नित्यदा

॥७॥

भूगोलकाधोभागानि तदङ्गान्यूर्ध्ववन्ति च ।

तदा भूतानि तिष्ठन्ति तान्याविश्य भ्रमन्ति च

॥८॥

तमेवाविश्य दूरेण सरितश्चर्क्षमण्डलम् ।

असंस्पर्शा भ्रमन्त्युऽच्चैः सचन्द्रार्कादि संततम्

॥९॥

इहैव सर्वदिक्कं द्योस्तामावेष्ट्य व्यवस्थिता ।

सर्वदिक्कं खमत्यूर्ध्वं तस्याधस्तान्महीतलम्

॥१०॥

भावाः पतन्तो धावन्ति तस्याधः सर्वतोङ्गकम् ।

यत्रोत्पतन्तो गच्छन्ति तदूर्ध्वमिति शब्दितम्

॥११॥

तत्रैकदेशे विद्यन्ते वटधानाभिधानकाः ।

जातास्तेषां त्रयो राजन् राजपुत्राः पुराभवन्

॥१२॥

ते ह्येवमेकसंकल्पा भूम्यादेर्दृश्यवर्त्मनः ।

कोऽन्तः स्यादिति निर्याता विहर्तुं दृढनिश्चयाः

॥१३॥

पुनर्वारि पुनर्भूमिस्तेषामाक्रमतां चिरम् ।

नवलब्धशरीराणां दीर्घकालो व्यवर्तत

॥१४॥

स्वच्छकन्दुकवम्रीकन्यायेनानिशमत्र ते ।

भ्रमन्तो नाप्नुवन्त्यन्तमन्यत्वं संविदन्ति च

॥१५॥

व्योमस्थकन्दुकभ्रान्तपिपीलिकवदाकुलम् ।

अद्यापि संस्थिता राजन्न च खेदं व्रजन्ति ते

॥१६॥

देशं भूगोलकस्यास्य यं यमासादयन्ति च ।

इहेव तत्र तत्रोच्चैरधश्चोर्ध्वं तथा दिशः

॥१७॥

ते वदन्ति महाराज यद्यस्माभिरितोद्यतैः ।

न तावदन्तः संप्राप्तः संचराम इतः परम्

॥१८॥

इत्थं न किंचिदेवेदं ब्रह्मसंकल्पडम्बरम् ।

किंचित्संकल्पमज्ञानमनन्तं स्वप्नदृश्यवत्

॥१९॥

कल्पनं तत्परं ब्रह्म परं ब्रह्मैव कल्पनम् ।

चिद्रूपं नानयोर्भेदः शून्यत्वाकाशयोरिव

॥२०॥

चिन्मात्रं यद्यदाभातं जलवाहविवर्तवत् ।

तत्तादृक्कथमन्याभमन्यस्यासंभवाद्भवेत्

॥२१॥

अभावः खे च खमिदं सर्गादौ परमाम्बरम् ।

स्वयं जगदिवाभाति नान्यत्प्रलयसर्गकौ

॥२२॥

यथा कषति चिद्रूपं तथैव रतिमेत्य तत् ।

दृष्टादृष्टैः स्वसंसारैश्चिरमास्ते यथा चिरम्

॥२३॥

दृश्यात्मकं रूपमेकमेकमस्यैवमक्षयम् ।

स्वयमेवमजं भाति यन्न भातीव किंचन

॥२४॥

चिदणोरुदरे सन्ति समस्तानुभवाणवः ।

शिलाः शैलोदर इव स्वच्छाः खात्मनि खात्मिकाः ।।

स्वभावनिष्ठास्तिष्ठन्ति ते यदव्याकृतात्मनि ।

मा तिष्ठन्ति तु वै ते यदव्यावृत्ताः परे पदे

॥२६॥

तदेव जगदित्युक्तं ब्रह्म भारूपमाततम् ।

पूर्वापरपरामर्शान्निपुणं निपुणाशयाः

॥२७॥

अत्याश्चर्यमनष्टोऽयं परमात्सदनात्स्वयम् ।

नानात्वबुद्ध्या नानैव जीवोऽहमिति ताम्यति

