मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १८६

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 186

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवाल्मीकिरुवाच ।

कुन्ददन्ते वदत्येवं वसिष्ठो भगवान्मुनिः ।

उवाचेदमनिन्द्यात्मा परमार्थोचितं वचः

॥१॥

श्रीवसिष्ठ उवाच ।

बत विज्ञानविश्रान्तिरस्य जाता महात्मनः ।

करामलकवद्विश्वं ब्रह्मेति परिपश्यति

॥२॥

किलेदं भ्रान्तिमात्रात्म विश्वं ब्रह्मेति भात्यजम् ।

भ्रान्तिर्ब्रह्मैव च ब्रह्म शान्तमेकमनामयम्

॥३॥

यद्यथा येन यत्रास्ति यादृग्यावद्यदा यतः ।

तत्तथा तेन तत्रास्ति तादृक्तावत्तदा ततः

॥४॥

शिवं शान्तमजं मौनममौनमजरं ततम् ।

सुशून्याशून्यमभवमनादिनिधनं ध्रुवम्

॥५॥

यस्या यस्यास्त्ववस्थायाः क्रियते संविदा भरः ।

सा सा सहस्रशाखत्वमेति सेकैर्यथा लता

॥६॥

परो ब्रह्माण्डमेवाणुश्चिद्व्योम्नोन्तःस्थितो यतः ।

परमाणुरेव ब्रह्माण्डमन्तःस्थितजगद्यतः

॥७॥

तस्माच्चिदाकाशमनादिमध्य-

मखण्डितं सौम्यमिदं समस्तम् ।

निर्वाणमस्तंगतजातिबन्धो

यथास्थितं तिष्ठ निरामयात्मा

॥८॥

स्वयं दृश्यं स्वयं द्रष्टृ स्वयं चित्त्वं स्वयं जडम् ।

स्वयं किंचिन्न किंचिच्च ब्रह्मात्मन्येव संस्थितम्

॥९॥

यथा यत्र जगत्येतत्स्वयं ब्रह्म खमात्मनि ।

स्वरूपमजहच्छान्तं यत्र संपद्यते तथा

॥१०॥

ब्रह्म दृश्यमिति द्वैतं न कदाचिद्यथास्थितम् ।

एकत्वमेतयोर्विद्धि शून्यत्वाकाशयोरिव

॥११॥

दृश्यमेव परं ब्रह्म परं ब्रह्मैव दृश्यता ।

एतन्न शान्तं नाऽशान्तं नानाकारं न चाकृतिः

॥१२॥

यादृग्प्रबोधे स्वप्नादिस्तादृग्देहो निराकृतिः ।

संविन्मात्रात्मा प्रतिघः स्वानुभूतोऽप्यसन्मयः

॥१३॥

संविन्मयो यथा जन्तुर्निद्रात्मास्ते जडोभवत् ।

जडीभूता तथैषास्ते संवित्स्थावरनामिका

॥१४॥

स्थावरत्वाज्जडाच्चित्त्वं जङ्गमात्म प्रयाति चित् ।

जीवः सुषुप्तात्मा स्वप्नं जाग्रच्चैव जगच्छतैः

॥१५॥

आमोक्षमेषा जीवस्य भुव्यम्भस्यनिलेऽनले ।

खे खात्मभिर्जगल्लक्षैः स्वप्नाभैर्भासते स्थितिः

॥१६॥

चिच्चिनोति तथा जाड्यं नरो निद्रास्थितिर्यथा ।

चिनोति जडतां चित्त्वं न नाम जडतावशात्

॥१७॥

चिता वेदनवेत्तारं स्थावरं क्रियते वपुः ।

चिता वेदनवेत्तारं जङ्गमं क्रियते वपुः

॥१८॥

यथा पुंसो नखाः पादावेकमेव शरीरकम् ।

तथैकमेवाप्रतिघं चितः स्थावरजङ्गमम्

॥१९॥

आदिसर्गे स्वप्न इव यत्प्रथामागतं स्थितम् ।

चितो रूपं जगदिति तत्तथैवान्त उच्यते

॥२०॥

तच्चैवाप्रतिघं शान्तं यथास्थितमवस्थितम् ।

न प्रथामागतं किंचिन्नासीदप्रथितं हितम्

