मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः ८४

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 84

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

अनन्तरं मुने ब्रूहि काली किमिव नृत्यति । किं शूर्पफलकुद्दालमुसलादिस्रजाऽऽवृता ।।

श्रीवसिष्ठ उवाच ।

स भैरवश्चिदाकाशः शिव इत्यभिधीयते ।

अनन्यां तस्य तां विद्धि स्पन्दशक्तिं मनोमयीम्

॥२॥

यथैकं पवनस्पन्दमेकमौष्ण्यानलौ यथा ।

चिन्मात्रं स्पन्दशक्तिश्च तथैवैकात्म सर्वदा

॥३॥

स्पन्देन लक्ष्यते वायुर्वह्निरौष्ण्येन लक्ष्यते ।

चिन्मात्रममलं शान्तं शिव इत्यभिधीयते

॥४॥

तत्स्पन्दमायाशक्त्यैव लक्ष्यते नान्यथा किल ।

शिवं ब्रह्म विदुः शान्तमवाच्यं वाग्विदामपि

॥५॥

स्पन्दशक्तिस्तदिच्छेदं दृश्याभासं तनोति सा ।

साकारस्य नरस्येच्छा यथा वै कल्पनापुरम्

॥६॥

करोत्येव शिवस्येच्छा करोतीदमनाकृतेः ।

सैषा चितिरिति प्रोक्ता जीवनाज्जीवितैषिणाम्

॥७॥

प्रकृतित्वेन सर्गस्य स्वयं प्रकृतितां गता ।

दृश्याभासानुभूतानां करणात्सोच्यते क्रिया

॥८॥

वडवाग्निशिखाकाराच्छोष्याच्छुष्केति कथ्यते ।

चण्डित्वाच्चण्डिका प्रोक्ता सोत्पलोत्पलवर्णतः

॥९॥

जया जयैकनिष्ठत्वात्सिद्धा सिद्धिसमाश्रयात् ।

जयन्ती च जया प्रोक्ता विजया विजयाश्रयात्

॥१०॥

प्रोक्ता पराजिता वीर्याद्दुर्गा दुर्ग्रहरूपतः ।

ओंकारसारशक्तित्वादुमेति परिकीर्तिता

॥११॥

गायत्री गायनात्मत्वात्सावित्री प्रसवस्थितेः ।

सरणात्सर्वदृष्टीनां कथितैषा सरस्वती

॥१२॥

गौरी गौराङ्गदेहत्वाद्भवदेहानुषङ्गिणी ।

सुप्तानामथ बुद्धानाममात्रोच्चारणाद्धृदि

॥१३॥

नित्यं त्रैलोक्यभूतानामुमेतीन्दुकलोच्यते ।

शिवयोर्व्योमरूपत्वादसितं लक्ष्यते वपुः

॥१४॥

नभो हि मांसमेताभ्यां दृष्टिदृष्टं विलोक्यते ।

अस्ति नभो नभस्येव तौ नभोनभसि स्थितौ

॥१५॥

नभोनिभावभूताङ्गावच्छौ व्योम्न इवाग्रजौ ।

हस्तपादास्यमूर्ध्नो यद्वहुत्वाल्पत्वभेदतः

॥१६॥

नानात्वं हलशूर्पादिस्रग्धरत्वं च तच्छृणु ।

सा हि क्रिया भगवती परिस्पन्दैकरूपिणी

॥१७॥

दद्यात्स्नायाच्च जुहुयादित्याद्यग्रशरीरिणी ।

चितिशक्तिरनाद्यन्ता तथा भातात्मनात्मनि

॥१८॥

साकाशरूपिणी कान्ता दृश्यश्रीः स्पन्दधर्मिणी ।

देव्यास्तस्या हि याः काल्या नानाभिनयनर्तनाः

॥१९॥

ता इमा ब्रह्मणः सर्गजरामरणरीतयः ।

क्रियासौ ग्रामनगरद्वीपमण्डलमालिकाः

॥२०॥

स्पन्दान्करोति धत्तेऽन्तः कल्पितावयवात्मिका ।

काली कमलिनी काली क्रिया ब्रह्माण्डकालिका

॥२१॥

धत्ते स्वावयवीभूतां दृश्यलक्ष्मीमिमां हृदि ।

न कदाचन चिद्देवी निर्देश्यावयवा क्वचित्

॥२२॥

शिवत्वाव्यतिरेकेण शिवतैवं विदृश्यताम् ।

यथाङ्ग शून्यता व्योम्नः स्पन्दनं मातरिश्वनः

॥२३॥

ज्योत्स्नायाश्चेत्यमेवं हि दृश्यमङ्गं चितेः क्रिया ।

शिवं शान्तमनायासमव्ययं विद्धि निर्मलम्

॥२४॥

न मनागपि तत्रास्ति स्तैमित्यं स्पन्दधर्मता ।

सा क्रियैव तथारूपा सती बोधवशाद्यदा

॥२५॥

