मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः ९२

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 92

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

अथ वातमयीं कृत्वा जगत्प्रेक्षणकौतुकात् ।

धारणां धीरया वृत्त्या विततामहमागतः

॥१॥

संपन्नोऽस्म्यनिलो वल्लीललनालोकलासकः ।

कमलोत्पलकुन्दादिजालकामोदपालकः

॥२॥

सीकरोत्करनीहारहेलाहरणतत्परः ।

सुरतश्रान्तसर्वाङ्गसमाह्लादनतर्षुलः

॥३॥

तृणगुल्मलतावल्लीदलताण्डवपण्डितः ।

लतौषधिफलोल्लासकुसुमामोदमण्डितः

॥४॥

मृदुर्मङ्गलकालेषु ललनालोकलालकः ।

भीम उत्पातकालेषु पर्णवत्प्रौढपर्वतः

॥५॥

नन्दने कुन्दमन्दारमकरन्दरजोरुणः ।

नरकेऽङ्गारसंभारभूरिनीहारभासुरः

॥६॥

सागरे सरलावर्तलेखानुमितसर्पणः ।

दिवि वारिदसंचारमृष्टामृष्टेन्दुदर्पणः

॥७॥

नक्षत्रक्षत्रसैन्यस्य रथो रंहोविबृंहितः ।

त्रैलोक्यसिद्धसंचारविमानधरणे हितः

॥८॥

सहोदर इव क्षिप्रगामित्वादस्य चेतसः ।

अनङ्गोऽपि समस्ताङ्गः स्पन्दानन्दनचन्दनः

॥९॥

तुषारसीकरासारजरारोमविजर्जरः ।

आमोदयौवनोन्मादो मौनमार्दवशैशवः

॥१०॥

नन्दनामोदमधुरो मधुरोदारसंसृतिः ।

चारुचैत्ररथोन्मुक्तो हृतकान्तारतश्रमः

॥११॥

चिरं गङ्गातरङ्गाङ्गदोलान्दोलनसश्रमः ।

श्रमस्वरूपाज्ञतया निवारितततश्रमः

॥१२॥

पुष्पभारानताः स्पर्शैर्वसन्तवनितालताः ।

चिरं चपलयँल्लोलदलहस्तालिलोचनाः

॥१३॥

चिरं भुकत्वेन्दुबिम्बाग्रं सुप्ता पूर्णाभ्रतल्पके ।

विधूय कमलानीकमपनीतरतश्रमः

॥१४॥

समस्तरजसामेको व्योमगामी तुरंगमः ।

आमोदमदमातङ्गसमुल्लासमहासुहृत्

॥१५॥

धीरेणाप्य तडिच्छृङ्गं पयोदपशुपालकः ।

तन्तुः सीकरमुक्तानामरिधर्मा रजोरुजाम्

॥१६॥

आकाशकुसुमामोदः सर्वशब्दसहोदरः ।

नाडीप्रणालीसलिलं भूताङ्गोपाङ्गवर्तकः

॥१७॥

मर्मकर्मकरैकात्मा हृद्गुहागेहकेसरी ।

नित्यमेकान्तपथिकः सारविज्जातवेदसः

॥१८॥

आमोदरत्नलुण्टाको विमाननगरावनिः ।

दाहान्धकारशीतांशुः शैत्येन्दुक्षीरसागरः

॥१८॥

प्राणापानकलारज्ज्वा प्राणिनां यन्त्रवाहकः ।

अरिर्मित्रं च द्वीपानां द्वीपसंचारणे रतः

॥२०॥

पुरोगतोऽप्यदृश्यात्मा मनोराज्यपुरोपमः ।

तालवृन्ततिलेतैलमालानं स्पन्ददन्तिनः

॥२१॥

एकक्षणलवेनैव चालिताखिलभूधरः ।