॥२१॥

अयमादिरयं चान्तः सर्गस्येत्यवभासते ।

चितः सुघननिद्रायाः सुषुप्तस्वप्नकोष्ठतः

॥२२॥

स्थित एको ह्यनाद्यन्तः परमार्थघनो यतः ।

प्रलयस्थितिसर्गाणां न नामाप्यस्ति मां प्रति

॥२३॥

प्रलयस्थितिसर्गादि दृश्यमानं न विद्यते ।

एतन्न चात्मनश्चान्यच्चित्रे चित्रवधूर्यथा

॥२४॥

कर्तव्यचित्रसेनास्माद्यथा चित्रान्न भिद्यते ।

नानाऽनानैव प्रतिघा चित्तत्त्वे सर्गता तथा

॥२५॥

विभागहीनयाप्येष भागश्चिद्धननिद्रया ।

सुषुप्तान्मुष्यते मोक्ष इति स्वप्नस्तु चित्तकम्

॥२६॥

प्रलयोऽयमियं सृष्टिरयं स्वप्नो घनस्त्वयम् ।

भासोऽप्रतिघरूपस्य चित्सहस्ररुचेरिति

॥२७॥

चिन्निद्रायाः स्वप्नमयो भागश्चित्तमुदाहृतम् ।

तदेव मुच्यते भूतं जीवो देवासुरादिदृक्

॥२८॥

एष एव परिज्ञातः सुषुप्तिर्भवति स्वयम् ।

यदा तदा मोक्ष इति प्रोच्यते मोक्षकाङ्क्षिभिः

॥२९॥

श्रीराम उवाच ।

चित्तं देवासुराद्यात्म चिन्निद्रा स्वात्मदर्शनम् ।

कियत्प्रमाणं भगवन्कथमस्योदरे जगत्

॥३०॥

श्रीवसिष्ठ उवाच ।

विद्धि चित्तं नरं देवमसुरं स्थावरं स्त्रियम् ।

नागं नगं पिशाचादि खगकीटादिराक्षसम्

॥३१॥

प्रमाणं तस्य चानन्तं विद्धि तद्यत्र रेणुताम् ।

आब्रह्मस्तम्बपर्यन्तं जगद्याति सहस्रशः

॥३२॥

यदेतदादित्यपथादूर्ध्वं संयाति वेदनम् ।

एतच्चित्तं भूतमेतदपर्यन्तामलाकृति

॥३३॥

एतदुग्रं चितो रूपमस्यान्तर्भुवनर्द्धयः ।

यदायान्ति तदा सर्गश्चित्तादागत उच्यते

॥३४॥

चित्तमेव विदुर्जीवं तदाद्यन्तविवर्जितम् ।

खं घटेष्विव देहेषु चास्ते नास्ते तदिच्छया

॥३५॥

निम्नोन्नतान्भुवो भागान् गृह्णाति च जहाति च ।

सरित्प्रवाहोऽङ्ग यथा शरीराणि तथा मनः

॥३६॥

अस्य त्वात्मपरिज्ञानादेष देहादिसंभ्रमः ।

शाम्यत्याश्ववबोधेन मरुवाःप्रत्ययो यथा

॥३७॥

जगत्यन्तरणुर्यत्र तत्प्रमाणं हि चेतसः ।

सदेव च पुमांस्तस्मात्पुंसामन्तःस्थितं जगत्

॥३८॥

यावत्किंचिदिदं दृश्यं तच्चित्तं स्वप्नभूष्विव ।

तदेव च पुमांस्तस्मात्को भेदो जगदात्मनोः

॥३९॥

चिदेवायं पदार्थौघो नास्त्यन्यस्मिन्पदार्थता ।

व्यतिरिक्ता स्वप्न इव हेम्नीव कटकादिता

॥४०॥

यथैकदेशे सर्वत्र स्फुरन्त्यापोऽम्बुधौ पृथक् ।

ब्रह्मण्यनन्या नित्यस्थाश्चितो दृश्यात्मिकास्तथा

॥४१॥

यथा द्रवत्वमम्भोधावापो जठरकोशगाः ।

स्फुरन्त्येवं विदोऽनन्याः पदार्थौघास्तथापरे

॥४२॥

यथास्थितजगच्छालभञ्जिकाकाशरूपधृक् ।

चित्स्तम्भोयमपस्पन्दः स्थित आद्यन्तवर्जितः

॥४३॥

यथास्थितमिदं विश्वं संविद्व्योम्नि व्यवस्थितम् ।

स्वरूपमत्यजच्छान्तं स्वप्नभूमाविवाखिलम्

॥४४॥

