मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १८७

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 187

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

विचित्राणामसंख्यानां भावानां नियतिः कुतः ।

कथं स्वभावो भावानामेकरूपः स्थितोऽचलः

॥१॥

सत्स्वसंख्येषु देवेषु सूर्य एवोग्रभाः कथम् ।

दीर्घत्वमथ ह्रस्वत्वं दिवसानां तु किंकृतम्

॥२॥

श्रीवसिष्ठ उवाच ।

काकतालीयवद्भानं यत्परे नियतं स्वतः ।

यथास्थितं यथारूपं स्थिते तज्जगदुच्यते

॥३॥

सर्वशक्तेर्यथा यद्यद्भाति तत्तत्तथैव सत् ।

संविन्सारतया यायात्कथं भातमभातताम्

॥४॥

यथा स्थितं यथा भाति चित्त्वाद्ब्रह्म चिराय यत् ।

तस्य भानमभानाभं नियत्यभिधमेव तत्

॥५॥

इदमित्थमिदं चेत्थं स्वयं ब्रह्मेति भाति यत् ।

तन्नियत्यभिधं प्रोक्तं सर्गसंहाररूपधृक्

॥६॥

जाग्रत्स्वप्नसुषुप्ताख्यं यत्स्वतः कचनं चिति ।

तत्ततोऽनन्यदेकाच्छं द्रवत्वमिव वारिणि

॥७॥

यथा शून्यत्वमाकाशे कर्पूरे सौरभं यथा ।

यथौष्ण्यमातपे नान्यज्जाग्रदादि तथा चिति

॥८॥

सर्गप्रलयनाम्न्येकप्रवाहानन्यसत्तया ।

चिन्मात्रगगनात्मैकब्रह्मात्मन्येव संस्थितम्

॥९॥

सर्गोऽयमिति तद्बुद्धं क्षणं यत्कचनं चितः ।

कल्पोऽयमिति तद्बुद्धं क्षणं तत्कचनं चितः

॥१०॥

तत्कालस्तत्क्रिया तत्त्वं देशद्रव्योदयादि तत् ।

यत्स्वप्न इव चिन्मात्रकचनं स्वस्वभावतः

॥११॥

रूपालोकमनस्कारदेशकालक्रियादि तत् ।।

चित्त्वं कचति चिद्व्योम्नि यन्नामानाकृति स्वतः

॥१२॥

यद्यथा कचितं कालं यत्किंचित्कल्पितं तथा ।

तेनैवेयं हि नियतिरित्यप्याकाशरूपकम्

॥१३॥

आकल्पाख्यं निमेषं यत्कचनं चैकरूपकम् ।

स्वाभाविकाः स्वभावं तं प्राहुः प्रसृतबुद्धयः

॥१४॥

एकस्य संविन्मात्रस्य पदार्थशतता तथा ।

यथेदं संविदंशस्य रूपं स्वं स्वमनुज्झतः

॥१५॥

संविन्मये संविदो याः कचन्तीव परे तथा ।

ताभिस्तेषां स्वदेहानां यासां सा कलना कृता

॥१६॥

चिदुर्वी सलिलं तेजः स्पन्दः शून्यत्वमेव च ।

प्रत्येकमाकरस्त्वेषां तानि स्वप्न इवाम्बरम्

॥१७॥

तत्र सप्रतिघस्यास्य कठिनस्याकरो महान् ।

भूपीठं जनताधारो राजव्राजेव राजते

॥१८॥

अपामब्धिः प्रधानानां तेजसामेष भास्करः ।

स्पन्दस्य पवनो व्योम शून्यताया जगद्गतम्

॥१९॥

पञ्चानामिति भूतानामाकरत्वेन संविदः ।

पञ्च तान्युचिता ब्राह्म्यः प्रश्नः किं भास्करं प्रति

॥२०॥

बुधा संविच्चिदित्युक्ता सर्वगा सर्वरूपिणी ।

सर्वत्र स्वमहिम्नैषा सर्वेणैवानुभूयते

॥२१॥

ब्रह्मात्मा ब्रह्मबालोऽयं स्वसंवित्स्फुरणामिमाम् ।