वर्णावलितरङ्गाणां गङ्गावाह इवैककृत्

॥२२॥

धूमाम्बुवाहरजसां महावर्तकृदम्भसाम् ।

द्युनदीवाहवार्योघनभोनीलोत्पलालिकः

॥२३॥

शरीरावेष्टितोन्मुक्तपुराणतृणचोपनः ।

स्पन्दपद्मवनादित्यः शब्दवर्षैकवारिदः

॥२४॥

व्योमकाननमातङ्गः शरीरगृहगर्गटः ।

धूलीकदम्बविपिनमालालिङ्गननायकः

॥२५॥

स्त्यानीकरणसंशोषधृतिस्पन्दनसौरभैः ।

सशैत्यैः कर्मभिः षड्भिरलब्धक्षण आक्षयम्

॥२६॥

रसाकर्षणसव्यग्रो नित्यं भ्रातेव तेजसः ।

हरणादानकर्तॄणामङ्गानां विनियोगकृत्

॥२७॥

शरीरनगरे नाडीमार्गैर्गतिनिरर्गलः ।

रसभाण्डे परावर्तादायुर्मणिमहावणिक्

॥२८॥

शरीरनगरीनाशनिर्माणैकपरायणः ।

रसकिट्टकलाधातुपृथक्करणकोविदः

॥२९॥

प्रतिसूक्ष्माणुकं देहे ततो दृष्टं मया जगत् ।

तत्रेत्थं रूपवानस्मि स्फुटमाभोगि सुस्थिरम्

॥३०॥

परमाणुप्रति त्वत्र प्रोह्यन्त इव सर्गकाः ।

न च किंचित्किलोह्यन्ते स्वा(खा?)कृते किमिवोह्यते

॥३१॥

सचन्द्रार्कानिलाग्नीन्द्रपद्मवैश्रवणेश्वराः ।

सब्रह्महरिगन्धर्वा विद्याधरमहोरगाः

॥३२॥

ससागरगिरिद्वीपदिगन्तरमहार्णवाः ।

सलोकान्तरलोकेशक्रियाकालकलाक्रमाः

॥३३॥

सस्वर्गभूमिपातालततलोकान्तरान्तराः ।

सभावाभाववैधुर्यजरामरणसंभ्रमाः

॥३४॥

एवं नाम तदा राम भूतपञ्चकरूपिणा ।

मया प्रविहृतं तत्र त्रैलोक्यनलिनोदरे

॥३५॥

रसः पीतोऽनुभूतश्च क्ष्माजलानिलतेजसाम् ।

मूलजालेन वृक्षाणां प्राणिनां वसता मया

॥३६॥

रसायनघनाङ्गेषु चन्दनद्रवशोभिषु ।

लुठितं चन्द्रबिम्बेषु तुषारशयनेष्विव

॥३७॥

सर्वर्तुवनजालेषु नानामोदानि दिक्ष्वलम् ।

भुक्तानि पुष्पजालानि प्रोच्छिष्टं ददताऽलये

॥३८॥

ततोन्नतासु मृद्वीषु स्वास्तीर्णास्वम्बराजिरे ।

सुप्तं शुभ्राभ्रमालासु नवनीतस्थलीष्विव

॥३९॥

सुमनःपत्रमृदुषु नीललक्ष्मीविलासिषु ।

सुरसिद्धाङ्गनाङ्गेषु दूरास्तस्मरवासनम्

॥४०॥

कृतः कुमुदकह्रारकमले नलिनीवने ।

कोमलः कलहंसीभिर्लीलाकलकलारवः

॥४१॥

सरत्सरिच्छिरासारा मूलभूमण्डलान्विताः ।

अङ्गैरूढाः स्फुरद्भूता लोमालय इवाद्रयः

॥४२॥

खाद्रयः प्रथिता दीर्घसरित्सूत्रैः समुद्रकैः ।

आदर्शैरिव विश्रान्तमङ्गेषु प्रतिबिम्बिभिः

॥४३॥

भूतसर्गेण विश्रान्तं सिद्धविद्याधरादिना ।

मद्देहे चेतितेनेव मक्षिकायौकरूपिणा

॥४४॥

