मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः २०५

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 205

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

एवं यथैतद्भगवन्स्वप्ने दृश्यं परं नभः ।

तथैव जाग्रतीत्यत्र न चेत्संदेहजालिका

॥१॥

इदं मे भगवन्ब्रूहि महाप्रश्नमनुत्तमम् ।

कथं भवत्यदेहा चिज्जाग्रत्स्वप्न स्वदेहवत्

॥२॥

श्रीवसिष्ठ उवाच ।

दृश्यं जाग्रत्यथ स्वप्ने खाधारं खात्मकं खजम् ।

खं च नान्यत्परं जातु संदेहोऽस्त्युपपत्तितः

॥३॥

समस्तकारणाकारप्रत्यस्तमयरूपिणि ।

सर्गादावेव भूतानि संभवन्ति न कानिचित्

॥४॥

पृथ्व्यादिनियतस्तेन देहोऽयं नास्ति किंचन ।

भूतान्येव किलैतानि देहस्तानि न सन्त्यलम्

॥५॥

तेन स्वप्नवदाभासमिदं पश्यति चिन्नभः ।

स्वरूपमात्रकचनमाकारवदिवाकुलम्

॥६॥

भानमाभानमात्रत्वमिदं यत्तच्चिदात्मना ।

नभसा स्वप्नशब्देन कथ्यते जगदाकृतिः

॥७॥

यदेतद्वेदनं नाम चिद्व्योम्नो व्योमनिर्मलम् ।

एतदन्तश्चितो रूपं स्वप्नो जगदिति स्थितम्

॥८॥

एतस्मिन्नेव तेनाथ स्वभावकचने तते ।

चिद्रूपेण कृताः संज्ञाः पृथक्पृथ्व्यादिका इमाः

॥९॥

चिद्भानमेव तत्स्वप्नजगच्छब्दैः प्रकथ्यते ।

भानं चास्याः स्वभावः खं तत्कदाचिन्न शाम्यति

॥१०॥

बह्वयः सर्गदृशो भिन्ना ब्रह्मेव ब्रह्मखे च ताः ।

शून्यतानभसी वातस्तिष्ठन्ति च विशन्ति च

॥११॥

श्रीराम उवाच ।

सर्गाणां कोटयः प्रोक्ता भगवन्भवता किल ।

काश्चिद्ब्रह्माण्डकोशस्थाः काश्चिदण्डविवर्जिताः

॥१२॥

काश्चिन्महीकोशगताः काश्चिदाकाशसंस्थिताः ।

तेजःकोशगताः काश्चित्काश्चित्पवनकोशगाः

॥१३॥

काश्चिद्व्योमस्थभूपीठा ऊर्ध्वाधस्थविनिश्चयाः ।

बुध्नाकाशादूर्ध्वखुरा लम्बमानवनाचलाः

॥१४॥

काश्चिद्वातात्मभूतौघाः काश्चिन्नित्यं तमोधराः ।

व्योमसंस्थानकाः काश्चित्काश्चित्क्रिमिकुलाकुलाः

॥१५॥

काश्चिदाकाशकोशस्थाः काश्चिच्चोपलकोशगाः ।

काश्चित्सकुण्डकोशस्थाः काश्चित्खे खगवत्स्थिताः

॥१६॥

तासां मध्ये यथा हीदं ब्रह्माण्डं यादृशं स्थितम् ।

अस्माकं भगवंस्तन्मे ब्रूहि तत्त्वविदां वर

॥१७॥

श्रीवसिष्ठ उवाच ।

यदपूर्वमदृष्टं वा नानुभूतं न वा श्रुतम् ।

तद्वर्ण्यते सुदृष्टान्तैर्गृह्यते च तदूह्यते

॥१८॥

इदं तु राम ब्रह्माण्डमागमैर्मुनिभिः सुरैः ।

शतशो वर्णितं तच्च ज्ञातमेतत्त्वयाऽखिलम्

॥१९॥

यथेदं भवता ज्ञातमागमैर्वर्णितं यथा ।

स्थितं तदेतदखिलं किमन्यदिह वर्ण्यते

॥२०॥

श्रीराम उवाच ।

कथमेतद्वद ब्रह्मन्संपन्नं चिन्महानभः ।

कियत्प्रमाणमेतद्वा कियत्कालं च वा स्थितम्

॥२१॥

श्रीवसिष्ठ उवाच ।

अनादिनिधनं ब्रह्म नित्यमस्त्येतदव्ययम् ।

आदिमध्यान्तता नास्ति नाकाराः परमाम्बरे

॥२२॥

ब्रह्माकाशमनाद्यन्तमेतदव्ययमाततम् ।

एतन्मयमिदं विश्वं विष्वगाद्यन्तवर्जितम्

॥२३॥

परमस्यास्य चिद्व्योम्नः स्वयं यद्भानमात्मनि ।

तदेतद्विश्वमित्युक्तं स्वयं तेनैव तन्मृषा

॥२४॥

पुरुषस्य यथा स्वप्नपुरसंदर्शनं तथा ।

तत्तस्य भानं पुरवत्तदिदं विश्वमुच्यते

॥२५॥

कठिना नेह गिरयो न द्रवाणि जलानि च ।

न शून्यमेतदाकाशं कालो न कलनात्मकः

॥२६॥

यद्यथा चाव्ययं यत्र स्वतः संचेतितं चिता ।

तत्तथा तत्र चित्तत्त्वे अलं शैलादिवत्स्थितम्

॥२७॥

अशिलैव शिला स्वप्ने नभ एवानभो यथा ।

भवेत्तथेह सर्गादि स्वप्ने दृश्यस्थितिश्चितौ

॥२८॥

अनाकारैव चिच्छान्ता स्वप्नवत्यत्स्वचेतनम् ।

वेत्ति तज्जगदित्युक्तं तच्चानाकारमेव सत्

॥२९॥

वायोः स्पन्दो यथान्तस्थो वात एव निरन्तरः ।

तथेदं ब्रह्मणि ब्रह्म न चोदेति न शाम्यति

॥३०॥

द्रवत्वमम्भसि यथा शून्यत्वं नभसो यथा ।

यथा वस्तुनि वस्तुत्वं ब्रह्मणीदं जगत्तथा

॥३१॥

न प्रयातं न वाऽऽयातमकारणमकारणात् ।

न च नास्ति न वास्तीदं भिन्नं ब्रह्मपदे जगत्

॥३२॥

न चानादि निराभासं निराकारं चिदम्बरम् ।

दृशः कारणमन्यस्याः क्वचिद्भवितुमर्हति

॥३३॥

तस्माद्यथावयविनोऽवयवाः स्वात्ममात्रकाः ।

तथानवयवे ब्रह्मव्योस्नि व्योम जगत्स्थितम्

॥३४॥

सर्वं शान्तं निरालम्बं ज्ञप्तिमात्रमनामयम् ।

नेह सत्ता न वासत्ता न च नानास्ति किंचन

॥३५॥

संकल्पस्वप्ननगरनृत्तवत्सर्वमाततम् ।

स्थितमेव समं शान्तमाकाशमजमव्ययम्

॥३६॥

परमचिदम्बरहृदयं

चित्त्वाद्यत्कचति कान्तममलमलम् ।

तदिदं जगदिति कलितं

तेनैव तदात्मरूपमाकल्पम्

॥३७॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० सर्गकारणनिरासो नाम पञ्चाधिकद्विशततमः सर्गः ।। २०५ ।।