व्योमात्मक्षौमभूनाम्नीं स्फारयत्यम्बराकृतिः

॥२२॥

सा यदैतत्तथैतच्च चिरमत्त्यजसंविदा ।

तदा तदङ्गस्यार्कादेर्नाऽतो नोत्पादि चञ्चलम्

॥२३॥

संकल्पपूर्वमशकजालवद्धिष्ण्यचक्रकम् ।

आवर्तवर्तिना भाति चिद्व्योमेदं च दृश्यवत्

॥२४॥

तत्र प्रभास्वराः केचित्केचिदप्यल्पभास्वराः ।

केचिच्चाभास्वरा भाताः पदार्थाश्चित्ररूपिणः

॥२५॥

पदार्थजातं त्वेतावन्न जातं न च दृश्यते ।

ज्ञस्याजातमिदं भाति खमात्मा स्वप्नदृश्यवत्

॥२६॥

चिन्मात्रमात्मा सर्वेशः सर्व एवातिदृश्यवत् ।

नश्यतीव विदेहे स्वे न च भाति न नश्यति

॥२७॥

स्वप्नदर्शनवद्भाति यच्चिद्व्योम चिदम्बरे ।

चिद्व्योमत्वादृते रूपं तदस्य जगतः कुतः

॥२८॥

यद्यथा स्फुरितं तस्य यावत्सत्तं स्फुरद्वपुः ।

तत्स्वभावनियत्याख्यैः शब्दैरिह निगद्यते

॥२९॥

गगनाङ्गस्य सत्तान्तः शब्दतन्मात्रकल्पया ।

कुसूलबीजाङ्कुरवत्तिष्ठत्याशान्तरूपिणी

॥३०॥

संपद्यते तत इदमितीयं रचनेहया ।

कृता सा मुग्धबोधाय मूर्खैर्विरचिता मुधा

॥३१॥

नास्तमेतीह नोदेति तत्कदाचन किंचन ।

शिलाजठरवच्छान्तमिदं नित्यं सदप्यसत्

॥३२॥

यथावयविनो नान्तः सदैवावयवाणवः ।

नास्तं यान्ति न चोद्यन्ति जगन्त्यात्मपदे तथा

॥३३॥

ब्रह्म व्योम्नि जगद्व्योम व्योम व्योम्नीव विद्यते ।

तत्कथं किल संशुद्धमस्तमायात्युदेति वा

॥३४॥

तस्यानन्तप्रकाशात्मरूपस्याततचिन्मणेः ।

सत्तामात्रात्मकचनं यदजस्रं स्वभावतः

॥३५॥

तदात्मना स्वयं किंचिच्चेत्यतामिव गच्छति ।

अगृहीतात्मकं संविदूहामर्शनसूचकम्

॥३६॥

भाविनामार्थकलनैः किंचिदूहितरूपकम् ।

आकाशादणु शुद्धं च सर्वस्मिन्भाविबोधनम्

॥३७॥

ततः सा परमा सत्ता सती तच्चेतनोन्मुखी ।

चिन्नामयोग्या भवति किंचिल्लभ्यतया तया

॥३८॥

घनसंवेदनात्पश्चाद्भाविजीवादिनामिका ।

सा भवत्यात्मकलना यद्भवन्ती परं पदम्

॥३९॥

गर्भीकृत्य स्थिताऽनाख्या चिदाकाशापिधानताम् ।

संप्रति त्वतिशुद्धस्य पदस्यानन्यरूपिणी

॥४०॥

स्वतैकभावनामात्रसारसंसरणोन्मुखी ।

तदा विनाभावकृता अनुतिष्ठन्ति तामिमाः

॥४१॥

शून्यरूपा स्वसत्तैका शब्दादिगुणगर्भिणी ।

चिद्भावनाभिसंपन्ना भविष्यदभिधार्थता

॥४२॥

अहंतोदेति तदनु सह वै कालसत्तया ।

भविष्यदभिधार्थे ते बीजं मुख्यं जगत्स्थितेः

॥४३॥

चितिशक्तेः परायास्तु स्वसंवेदनमात्रकम् ।

जगज्जालमसद्रूपं चेतनात्सदिव स्थितम्

॥४४॥

एवंप्रायात्मिका सा चिद्बीजं संकल्पशाखिनः ।

अहंतां भावयत्यन्तः सैवेह भवति क्षणात्

॥४५॥

जीवाभिधाना सैषाद्य भावाभावप्लवभ्रमैः ।

