मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः ९६

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 96

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

पाषाणाख्यानमेतत्ते कथितं कार्यकोविद ।

अनयेमाः स्फुरद्दृष्ट्या सृष्टयो नभसि स्थिताः

॥१॥

न च स्थितं किंचनापि क्वचनापि कदाचन ।

स्थितं ब्रह्मघने ब्रह्म यथास्थितमखण्डितम्

॥२॥

ब्रह्म चिन्मात्रकं विद्धि तद्यथा स्वप्नदृष्टिषु ।

पुरं भवन्निजाद्रूपान्न कदाचन भिद्यते

॥३॥

स्वयंभूत्वसमापत्तौ तथा दृश्यव्यवस्थितौ ।

स्वरूपमजहत्त्वेव चिदाकाशमजं स्थितम्

॥४॥

न स्वयंभूर्न च जगन्न स्वप्नपुरमस्त्यलम् ।

स्थितं संविन्महादृष्ट्या ब्रह्म चिन्मात्रमेतया

॥५॥

यथा पुरं भवत्स्वप्ने चिद्रूपं स्वात्मनि स्थितम् ।

अखण्डमेवमासृष्टेरामहाप्रलयस्थितेः

॥६॥

हेमहेमाश्मनोः स्वप्नपुरचेतनयोर्यथा ।

भेदो न संभवत्येव न भेदश्चितिसर्गयोः

॥७॥

चितिरेकास्ति नो सर्गो हेमास्ति न तदूर्मिका ।

स्वप्नाचले चिदेवास्ति न तु काचन शैलता

॥८॥

चिदेव शैलवद्भाति यथा स्वप्ने निरामया ।

तथा ब्रह्म निराकारं सर्गवद्भाति नेतरत्

॥९॥

चिन्मात्रमिदमाकाशमनन्तमजमव्ययम् ।

महाकल्पसहस्रेषु नोदेति न च शाम्यति

॥१०॥

चिदाकाशो हि पुरुषश्चिदाकाशो भवानयम् ।

चिदाकाशोऽहमजरश्चिदाकाशो जगत्त्रयम्

॥११॥

चिदाकाशं वर्जयित्वा शवमेव शरीरकम् ।

अच्छेद्योऽसावदाह्योऽसौ चिदाकाशो न शाम्यति

॥१२॥

अतो न किंचिन्म्रियते न च किंचन जायते ।

चित्त्वात्ततश्चित्कचनं जगदित्यनुभूयते

॥१३॥

चिन्मात्रपुरुषो जन्तुर्म्रियते यदि नाम वा ।

ततो मरिष्यत्तत्पुत्रो निःसंदेहं पितुर्मृतौ

॥१४॥

एकस्मिन्प्रमृते जन्तावमरिष्यंस्तु सर्वदा ।

सर्व एव जनाः शून्यमभविष्यन्महीतलम्

॥१५॥

न चाद्यापि मृतं राम चिन्मात्रं कस्यचित्क्वचित् ।

न च शून्या स्थिता भूमिस्तस्माच्चित्पुरुषोऽक्षयः

॥१६॥

एकं चिन्मात्रमेवाहं न शरीरादयो मम ।

इति सत्यनुसंधाने क्व जन्ममरणादयः

॥१७॥

अहं चिन्मात्रममलमित्यात्मानुभवं स्वयम् ।

अपहन्त्यात्महन्तारो निमज्जन्त्यापदर्णवे

॥१८॥

चिदहं गगनादच्छा नित्यानन्ता निरामया ।

किं जीवितं मे किं वापि मरणं वा सुखासुखे

॥१९॥

व्योमात्मचेतनमहं के शरीरादयो मम ।

इत्यात्महापह्नुतेऽन्तर्योऽनुभूतं धिगस्तु तम्

॥२०॥

चिदाकाशमहं स्वच्छमनुभूतिरिति स्फुटा ।

यस्यास्तमागता मूढं तं जीवन्तं शवं विदुः

॥२१॥