व्यावृत्त्यैव तथैवास्ते शिव इत्युच्यते तदा ।

चितिशक्तेः क्रिया देव्याः प्रतिस्थानं यदात्मनि

॥२६॥

यथाभूतस्थितेरेव तदेव शिव उच्यते ।

देव्याः क्रियायाश्चिच्छक्तेः स्वरूपिण्या महाकृतेः

॥२७॥

कल्पिताकारधारिण्या अनन्यावयवा इमे ।

सर्गाः सज्जनतावर्गा लोका आलोकभास्वराः

॥२८॥

सद्वीपसागराः पृथ्व्यः सवनावनयोऽद्रयः ।

साङ्गोपाङ्गास्त्रयो वेदाः सविद्यास्थानगीतयः

॥२९॥

सविधिप्रतिषेधार्थाः सशुभाशुभकल्पनाः ।

सदक्षिणाग्नयो यज्ञाः पुरोडाशाद्यशंसिनः

॥३०॥

भूपालोलूखलवृसीशूर्पयूपादिसयुताः ।

संग्रामाः सायुधग्रामाः सशूलशरशक्तयः

॥३१॥

सभुशुण्डीगदाप्रासहयेभभटभासुराः ।

ज्ञातयो भूतसंघानां चतुर्दश सुरादिकाः ।

चतुर्दशाब्धिद्वीपोर्व्यस्तथा लोकाश्चतुर्दश

॥३२॥

श्रीराम उवाच ।

चितेः कल्पाः शरीरिण्याः सर्गा येऽङ्गे स्थितास्तथा ।

ते किमात्मनि तिष्ठन्ति उतासत्या वदेति भो

॥३३॥

श्रीवसिष्ठ उवाच ।

रामासौ किल चिच्छक्तिस्तया यच्चोदितं तथा ।

तत्प्रचेतितमेवातः सत्यं चेदमिवाखिलम्

॥३४॥

तत्प्रतिबिम्बितं बाह्यान्मुकुरप्रतिबिम्ववत् ।

सत्यं तदन्तरेवास्ति चितेर्नासत्यमर्थतः

॥३५॥

चिद्रूपस्य तथाप्यन्तः सत्संकल्पपुरं भवेत् ।

दृढध्यानाद्विशुद्धायाश्चितेर्भवतु सा कथम्

॥३६॥

आदर्शेष्वथवा स्वप्ने सर्गः संकल्पनेऽस्तु वा ।

स आत्मन्यर्थकारित्वात्सत्य इत्येव मे मतिः

॥३७॥

मम नार्थाय स इति वक्षि चेत्तत्कथं भवेत् ।

देशान्तरगताः सर्वे भवन्त्यर्थाय संप्रति

॥३८॥

यथा देशान्तरग्रामस्तद्गतस्यार्थकृद्भवेत् ।

सर्वे तथैव तद्भावं गतस्यार्थविनिश्चयात्

॥३९॥

यद्यथाभूतसर्वार्थक्रियाकारि प्रदृश्यते ।

तत्सत्यमात्मनोऽन्यस्य नैवातत्तामुपेयुषः

॥४०॥

तस्माच्चिच्छक्तिकोशस्थाः सर्वाः सर्गपरम्पराः ।

सत्य आत्मेति तद्भावं गतस्यान्यस्य नाखिलाः

॥४१॥

भूतभव्यभविष्यस्थाः संकल्पस्वप्नपूर्गणाः ।

सर्वे सत्याः परं तत्त्वं सर्वात्मा कथमन्यथा

॥४२॥

प्राप्यन्ते योगसिद्धेन तद्भावं तु गतेन ते ।

अन्येन पर्वता ग्रामा गत्या देशान्तरे यथा

॥४३॥

चालितस्य यथा गाढनिद्रस्य स्वप्नपत्तनम् ।

न लुठत्येव लुठितमित्यप्यनुमतं स्फुटम्

॥४४॥

तथा चलन्त्या लुठितं तस्या देहगतं जगत् ।

न लुठत्येव मुकुरप्रतिबिम्बमिव स्थितम्

॥४५॥

स त्रैलोक्यमहारम्भः सत्योऽपि भ्रान्तिमात्रकम् ।

भ्रान्तिमात्रस्य के नाम लुठनालुठने वद

॥४६॥

कदा स्वप्नपुरं सत्यं कदा स्वप्नपुरं मुधा ।

कदा स्वप्नपुरं भग्नं कदा स्वप्नपुरं स्थितम्

॥४७॥

भ्रान्तित्वं केवलं सैव दृश्यश्रीर्यावदग्रगा ।

त्वं विद्धीमामपि भ्रान्तिं जगल्लक्ष्मीमवास्तवीम्

॥४८॥

संकल्पने मनोराज्ये स्वप्ने संकथने भ्रमे ।

यथापुरानुभवनं त्रैलोक्यानुभवं तथा

॥४९॥

अहमिति जगदिति नान्त-

भ्रान्तिरियं प्रकचतीव चितः ।

परमाकाशकृशाख्या

शाम्यति निपुणं परिज्ञाता

॥५०॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रकरणे उ० पाषा० शिवशक्तिवर्णनं नाम चतुरशीतितमः सर्गः ।। ८४ ।।