मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १७१

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 171

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

संविदाकाशकचनमिदं भाति जगत्तया ।

वस्तुतो न जगन्नाभा न शून्यं न च संविदः

॥१॥

यदिदं भाति चिद्व्योम जगदाख्यं न तत्ततः ।

आकाशादिव शून्यत्वमन्यदन्यदपि स्थितम्

॥२॥

देशाद्देशान्तरप्राप्तौ मध्ये यत्संविदो वपुः ।

तद्दृश्यमिति भातीदं दृश्यमन्यन्न विद्यते

॥३॥

महाप्रलयसंपत्तावादिसर्गः पुनः किल ।

परस्मात्कारणाभावे कुतो दृश्यस्य संभवः

॥४॥

तदाणुमात्रमपि हि दृश्यबीजं न विद्यते ।

किल यस्मादिदं चक्रं पुनर्मूर्तं प्रवर्तते

॥५॥

उत्पन्नमेव नैवातो मूर्तं दृश्यमिदं जगत् ।

वन्ध्यापुत्र इवात्यन्तमतोऽस्त्येव न दृश्यधीः

॥६॥

यच्चेदं किंचिदाभाति दृश्यमित्यभितः स्थितम् ।

तच्चिन्मात्रं खमेवाच्छं परमेव पदं विदुः

॥७॥

यथा सुषुप्तात्स्वप्नत्वं गच्छद्यात्यनवस्थितिम् ।

चिन्मात्रमजहत्स्वच्छं निजं रूपमनामयम्

॥८॥

सर्गस्यादौ तथैवेदमात्मैव स्वात्मनात्मनि ।

व्योमात्मैव चिदाभासं दृश्यमित्यवभासते

॥९॥

यथा पुरतया भाति मनः संकल्पमन्थरम् ।

तथा दृश्यमिवाभाति सर्गादौ चिन्नभः परम्

॥१०॥

यथात्मन्यनिलः स्पन्दश्चक्रावर्तवदीहते ।

सर्गादौ चिन्नभः स्थित्वा दृश्यमित्येव तिष्ठति

॥११॥

अतो ज्ञातमनाभातमेव दृश्यं जगत्त्रयम् ।

ब्रह्मैवेदं परं भाति स्वात्मनीत्थमवस्थितम्

॥१२॥

नास्त्येव मूर्तं पृथ्व्यादि किंचनापि कदाचन ।

अस्तु मूर्तममूर्तं वा ब्रह्मैवेदं विराजते

॥१३॥

प्रबोधकाले स्वप्नाद्रिर्यथा व्योमैव निर्वपुः ।

तथेदं शान्तचिन्मात्रं खं प्रवोधे जगत्त्रयम्

॥१४॥

प्रबुद्धानां परं ब्रह्म निर्विभागमिदं जगत् ।

धीमन्तोऽपि न तद्विद्मो यदिदं त्वप्रबोधनम्

॥१५॥

देशाद्देशान्तरप्राप्तौ यन्मध्ये संविदो वपुः ।

स्वस्वभावो हि भूतानां तत्पदं परमात्मकम्

॥१६॥

देशाद्देशान्तरप्राप्तौ यन्मध्ये संविदो वपुः ।

एतत्तत्परमाकाशमत्र सर्वं प्रतिष्ठितम्

॥१७॥

यादृगेतत्पदं तादृगिदं सदसदात्मकम् ।

येनार्थपञ्चकादन्यत्किंचनापि न विद्यते

॥१८॥

रूपालोकमनस्कारा एतदेव पदं विदुः ।

एते ते द्रवतावर्ताः पदस्यास्य महाम्भसः

॥१९॥

देशाद्देशान्तरप्राप्तौ यन्मध्ये संविदो वपुः ।

एतस्याव्यतिरेकेण जगत्ता नास्ति काचन

॥२०॥

रागद्वेषादयो भावा भावाभावदृशस्तथा ।

एतद्रूपममुञ्चन्त एतस्यावयवाः स्थिताः

॥२१॥

त्यक्त्वा पूर्वापरे कोट्यौ मध्ये यत्संविदो वपुः ।

स स्वभावः परो ज्ञेयो जगत्पयसि संज्ञितः

॥२२॥

देशाद्देशान्तरप्राप्तौ विद्धि मध्यमसंविदः ।

जगदित्यपरं नाम स्वरूपादच्युतात्मनः

॥२३॥

आदिसर्गात्प्रभृत्येव दृश्यमुत्पन्नमेव नो ।

यन्नाम तदिहास्तीति मायाशम्बरडम्बरः

॥२४॥

कष्टं नास्त्येव यद्दृश्यं तदप्यस्तीति संस्थितम् ।

यदप्यस्ति परं ब्रह्म कष्टं नास्तीति तत्स्थितम्

॥२५॥

अब्रह्मण्यं क्व गच्छामि विपरीतमतो जगत् ।

असदृश्यं सदित्युक्तं ब्रह्मैवं नावगम्यते

॥२६॥

न चोत्पन्नं न चाभाति दृश्यं किंचन कुत्रचित् ।

यदिदं भाति तद्ब्रह्म व्योमैव कचति स्वयम्

॥२७॥

यथा मणिः प्रकचति स्वभासाऽव्यतिरिक्तया ।

आत्मनोऽनन्यया सृष्ट्या चिद्व्योम कचितं तथा

॥२८॥