समता सत्यता सत्ता चैकता निर्विकारिता ।

आधाराधेयतान्योन्यं चैतयोर्विश्वसंविदोः

॥४५॥

स्वप्नसंकल्पसंसारवरशापदृशामिह ।

सरोब्धिसरिदम्बूनामिवान्यत्वं न वाथवा

॥४६॥

श्रीराम उवाच ।

वरशापार्थसंवित्तौ कार्यकारणता कथम् ।

उपादानं विना कार्यं नास्त्येव किल कथ्यताम्

॥४७॥

श्रीवसिष्ठ उवाच ।

स्ववदातचिदाकाशकचनं जगदुच्यते ।

स्फुरणे पयसामब्धावावर्तचलनं यथा

॥४८॥

ध्वनन्तोऽब्धिजलानीव भान्ति भावाश्चिदात्मकाः ।

संकल्पादीनि नामानि तेषामाहुर्मनीषिणः

॥४९॥

कालेनाभ्यासयोगेन विचारेण समेन च ।

जातेर्वा सात्त्विकत्वेन सात्त्विकेनामलात्मना

॥५०॥

सम्यग्ज्ञानवतो ज्ञस्य यथा भूऽतार्थदर्शिनः ।

बुद्धिर्भवति चिन्मात्ररूपा द्वैतैक्यवर्जिता

॥५१॥

निरावरणविज्ञानमयी चिद्ब्रह्मरूपिणी ।

संवित्प्रकाशमात्रैकदेहादेहविवर्जिता

॥५२॥

सोऽयं पश्यत्यशेषेण यावत्संकल्पमात्रकम् ।

स्वमात्मकचनं शान्तमनन्यत्परमार्थतः

॥५३॥

अस्या इदं हि संकल्पमात्रमेवाखिलं जगत् ।

यथा संकल्पनगरं यथा स्वप्नमहापुरम्

॥५४॥

आत्मा स्वसंकल्पवरः स्ववदातो यथा यथा ।

यद्यथा संकल्पयति तथा भवति तस्य तत्

॥५५॥

संकल्पनगरे बालः शिलाप्रोड्डयनं यथा ।

सत्यं वेत्त्यनुभूयाशु स्वविधेयनियन्त्रणम्

॥५६॥

स्वसंकल्पात्मभूतेऽस्मिन्परमात्मा जगत्त्रये ।

वरशापादिकं सत्यं वेत्त्यनन्यत्तथात्मनः

॥५७॥

स्वसंकल्पपुरे तैलं यथा सिद्ध्यति सैकतात् ।

कल्पनात्सर्गसंकल्पैर्वरादीह तथात्मनः

॥५८॥

अनिरावरणज्ञप्तेर्यतः शान्ता न भेदधीः ।

ततः संकल्पनाद्वैताद्वराद्यस्य न सिद्ध्यति

॥५९॥

या यथा कलना रूढा तावत्साद्यापि संस्थिता ।

न परावर्तिता यावद्यत्नात्कल्पनयान्यया

॥६०॥

ब्रह्मण्यवयवोन्मुक्ते द्वितैकत्वे तथा स्थिरे ।

यथा सावयवे तत्त्वे विचित्रावयवक्रमः

॥६१॥

श्रीराम उवाच ।

अनिरावरणाज्ञानात्केवलं धर्मचारिणः ।

शापादीन्संप्रयच्छन्ति यथा ब्रह्मंस्तथा वद

॥६२॥

श्रीवसिष्ठ उवाच ।

संकल्पयति यन्नाम सर्गादौ ब्रह्म ब्रह्मणि ।

तत्तदेवानुभवति यस्मात्तत्रास्ति नेतरत्

॥६३॥

ब्रह्म वेत्ति यदात्मानं स ब्रह्मायं प्रजापतिः ।

स च नो ब्रह्मणो भिन्नं द्रवत्वमिव वारिणः

॥६४॥

संकल्पयति यन्नाम प्रथमोऽसौ प्रजापतिः ।

तत्तदेवाशु भवति तस्येदं कल्पनं जगत्

॥६५॥

निराधारं निरालम्बं व्योमात्म व्योम्नि भासते ।

दुर्दृष्टेरिव केशोण्ड्रं दृष्टमुक्तावलीव च

॥६६॥

संकल्पिताः प्रजास्तेन धर्मो दानं तपो गुणाः ।

वेदाः शास्त्राणि भूतानि पञ्च ज्ञानोपदेशनाः

॥६७॥

तपस्विनोऽथ वादैश्च यद्ब्रूयुरविलम्बितम् ।

यद्यद्वेदविदस्तत्स्यादिति तेनाथ कल्पितम्

