मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः २१३

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 213

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

यथा यत्पृष्टवानद्य त्वं मामरिनिषूदन ।

शिष्येणैव सता पूर्वमहं पृष्टो गुरुस्त्वया

॥१॥

पुराकल्पे हि कस्मिंश्चित्तत्त्वमात्मादिकात्मिका ।

आसीदियं चित्प्रतिभा गुरुशिष्यात्मना वने

॥२॥

गुरुस्तत्राहमभवं शिष्यस्त्वमभवस्तदा ।

पृष्टवान्मां त्वमग्रस्थ इदमुद्दामधीरधीः

॥३॥

शिष्य उवाच ।

सर्वस्य भगवञ्छिन्धि ममेममतिसंशयम् ।

किं नश्यति महाकल्पे किं वस्तु न विनश्यति

॥४॥

गुरुरुवाच ।

पुत्र शेषमशेषेण दृश्यमाशु विनश्यति ।

यथा तथा स्वप्नपुरं सौषुप्तीं स्थितिमीयुषः

॥५॥

निर्विशेषेण नश्यन्ति भुवः शैला दिशो दश ।

क्रिया कालः क्रमश्चैव न किंचिदवशिष्यते

॥६॥

नश्यन्ति सर्वभूतानि व्योमापि परिणश्यति ।

स सर्वजगदाभासमुपलब्धुरसंभवात्

॥७॥

ब्रह्मविष्ण्विन्द्ररुद्राद्या ये हि कारणकारणम् ।

तेषामप्यतिकल्पान्ते नामापीह न विद्यते

॥८॥

शिष्यते हि चिदाकाशमव्ययस्यानुमीयते ।

तत्कालशेषतानेन सर्गानुभवहेतुना

॥९॥

शिष्य उवाच ।

नासतो विद्यते भावो नाभावो विद्यते सतः ।

इदं तत्कथमाभोगि विद्यमानं क्व गच्छति

॥१०॥

गुरुरुवाच ।

न विनश्यत एवेदं ततः पुत्र न विद्यते ।

नासतो विद्यते भावो नाभावो विद्यते सतः

॥११॥

यत्तु वस्तुत एवास्ति न कदाचन किंचन ।

तदभावात्म तद्राम कथं नाम विनश्यति

॥१२॥

क्व स्थितं मृगतृष्णाम्बु क्व स्थिरो द्वीन्दुविभ्रमः ।

क्व स्थिरा केशदृग्व्योम्नि क्व भ्रान्त्यनुभवः स्थिरः

॥१३॥

सर्वं दृश्यमिदं पुत्र भ्रान्तिमात्रमसन्मयम् ।

स्वप्ने पुरमिवाभाति कथमेतन्न शाम्यति

॥१४॥

शाम्यतीदमशेषेण तथा सर्वत्र सर्वदा ।

यथा जाग्रद्विधौ स्वप्नः स्वप्ने वा जागरो यथा

॥१५॥

यथा स्वप्नपुरं शान्तं न जाने क्वाशु गच्छति ।

शान्तं तथा जगद्दृश्यं न जाने क्वाशु गच्छति

॥१६॥

शिष्य उवाच ।

किमिदं भाति भगवन्न विभाति च किं पुनः ।

कस्येदं वस्तुनो रूपं चिद्व्योम्नो वितताकृतेः

॥१७॥

गुरुरुवाच ।

चिदाकाशमिदं पुत्र स्वच्छं कचकचायते ।

यन्नाम तज्जगद्भाति जगदन्यन्न विद्यते

॥१८॥

अस्यैतद्वस्तुनो रूपं चिद्व्योम्नो वितताकृतेः ।

रूपमत्यजदेवाच्छं यदित्थमवभासते

॥१९॥

कचनाकचनं सर्गक्षयात्मास्य निजं वपुः ।

व्योमात्म शुक्लकृष्णं स्याद्यथावयविनो वपुः

॥२०॥

यथायं त्वं सितोदान्तरेक एवादितः कचैः ।

तथा ब्रह्मैवमच्छात्म सर्गे सर्गक्षयेऽक्षयम्

॥२१॥

यथा स्वप्ने सुषुप्ते च निद्रैकैवाक्षयानिशम् ।

सर्गेऽस्मिन्प्रलये चैव ब्रह्मैकं चितिरव्ययम्

॥२२॥

यथा स्वप्ने जगद्द्रष्टुः शान्तं शाम्यत्यशेषतः ।

तद्वदस्मज्जगदिदं शान्तं शाम्यत्यशेषतः

॥२३॥

तदन्यत्रास्ति खे खाख्यं तथेत्यङ्ग न विद्महे ।

अशङ्क्यं परखे त्वेतदस्मच्चिद्व्योम्नि संभवात्

॥२४॥

यथेहास्मच्चिदाकाशकचनं सर्गसंक्षये ।

तथान्यत्संविदाकाशं नैवमित्यत्र का प्रमा

॥२५॥

शिष्य उवाच ।

एवं चेत्तद्यथा स्वप्ने द्रष्टुरन्यः स दृश्यधीः ।

