मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उपशमप्रकरणम् — सर्गः २९

3
योगवासिष्ठम् · उपशमप्रकरणम् · 29

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

अथ वर्षसहस्रेण दिव्येनासुरपुङ्गवः ।

देवदुन्दुभिनिर्घोषैर्बुबुधे भगवान्बलिः

॥१॥

बलौ प्रबुद्धे तद्बालं विरेजे नगरं तदा ।

वैरिञ्च इव सूर्यौघ उदिते कमलाकरः

॥२॥

बलिः प्रबुद्ध एवासौ यावन्नायान्ति दानवाः ।

तावत्संचिन्तयामास समाधिसदने क्षणम्

॥३॥

अहो नु रम्या पदवी शीतला पारमार्थिकी ।

अहमस्यां क्षणं स्थित्वा परां विश्रान्तिमागतः

॥४॥

तदेतामेव पदवीमवलम्ब्य करोम्यहम् ।

भवतीहोपभुक्ताभिः किं मे बाह्यविभूतिभिः

॥५॥

ऐन्दवेष्वपि विश्वेषु न तथानन्दवीचयः ।

तोषयन्ति यथान्तर्मे संसिद्धिभवभूतयः

॥६॥

इति भूयोऽपि विश्रान्त्यै कुर्वाणं गलितं मनः ।

बलिमावारयामासुर्दैत्याश्चन्द्रमिवाम्बुदाः

॥७॥

तानालोक्य पुनर्दध्यौ तत्प्रणामाकुलेक्षणः ।

तैः कुलाचलसंकाशैः परिवीतवपुस्त्विदम्

॥८॥

चितः क्षीणविकल्पस्य किमुपादेयमस्ति मे ।

मनस्तदभिपातित्वाद्याति तद्रसतामलम्

॥९॥

मोक्षमिच्छाम्यहं कस्माद्बद्धः केनास्मि वै पुरा ।

अबद्धो मोक्षमिच्छामि केयं बालविडम्बना

॥१०॥

न बन्धोस्ति न मोक्षोस्ति मौर्ख्यं मे क्षयमागतम् ।

किं मे ध्यानविलासेन किं वा ध्यानेन मे भवेत्

॥११॥

ध्यानाध्यानभ्रमौ त्यक्त्वा पुंस्त्वं स्वमवलोकयत् ।

यदायाति तदायातु न मे वृद्धिर्न वा क्षयः

॥१२॥

न ध्यानं नापि वाऽध्यानं न भोगान्नाप्यभोगिताम् ।

अभिवाञ्छामि तिष्ठामि सममेव गतज्वरः

॥१३॥

न मे वाञ्छा परे तत्त्वे न मे वाञ्छा जगत्स्थितौ ।

न मे ध्यानदशाकार्यं न कार्यं विभवेन मे

॥१४॥

नाहं मृतो न जीवामि न सन्नासन्न सन्मयः ।

नेदं मे नैव चान्यन्मे नमो मह्यमहं बृहत्

॥१५॥

इदमस्तु जगद्राज्यं तिष्ठाम्यत्र तु संस्थितः ।

नेह वास्तु जगद्राज्यं तिष्ठाम्यात्मनि शीतलः

॥१६॥

किं मे ध्यानदृशा कार्यं किं राज्यविभवश्रिया ।

यदायाति तदायातु नाहं किंचन मे क्वचित्

॥१७॥

न किंचिदपि कर्तव्यं यदि नाम मयाधुना ।

तत्कस्मान्न करोमीदं किंचित्प्रकृतकर्म वै

॥१८॥

इति निर्णीय पूर्णात्मा बलिर्ज्ञानवतां वरः ।

दैत्यानालोकयामास पद्मानीव दिवाकरः

॥१९॥

दृष्टिपातविभागेन सर्वेषां दनुजन्मनाम् ।

शिरःप्रणामाञ्जग्राह पुष्पामोदानिवानिलः

॥२०॥

अथ वैरोचनिस्तत्र ध्येयत्यागमयात्मना ।

मनसा सकलान्येव राजकार्याणि संव्यधात्

॥२१॥

द्विजान्देवान्गुरूंश्चैव पूजयामास पूजया ।

संमानयामास सुहृद्बन्धुसामन्तसज्जनान्

॥२२॥

अर्थेनापूरयामास भृत्यानर्थिगणांस्तथा ।

ललना लालयामास विचित्रविभवार्पणैः

॥२३॥

इत्यसौ ववृधे तस्मिन्राज्ये सकलशासने ।

यज्ञं प्रति बभूवाथ मतिरस्य कदाचन

॥२४॥

तर्पिताशेषभुवनं देवर्षिगणपूजितम् ।

सह शुक्रादिभिर्मुख्यैः स चकार महामखम्

॥२५॥

बलिर्भोगभरस्यार्थी नेति निर्णीय माधवः ।

बलेरीहितसिद्ध्यर्थं सिद्धिदस्तन्मखं ययौ

॥२६॥

भोगैककृपणायेदं जगज्जङ्गलखण्डकम् ।

दातुं शोच्याय शक्राय वयोज्येष्ठाय कार्यवित्

॥२७॥

क्रममाणो बलेनात्र वञ्चयित्वा बलिं हरिः ।