भ्रमत्यात्मपदे वीचिरूपैर्वारीव वारिणि

॥४६॥

चिदेवंभावनवती व्योमतन्मात्रभावनाम् ।

स्वतो घनीभूय शनैः खतन्मात्रं प्रचेतति

॥४७॥

भाविनामार्थरूपं तद्बीजं शब्दौघशाखिनः ।

पदवाक्यप्रमाणाढ्यवेदार्थादिविकारि च

॥४८॥

तस्मादुदेष्यत्यखिला जगच्छ्रीः शब्दतत्त्वतः ।

शब्दौघनिर्मितार्थौघपरिणामविसारिणी

॥४९॥

चिदेवंव्यवसाया सा जीवशब्देन कथ्यते ।

भाविशब्दार्थजालेन बीजं भूतौघशाखिनः

॥५०॥

चतुर्दशविधं भूतजातमावलिताम्बरम् ।

जगज्जठरकर्णौघं तस्मात्संप्रसरिष्यति

॥५१॥

असंप्राप्ताभिधाचारा जीवत्वाच्चेतनेन चित् ।

काकतालीयवत्स्पन्दचिन्मात्रं चेतति स्वयम्

॥५२॥

पवनस्कन्धरूपस्य बीजं त्वक्स्पर्शशाखिनः ।

सर्वभूतक्रियास्पन्दस्तस्मात्संप्रसरिष्यति

॥५३॥

तत्र यच्चिद्विलासस्य प्रकाशानुभवो भवेत् ।

रूपतन्मात्रकं तद्वद्भविष्यदभिधार्थदम्

॥५४॥

प्रकाशचेतनं तेजो न तेजोऽन्यकृतं भवेत् ।

स्पर्शसंवेदनं स्पर्शो नेतरस्पर्शसंभवः

॥५५॥

शब्दसंवेदनं शब्दः स्वत एवानुभूयते ।

खं खेनेव स्वयं कोशे नान्यच्छब्दकृदस्ति हि

॥५६॥

किल तस्यामवस्थायां कोऽपरः शब्दकृद्भवेत् ।

यथा तथा तदाद्यापि द्वैतैक्यस्यात्यसंभवात्

॥५७॥

एवं हि रसतन्मात्रं गन्धतन्मात्रमेव च ।

असत्यमेव सदिव स्वप्नाभमिव चेत्यते

॥५८॥

तेजः सूर्यादिजृम्भाभिर्बीजमालोकशाखिनः ।

तस्माद्रूपविभेदेन संसारः प्रसरिप्यति

॥५९॥

भविष्यदभिधस्याथ खतः स्वत इवासतः ।

स्वदनं तस्य संघस्य रसतन्मात्रमुच्यते

॥६०॥

भविष्यद्रूपसंकल्पनामासौ सकलो गणः ।

संकल्पात्माथ तन्मात्रं गन्धाद्यमनुचेतति

॥६१॥

भाविभूगोलकत्वेन बीजमाकृतिशाखिनः ।

सर्वाधारात्मनस्तस्मात्संसारः प्रसरिष्यति

॥६२॥

अजात एव संजातस्तन्मात्राणां गणस्त्विति ।

अनाकारोऽपि साकारः संपन्नः कल्पनावशात्

॥६३॥

एष तन्मात्रकगणः काकतालीयवत्स्वयम् ।

रूपं येन प्रदेशेन वेत्त्यक्षीति तदुच्यते

॥६४॥

शब्दं येन प्रदेशेन वेत्ति श्रोत्रं तदुच्यते ।

स्पर्शं येन प्रदेशेन वेत्ति तत्तु त्वगिन्द्रियम्

॥६५॥

रसं येन प्रदेशेन वेत्ति तद्रसनेन्द्रियम् ।

गन्धं येन प्रदेशेन वेत्ति घ्राणेन्द्रियं तु तत्

॥६६॥

दिक्कालभेदाज्जीवोऽयं नियतामाकृतिं गतः ।

सर्वेणाङ्गेन नो सर्वं वेत्त्यसर्वात्मतावशात्

॥६७॥

इति कलनमनन्तमात्मनोन्त-

र्गतमनुमेयमनन्यदात्मभूतम् ।

न तदुदयमुपैति नास्तमेति

स्थितमुपलोदरवद्धनं सुमौनम्

॥६८॥

इत्यार्षे श्रीवासि० वाल्मी० दे० मो० नि० उ० जीवत्वसंसृतिप्रतिपादनं नाम सप्ताशीत्यधिकशततमः सर्गः ।। १८७ ।।