विद्यते तद्वदन्यत्र मन्येऽस्ति जगदादिधीः

॥२६॥

गुरुरुवाच ।

एवमेतन्महाप्राज्ञ स्वरूपं तु न तज्जगत् ।

चिति भाति स्वरूपं तत्तद्वदेव न भाति च

॥२७॥

न भाति न च तत्किंचिन्न च तत्किंचिदेव सत् ।

तच्चिदाकाशकचनं के तत्र सदसदृशौ

॥२८॥

विद्यते तद्धि सर्वत्र सर्वं सर्वेण सर्वदा ।

न विद्यते च तत्किंचित्सर्वं सर्वत्र सर्वदा

॥२९॥

तत्सत्तत्सर्वदा सर्वमसच्चासद्धि वाखिलम् ।

तन्मयं तच्चिदाकाशं न नाशि न च नाशि तत्

॥३०॥

यन्नाम सच्चिदाकाशं सर्गप्रलयरूपि तत् ।

तदुःखायापरिज्ञातं परिज्ञातं परः शमः

॥३१॥

विद्यते सर्वथैवेदं सर्वं सर्वत्र सर्वदा ।

न विद्यते सर्वथा च सर्वं सर्वत्र सर्वदा

॥३२॥

एष देवो घटः शैलः पटः स्फोटस्तटो वटः ।

तृणमग्निः स्थावरं च जंगमं सर्वमेव च

॥३३॥

अस्ति नास्ति च शून्यं च क्रिया कालो नभो मही ।

भावाभावौ भवो भूतिर्नाशाः पाशाः शुभाशुभाः

॥३४॥

तन्नास्त्येव न यन्नाम नित्यमेकस्तथा बहिः ।

आदिमध्यमथान्तं तु कालत्रितयमेव च

॥३५॥

सर्वं सर्वेण सर्वत्र सर्वदैवात्र विद्यते ।

सर्वं सर्वेण सर्वत्र सर्वदात्र न विद्यते

॥३६॥

यदैवं राम सर्वात्म सर्वमेवास्ति सर्वदा ।

ब्रह्मात्मत्वात्स्वप्नसंवित्पुरन्यायेन वै तदा

॥३७॥

तृणं कर्तृ तृणं भोक्तृ ब्रह्मात्मत्वात्तृणं विभुः ।

घटः कर्ता घटो भोक्ता घटः सर्वेश्वरेश्वरः

॥३८॥

पटः कर्ता पटो भोक्ता पटः सर्वेश्वरेश्वरः ।

दृशिः कर्ता दृशिर्भोक्ता दृशिः सर्वेश्वरेश्वरः

॥३९॥

गिरिः कर्ता गिरिर्भोक्ता गिरिः सर्वेश्वरेश्वरः ।

नरः कर्ता नरो भोक्ता नरः सर्वेश्वरेश्वरः

॥४०॥

प्रत्येकं सर्ववस्तूनां कर्ता भोक्ता परात्परः ।

अनादिनिधनो धाता सर्वं ब्रह्मात्मकं यतः

॥४१॥

तृणकुम्भादयस्त्वेते स्वया विभुतया विभुः ।

एवंरूपा स्थिता रूपं यद्विभातः क्षयोदयौ

॥४२॥

बाह्योऽर्थोस्ति स एवेह कर्ता भोक्ता तथाविधः ।

विज्ञानमात्रमेवास्ति कर्तृ भोक्तृ तथाविदाम्

॥४३॥

न कश्चिच्चैव कर्तेह न च भोक्ता तथाविदाम् ।

कश्चिदीश्वर एवेह कर्ता भोक्ता तथाविदाम्

॥४४॥

सर्वमेव पदे तस्मिन्संभवत्युत्तमोत्तमे ।

विधयः प्रतिषेधाश्च के ते सन्ति न सन्ति के

॥४५॥

शुद्धे द्रष्टेव चिद्व्योम दृश्यतामिव भावयत् ।

स्वमात्मानं जगदिति पश्येत्तिष्ठेदनामयम्

॥४६॥

सर्वा दृशो विधिनिषेधदृशश्च सर्वाः

संकल्पवेदनविशेषसशेषपूर्वाः ।

सत्यात्मिकाः सततमेव न चैव सत्या

रूपं यथानुभवमत्र यतः स्वरूपम्

॥४७॥

इति त्वया शिष्यतया मदन्तिका-

च्छ्रुतं पुरा तेन न चासि बुद्धवान् ।

ततोऽनुभूयान्यजगद्भवाद्भवा-

निहाद्य जातोऽसि तदेव पृच्छसि

॥४८॥

ज्ञानं सदेतदखिलं श्रुतमुत्तमं चि-

त्संसारदीर्घरजनीसितरश्मिबिम्बम् ।

जातस्त्वमभ्युदयवानमलैकबोध

उत्सार्य मोहमनुतिष्ठ यथागतं त्वम्

॥४९॥

तिष्ठंस्तदात्मनि परे विमलस्वभावे

सर्वात्मके तपति सर्वपदार्थमुक्तः ।

निर्वाणशान्तमतिरम्बरकोशकान्तो

धर्मेण राज्यमनुपालय तीर्णतृष्णः

॥५०॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे ० मो० नि० उ० प्राक्तनरामशिष्यत्वोपाख्यानं नाम त्रयोदशाधिकद्विशततमः सर्गः ।। २१३ ।।