मत्प्रसादेन मुदितैर्लब्धमर्कादिभिर्वपुः ।

कृष्णरक्तसितापीतहरितैर्हरितैरिव

॥४५॥

समुद्रमुद्रया सप्तद्वीपसप्तात्मरूपया ।

संस्थया स्थापिता भूमिः प्रकोष्ठे वलयोपमा

॥४६॥

विद्याधरपुरन्ध्रीणां परामृष्टाङ्गयष्टिना ।

अदृष्टेनैव विहितः पुलकोल्लास आत्मना

॥४७॥

सरिच्छिरामलस्फाररसानि सुषिराणि च ।

जगन्त्येवास्थिजालानि ममासन्संस्थितानि च

॥४८॥

असंख्यैर्व्योममातङ्गैश्चन्द्रार्कचलचामरैः ।

उदुम्बरान्तर्मशकैरिव मद्धृदये स्थितम्

॥४९॥

सर्वपातालपादेन भूतलोदरधारिणा ।

स्वमूर्ध्नापि तदा राम न त्यक्ताथ पराणुता

॥५०॥

दिक्षु सर्वासु सर्वत्र सर्वदा सर्वकारिणा ।

सर्वात्मनाप्यसर्वेण शून्यरूपेण संस्थितम्

॥५१॥

किंचित्त्वे सदकिंचित्त्वं साकृतित्वं निराकृति ।

अनुभूतं सजाड्यं च चेतनत्वमलं मया

॥५२॥

मैनाकमुग्धपीनस्य सागरस्यावनिं प्रति ।

सन्ति सर्गसहस्राणि स्थाणुभूतान्यथो मया

॥५३॥

जगन्त्यङ्गे मयोढानि गूढानि प्रकटान्यपि ।

प्रतिबिम्बपुराणीव मुकुरेणाजडात्मना

॥५४॥

एवं जलानिलाग्नित्वं भूमित्वं खात्मना मया ।

कृतं चितेव स्वप्नेषु बत मायाविजृम्भितम्

॥५५॥

अपि तस्यामवस्थायां जगन्त्याकाशकोशके ।

मया दृष्टान्यसंख्यानि परमाणुकणं प्रति

॥५५॥

परमाणु प्रति व्योम परमाणु प्रति स्थितम् ।

सर्गवृन्दं यथा स्वप्ने स्वप्नान्तरयुतं पुरम्

॥५७॥

स्वमेवाहमभूवं भूमण्डलं द्वीपकुण्डलम् ।

सर्वात्मनापि न व्याप्तं किंचनापि मया क्वचित्

॥५८॥

समुत्पादयताशेषं लतातरुतृणाङ्कुरम् ।

भूतलेन रसाः कृष्टा मयार्थेनैव पुंभृताम्

॥५९॥

अवदाततमे युद्धबोधकालमुपेयुषि ।

जगल्लक्षाणि तिष्ठन्ति न तिष्ठन्ति च कानिचित्

॥६०॥

चिति यास्तु चमत्कारं चमत्कुर्वन्ति यस्त्वतः ।

स्वचमत्कृतयोऽन्तस्थास्तदेताः सृष्टिदृष्टयः

॥६१॥

अनुभूतं कृतं कष्टं यावत्क्वचन किंचन ।

परमार्थचमत्कारादृते नेहोपलभ्यते

॥६२॥

प्रत्येकं विश्वरूपात्मा सर्वकर्ता निरामयः ।

प्रबुद्धः शुद्धबोधात्मा सर्वं ब्रह्मात्मकं यतः

॥६३॥

सर्वः सर्वत्र सर्वात्मा सर्वगः सर्वसंश्रयः ।

एतत्प्रबुद्धविषयमप्रबुद्धं न वेद्म्यहम्

॥६४॥

आकाशकोशविशदात्मनि चित्स्वरूपे

येयं सदा कचति सर्गपरम्परेति ।

सान्तस्तदेव किल ताप इवान्तरूष्मा

भेदोपलम्भ इति नास्ति सदस्त्यनन्तम्

॥६५॥