अहं वेदनमात्रात्मा कानि देहेन्द्रियाणि मे ।

लब्धात्मानमिति स्वच्छं प्रविलुम्पन्ति नापदः

॥२२॥

चिन्मात्रं शुद्धमात्मानं योऽवलम्ब्य स्थिरः स्थितः ।

नाधयस्तं विलुम्पन्ति महोपलमिवेषवः

॥२३॥

चित्त्वं स्वभावं विस्मृत्य बद्धास्था ये शरीरके ।

तैः सुवर्णं परित्यज्य गृहीतं भस्म वस्तुतः

॥२४॥

बलं बुद्धिश्च तेजश्च देहोऽहमिति भावनात् ।

नश्यत्युदेत्येतदेव चिदेवाहमिति स्थितेः

॥२५॥

चिदाकाशमहं शुद्धं के मे मरणजन्मनी ।

एवं स्थिते स्युः किंनिष्ठा लोभमोहमदादयः

॥२६॥

चिदाकाशादृते देहान्योऽन्यत्सारमवाप्नुयात् ।

तस्मै तद्युज्यते वक्तुं सन्ति लोभादयस्त्विति

॥२७॥

न च्छिद्ये न च दह्येऽहं चिन्मात्रं वज्रवच्चिति ।

न देही निश्चयो यस्य तं प्रत्यन्तकरस्तृणम्

॥२८॥

अहो नु मुग्धता ज्ञानदृष्टीनां यद्विदन्त्यलम् ।

शरीरशकलाभावे नश्याम इति मोहिताः

॥२९॥

अहं चिन्नभ एवेति सत्ये भावे स्थिरे सति ।

वज्रपातयुगान्ताग्निदाहाः पुष्पोत्करोपमाः

॥३०॥

चिन्मात्रममरं नाहं यन्नश्यामीति रोदिति ।

अनष्ट एव तद्देहो जातापूर्वा खरोलिका

॥३१॥

इदं चेतनमेवाहं नाहं देहादिदृष्टयः ।

इति निश्चयवान्योऽन्तर्न स मुह्यति कर्हिचित्

॥३२॥

अहं चेतनमाकाशो नाशो मे नोपपद्यते ।

चेतनेन जगत्पूर्णं केव संदेहितात्र वः

॥३३॥

चेतनं वर्जयित्वान्यत्किंचिद्यूयं जना यदि ।

यदुच्यतां महामूढाः स्वात्मा किमपलप्यते

॥३४॥

तच्चेतनं चेन्म्रियते तज्जनाः प्रत्यहं मृताः ।

ब्रूत किं न मृता यूयं तन्मृतं किल चेतनम्

॥३५॥

तस्मान्न म्रियते किंचिन्न च जीवति किंचन ।

जीवामीति मृतोऽस्मीति चिच्चेतति न नश्यति

॥३६॥

चिच्चेतति यथा वा यत्तत्तथा साशु पश्यति ।

आबालमेषोऽनुभवो न क्वचित्सा च नश्यति

॥३७॥

परिपश्यति संसारं परिपश्यति मुक्तताम् ।

सुखदुःखानि जानाति स्वरूपात्तन्न भिद्यते

॥३८॥

अपरिज्ञातदेहात्तु धत्ते मोहाभिधां स्वयम् ।

परिज्ञातस्वरूपात्तु धत्ते मोक्षाभिधां स्वयम्

॥३९॥

नास्तमेति न चोदेति न कदाचन किंचन ।

सर्वमेव च चिन्मात्रमाकाशविशदं यतः

॥४०॥

न तदस्ति न यत्सत्यं न तदस्ति न यन्मृषा ।

यद्यथा येन निर्णीतं तत्तथा तं प्रति स्थितम्

॥४१॥

यद्यद्यथा जगति चेतति चेतनात्मा

तत्तत्तथानुभवतीत्यनुभूतिसिद्धम् ।

दृष्टं विषामृतदृशेव पदार्थजातं

नातोस्ति संविदविधेयमितिप्रसिद्धम्

॥४२॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उ० अमरत्वप्रतिपादनं नाम षण्णवतितमः सर्गः ।। ९६ ।।