॥२८॥

उच्यतां भास भो राजन्विपश्चिदपराख्य हे ।

कियद्दृष्टं कियद्भ्रान्तं दृश्यं स्मरसि किंच वा

॥२९॥

भास उवाच ।

बहु दृष्टं मया दृश्यं बहु भ्रान्तमखेदिना ।

बह्वेव बहुधा नूनमनुभूतं स्मराम्यहम्

॥३०॥

मयानुभूतानि महान्ति राजं-

श्चिरं सुदूरे विविधैः शरीरैः ।

सुखानि दुःखानि जगन्त्यनन्ता-

न्यनन्तमासाद्य महाम्बरं तत्

॥३१॥

विचित्रदेहैर्वरशापयोगा-

द्दृश्यान्यनन्तानि मया महात्मन् ।

जन्मान्तरावर्तविवर्तनानि

दृढैकचित्तेन वरात्कृशानोः

॥३२॥

दृश्यात्मकोर्वीवपुषस्त्वविद्या-

दृशो जवेनान्तपरीक्षणाय ।

देहेन देहेन जगत्प्रति प्राक्

स्मृतेः सदाहं घनयत्नमासम्

॥३३॥

समाः सहस्रं विटपोऽहमास-

मन्तर्मनाश्चेतनभुक्तदुःखः ।

चित्तं विना पुष्पफलप्रताने

वा कन्दवत्तत्तरसाङ्गरागः

॥३४॥

समाः शतं मेरुमृगोऽहमासं

सुवर्णवर्णस्तरुपर्णकर्णः ।

दूर्वाङ्कुरास्वादनगीतिनिष्ठ

अहन्कनिष्ठो वनवासिमध्ये

॥३५॥

पादाष्टकैरावलितात्मपृष्ठो

मृतेऽम्भसः क्लेशकृतात्ममृत्युः ।

समाः शतार्धं शरभोऽहमासं

क्रौञ्चाचले काञ्चनकन्दरासु

॥३६॥

कालागुरुद्रुमलतावलितानिलेन

विद्याधरीसुरतधर्मकलामृतानि ।

पीतानि मे मलयसानुनि मन्दरे च

मन्दारचन्दनकदम्बलतागृहेषु

॥३७॥

हेमारविन्दमकरन्दपिशङ्गितानि

पीतानि पञ्चदशवर्षशतानि मेरौ ।

वैरिञ्चहंसतनयेन मया पयांसि

तीरान्तरेषु रमतोपरि निर्झरिण्याः

॥३८॥

क्षीरोदवेलावनगन्धवाह-

विलोलनीलालकवल्लरीणाम् ।

समाः शतं शोकजरापहारि

गीतं श्रुतं माधवसुन्दरीणाम्

॥३९॥

कालञ्जरे मञ्जरिते करञ्ज-

गुञ्जावने जम्बुकतां गतोऽहम् ।

गजेन पिष्टे हरिणा हतोऽसौ

हस्ती मयात्रार्थमृतेन दृष्टः

॥४०॥

संतानकप्रकरहासिनि सह्यसानौ

कस्मिंश्चिदन्यजगतीन्दुमुखी सुरस्त्री ।

एकाकिनी कृतयुगार्धमथाहमासं

कल्पद्रुमस्तबकसद्मनि सिद्धशापात्

॥४१॥

अद्रीन्द्रकच्छकरवीरलतालयेषु

नीतं समाशतमशङ्कधिया मयान्यत् ।

अन्यत्र दूरजगतीन्द्रगिरौ विरावि-

वाल्मीकपक्षिवपुषाऽनिशमेककेन

॥४२॥

अन्यत्र सानुनि मया परिलम्बमानाः

सच्छायचन्दनवनावलिते लतानाम् ।

दृष्टाः स्त्रियः फलमिवावलिता विलासै-

भुक्ताश्च ता अपहृता अपि सिद्धपान्थैः

॥४३॥

अन्यत्र पर्वतनितम्बकदम्बकच्छे

नीतानि तापसतयोत्तमया दिनानि ।