॥६८॥

इदं चिद्ब्रह्मच्छिद्रं खं वायुश्चेष्टाग्निरुष्णता ।

द्रवोऽम्भः कठिनं भूमिरिति तेनाथ कल्पिताः

॥६९॥

चिद्धातुरीदृशो वासौ यद्यत्खात्मापि चेतति ।

तत्तथानुभवत्याशु त्वमहं स इवाखिलम्

॥७०॥

यद्यथा वेत्ति चिद्व्योम तत्तथा तद्भवत्यलम् ।

स्वप्ने त्वमहमादीव सदात्माप्यसदात्मकम्

॥७१॥

शिलानृतं यथा सत्यं संकल्पनगरे तथा ।

जगत्संकल्पनगरे सत्यं ब्रह्मण ईप्सितम्

॥७२॥

चित्स्वभावेन शुद्धेन यद्बुद्धं यच्च यादृशम् ।

तदशुद्धोऽन्यथा कर्तुं न शक्तः कीटको यथा

॥७३॥

अभ्यस्तं बहुलं संवित्पश्यतीतरदल्पकम् ।

स्वप्ने जाग्रत्स्वरूपे च वर्तमानेऽखिलं च सत्

॥७४॥

सदा चिद्व्योम चिद्व्योम्नि कचदेकमिदं निजम् ।

द्रष्टृदृश्यात्मकं रूपं पश्यदाभाति नेतरत्

॥७५॥

एकं द्रष्टा च दृश्यं च चिन्नभः सर्वगं यतः ।

तस्माद्यथेष्टं यद्यत्र दृष्टं तत्तत्र सत्सदा

॥७६॥

वाय्वङ्गस्पन्दनवज्जलाङ्गद्रवभाववत् ।

यथा ब्रह्मणि ब्रह्मत्वं तथाजस्याङ्गं जगत्

॥७७॥

ब्रह्मैवाहं विराडात्मा विराडात्मवपुर्जगत् ।

भेदो न ब्रह्मजगतोः शून्यत्वाम्बरयोरिव

॥७८॥

यथा प्रपाते पयसो विचित्राः कणपङ्कतयः ।

विचित्रदेशकालान्ता निपतन्त्युत्पतन्ति च

॥७९॥

निपत्त्यैवैकयाऽऽकल्पं मनोबुद्ध्यादिवर्जिताः ।

आत्मन्येवात्मनो भान्ति तथा या ब्रह्मसंविदः

॥८०॥

ताभिः स्वयं स्वदेहेषु बुद्ध्यादिपरिकल्पनाः ।

कृत्वोररीकृता सर्गश्रीरद्भिर्द्रवता यथा

॥८१॥

तदेवं जगदित्यऽस्ति दुर्बोधेन मम त्विदम् ।

अकारणकमद्वैतमजातं कर्म केवलम्

॥८२॥

अस्तस्थितिः शरीरेऽस्मिन्यादृग्रूपानुभूयते ।

उपलादौ जडा सत्ता तादृशी परमात्मनः

॥८३॥

यथैकस्यां सुनिद्रायां सुषुप्तस्वप्नकौ स्थितौ ।

तथैते सर्गसंहारभासौ ब्रह्मणि संस्थिते

॥८४॥

सुषुप्तस्वप्नयोर्भातः प्रकाशतमसी यथा ।

एकस्यामेव निद्रायां सर्गासर्गौ तथा परे

॥८५॥

यथा नरोऽनुभवति निद्रायां दृषदः स्थितिम् ।

परमात्मानुभवति तथैतज्जडसंस्थितिम्

॥८६॥

अङ्गुष्ठस्याथवाङ्गुल्या वाताद्यस्पर्शने सति ।

योऽन्यचित्तस्यानुभवो दृषदादौ स आत्मनः

॥८७॥

व्योमोपलजलादीनां यथा देहानुभूतयः ।

तथास्माकमचित्तानामद्य नानानुभूतयः

॥८८॥

काले कल्पेषु भान्त्येता यथाहोरात्रसंविदः ।

तथाऽसंख्याः परे भान्ति सर्गसंहारसंविदः

॥८९॥

आलोकरूपमननानुभवैषणेच्छा-

मुक्तात्मनि स्फुरति वारिघने स्वभावात् ।

आवर्तवीचिवलयादि यथा तथायं

शान्ते परे स्फुरति संहृतिसर्गपूगः

॥९०॥

इत्यार्षे श्रीवा०वा०दे०मो०नि०उ० ब्रह्मगी० सर्वं खल्विदं ब्रह्मेति प्रतिपादनयोगोपदेशो नाम षडशीत्यधिकशततमः सर्गः ।। १८६ ।।