तस्मिन्नेव पदे शान्ते तपत्येष दिवाकरः ।

तस्यैवावयवश्चैव न नामान्योऽस्ति भास्करः

॥२९॥

स्थितोऽपि तत्र न तपत्यर्को न च निशाकरः ।

प्रकाशयति देवोऽसावर्कं नार्कस्तमीश्वरम्

॥३०॥

तस्य भासा विभातीदं तदहो दृश्यमण्डलम् ।

सर्वचन्द्रार्कवह्नीनां पदार्थानां स दीपकः

॥३१॥

स साकारो निराकार इति शब्दार्थकल्पना ।

खपुष्पवदसद्रूपा न संभवति तद्विदाम्

॥३२॥

साङ्गभूतो यथैकोऽणुर्भाति जीवार्कतेजसि ।

न भान्ति भान्ति वा तत्र तथा सूर्यादयोऽणवः

॥३३॥

चिन्मात्राकाशरत्नस्य सृष्टयोऽर्कादिसंयुताः ।

या भासस्ताः कथं तस्माद्व्यतिरिक्ताः स्युरुच्यताम्

॥३४॥

चिन्मात्रेणापि रहितं शून्यत्वेनापि वर्जितम् ।

पदं सर्वात्मरिक्तं तत्सर्वार्थैश्च समन्वितम्

॥३५॥

पृथ्व्यादीन्यपि सन्त्येव तत्र सन्ति न कानिचित् ।

जीवन्तोऽपि न विद्यन्ते जीवास्तत्र च केचन

॥३६॥

अत्यजन्तो द्वयस्थौल्यं तत्रैते परमाणवः ।

स्वरूपमत्यजद्द्वैतमैक्यं वात्र न किंचन

॥३७॥

किंचिदत्र न किंचिद्वै न किंचिच्च न किंचन ।

किंचिन्न किंचिदित्येषा कलनात्रातिदूरगा

॥३८॥

एका निरन्तरानन्ता नित्यमत्याततात्मना ।

चिन्मात्रव्योमसत्तैव जगन्नाम्नात्मनि स्थिता

॥३९॥

एकं चेत्यं त्यक्तवत्या अप्राप्तायाश्चितोऽपरम् ।

यद्रूपं जगतो रूपमस्य नानात्मनोऽपि तत्

॥४०॥

नानेवेदमनानैव चिद्व्योमैवेदमाततम् ।

भूतपञ्चकरूपेण स्वप्ने चितिरिव स्थितम्

॥४१॥

सुषुप्ताद्विशतः स्वप्नं सुषुप्तस्थैव चिद्यथा ।

यथा स्थितैव स्वप्नत्वमेत्येवं सर्गतामिमाम्

॥४२॥

यादृक्सुषुप्तं स्वप्नस्तु तादृगेव तथैव च ।

जाग्रत्तुर्यं तथैवेदमतो व्योमसमं जगत्

॥४३॥

जाग्रत्स्वप्नः सुषुप्तं च तुर्यमेवाखिलं स्थितम् ।

तत्त्वविद्गोत्रमूढस्तु यद्वै वेत्ति न वेद्मि तत्

॥४४॥

जडानामजडानां यः सर्वार्थानामनारतम् ।

दुर्लक्ष्यपरिणामोऽन्तर्मनोबुद्ध्यादिवर्जितः

॥४५॥

सुशुद्धायाश्चितो रूपं पदार्थास्तन्मयाश्च ते ।

ते वसन्ति न सद्रूपास्तदेव हि तथा स्थितम्

॥४६॥

परिणामादिशब्दार्थदृशामत इहानघ ।

उपदेशार्थमुक्तीनां गन्धोऽप्येवं न विद्यते

॥४७॥

आदिसर्गात्प्रभृत्येव महासत्तात्मनात्मनि ।

चिन्मात्रपरमाकाशं स्थितमेकं महात्मनः

॥४८॥

प्रपूर्णैकात्मनि प्रख्या सा सर्वव्यापिनी चितिः ।

स्थिता तयात्मन्येवान्तर्जगदित्यभिधाः कृताः

॥४९॥

परिज्ञाते यथा स्वप्ने स्वाङ्गीकारात्सुखं सुखम् ।

अनङ्गीकारतो दुःखं सदुःखं भवति क्षणात्

॥५०॥

गच्छतस्तिष्ठतश्चैव जाग्रतः स्वपतस्तथा ।

नित्यमेकं समाधानं स्थितं शान्तस्य तद्विदः

॥५१॥

भेदेऽप्यभेदनिष्ठस्य दुःखेऽपि हि सुखस्थितेः ।

सतोऽप्येवासतो ज्ञस्य किमन्यदवशिष्यते

॥५२॥

न संत्यजति नादत्ते किंचिद्व्यवहरन्नपि ।

हृदयेन बहिःकार्येऽकार्यं एवावतिष्ठते

॥५३॥

यथा हिमस्य शीतत्वं वह्नेरौष्ण्यं तथेदृशः ।

स्वभावोऽस्य भवेन्नित्यं न त्वाहार्यो गुणोऽस्य सः

॥५४॥

यस्य त्वेष स्वभावः स्यान्न नाम न स तत्त्ववित् ।

एतदेवाज्ञताचिह्नं यदिच्छा प्रकृतेतरा

॥५५॥

आश्वस्तान्तःकरणः

क्षीणविकल्पः स्वरूपसारमयः ।

परमशमामृततृप्त-

स्तिष्ठति विद्वान्निरावरणः

॥५६॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वा० उ० दैतैक्यनिरामययोगोपदेशो नामैकसप्तत्यधिकशततमः सर्गः ।। १७१ ।।