प्राप्यैकवस्त्वभिनिवेशविषूचिकात्त-

चित्तेन तान्तमतिनाऽमतिना मयान्तः

॥४४॥

ब्रह्माण्डसंपूरितमन्यदस्ति

जलेचराशेषदिगन्तभूतम् ।

संदिग्धतेजोम्बरवातसत्तं

जलस्थभूताकृतिमात्रभूमि

॥४५॥

एकत्र दृष्टा वनिता मयैका

तस्याः शरीरे त्रिजगन्ति भान्ति ।

प्रतिबिम्बितानीव सुदर्पणेऽन्त-

राकाशशैलादिदिगादिमन्ति

॥४६॥

पृष्टा मयासौ वरगात्रि कासि

शरीरमेतच्च किमीदृशं ते ।

तयोक्तमङ्गेह चिदस्मि शुद्धा

ममाङ्गमेतानि महाजगन्ति

॥४७॥

यथाहमेवं स्मयदेहिकेयं

सर्वं तथैवाङ्ग न चित्रमेतत् ।

अन्यैः स्वभावो विदितो न शुद्धो

यदा न पश्यन्ति तदेत्थमङ्ग

॥४८॥

अवेदशास्त्रेण जगत्यशेषै-

र्भूतैः स्वदेहालयभित्तिभागात् ।

एतद्विधेयं न विधेयमेत-

द्ध्वनिः स्वतः श्रूयत एव नित्यम्

॥४९॥

ईदृक्स्वभावैव पदार्थसत्ता

सा तेऽत्र यद्भित्त्यचलादयोऽपि ।

स्वप्नादिमायास्विव मे वदन्ति

वाचं न युष्मास्वसमञ्जसं तत्

॥५०॥

अस्त्रीकसंसारगतेन दृष्टं

मया क्वचिद्यावदनन्यकामम् ।

भूतानि निर्यान्ति बहूनि भूता-

द्विशन्ति भूतानि बहूनि भूतम्

॥५१॥

एकानि दृष्टानि मयाञ्जसानि

खेऽभ्राण्यदभ्राङ्ग झणज्झणानि ।

वृष्ट्या समन्तान्निपतन्ति खण्डै-

र्भवन्ति तीक्ष्णानि जनायुधानि

॥५२॥

अन्यत्र दृष्टं गगनेन याव-

दिहान्धया ग्रामगृहाणि यान्ति ।

विशन्त्यमुत्रान्त इहाभवद्वो

ग्रामः स एवान्यत एव लब्धः

॥५३॥

नरामराऽहिप्रविभागमुक्ता-

न्यन्यत्र भूतानि समानि सन्ति ।

खादेव सर्वाणि समुद्भवन्ति

तत्रैव काले न लयं प्रयान्ति

॥५४॥

अचन्द्रतारार्कमनन्धकारं

स्वयंप्रकाशाखिलभूतजातम् ।

स्मरामि किंचिज्जगदेककान्तं

ज्वालोदराभं दिनरात्रिमुक्तम्

॥५५॥

अपूर्वदैत्याहिनरामरादि-

भूतान्यपूर्वद्रुमपत्तनानि ।

अपूर्वलोकान्तरकार्यवन्ति

स्मराम्यनन्तानि महाजगन्ति

॥५६॥

दिगस्ति सा नो विहृतं न यस्यां

न सोऽस्ति देशः खलु यो न दृष्टः ।

यन्नानुभूतं न तदस्ति कार्य-

मन्याश्रयं नापरमस्ति मर्शात्

॥५७॥

क्षीरोदकभ्रमितमन्दररत्नश्रृङ्ग-

धाराग्रनिर्दलनजातझणज्झणानाम् ।

एकत्र संयुतमुपेन्द्रभुजाङ्गदानां

शब्दं स्मरामि घनगर्जितशङ्कितेन

॥५८॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० नि० उ० अ० वि० भाससंसारवर्णनं नामैकत्रिंशाधिकशततमः सर्गः ।। १३१ ।।