बबन्ध पातालतले भूगेह इह वानरम्

॥२८॥

अद्यासौ संस्थितो राम पुनरिन्द्रत्वहेतुना ।

जीवन्मुक्तवपुः स्वस्थो नित्य ध्यानविषण्णधीः

॥२९॥

पातालकुहरे तिष्ठञ्जीवन्मुक्तमतिर्बलिः ।

आपदं संपदं दृष्ट्या समयैव स पश्यति

॥३०॥

नास्तमेति न चोदेति तत्प्रज्ञा सुखदुःखयोः ।

समा स्थिरकरा चित्रलेख्या सूर्यावलिर्यथा

॥३१॥

आविर्भावतिरोभावसहस्त्राणीह जीवताम् ।

तन्मनश्चिरमालोक्य भीमेषु विरतिं गतम्

॥३२॥

दशकोटीश्च वर्षाणामनुशास्य जगत्त्रयम् ।

अन्ते विरक्ततां प्राप्तमुपशान्तं बलेर्मनः

॥३३॥

ऊहापोहसहस्राणि भावाभावशतानि च ।

बलिना परिदृष्टानि क्व समाश्वासमेत्यसौ

॥३४॥

भोगाभिलाषं संत्यज्य बलिः संपूर्णमानसः ।

आत्मारामस्थितो नित्यं मध्ये पातालकोटरे

॥३५॥

पुनरेतेन बलिना जगदिन्द्रतयाखिलम् ।

अनुशास्यमिदं राम बहून्वर्षगणानिह

॥३६॥

न तस्येन्द्रपदप्राप्त्या तुष्टिः समुपजायते ।

न तस्य स्वपदभ्रंशादुद्वेग उपजायते

॥३७॥

समः सर्वेषु भावेषु सर्वदैवोदिताशयः ।

संप्राप्तमाहरन्स्वस्थ आकाश इव तिष्ठति

॥३८॥

बलेर्विज्ञानसंप्राप्तिरेषा ते कथिता मया ।

एतां दृष्टिमवष्टभ्य त्वमप्यभ्युदितो भव

॥३९॥

बलिवत्प्रविवेकेन नित्योऽहमिति निश्चयात् ।

पदमासादयाद्वैतं पौरुषेणैव राघव

॥४०॥

द्वे चाष्टौ चैव वर्षाणां कोटीर्भुक्त्वा जगत्त्रयम् ।

अन्ते वैरस्यमापन्नो बलिरप्यसरोत्तमः

॥४१॥

तस्मादवश्यवैरस्यं भोगभारमरिंदम ।

संत्यज्य सत्यमानन्दमवैरस्यं पदं व्रज

॥४२॥

इमा दृश्यदृशो राम नानाकारविकारदाः ।

नेह कान्ततया ज्ञेया दूराच्छैलशिला इव

॥४३॥

धावमानमिहामुत्र लुठितं लोकवृत्तिषु ।

संस्थापय निबद्ध्यैतच्चेतो हृदयकोटरे

॥४४॥

चिदादित्यो भवानेव सर्वत्र जगति स्थितः ।

कः परस्ते क आत्मीयः परिस्खलसि किं मुधा

॥४५॥

त्वमनन्तो महाबाहो त्वमाद्यः पुरुषोत्तमः ।

त्वं पदार्थशताकारैः परिस्फूर्जसि चिद्वपुः

॥४६॥

त्वयि सर्वमिदं प्रोतं जगत्स्थावरजंगमम् ।

बोधे नित्योदिते शुद्धे सूत्रे मणिगणा यथा

॥४७॥

न जायसे न म्रियसे त्वमजः पुरुषो विराट् ।

चिच्छुद्धा जन्ममरणभ्रान्तयो मा भवन्तु ते

॥४८॥

समस्तजन्मरोगाणां प्रविचार्य बलाबलम् ।

तृष्णामुत्सृज्य भोगानां भोक्तैव भव केवलम्

॥४९॥

त्वयि स्थिते जगन्नाथे चिदादित्ये सदोदिते ।

इदमाभासते सर्वं संसारस्वप्नमण्डनम्

॥५०॥

मा विषादं कृथा व्यर्थं सुखदुःखैषणा न ते ।

शुद्धचित्तोऽसि सर्वात्मा सर्ववस्त्ववभासकः

॥५१॥

पूर्वमिष्टमनिष्टं त्वमनिष्टं चेष्टमित्यपि ।

परिकल्प्य तदभ्यासात्तत्ततोऽपि परित्यज

॥५२॥

इष्टानिष्टदृशोस्त्यागे समतोदेति शाश्वती ।

तया हृदयवर्तिन्या पुनर्जन्तुर्न जायते

॥५३॥

येषु येषु प्रदेशेषु मनो मज्जति बालवत् ।

तेभ्यस्तेभ्यः समाहृत्य तद्धि तत्त्वे नियोजयेत्

॥५४॥

एवमभ्यागताभ्यासं मनोमत्तमतंगजम् ।

निबध्य सर्वभावेन परं श्रेयोऽधिगम्यते

॥५५॥

मा शरीरयथार्थज्ञैर्मिथ्यादृष्टिहताशयैः ।

धूर्तैः संकल्पविक्रीतैर्विमूढैः समतां व्रज

॥५६॥

अकिंचनात्स्वनिर्णीतौ लम्बमानात्परोक्तिषु ।

न मौर्ख्यादधिको लोके कश्चिदस्तीह दुःखदः

॥५७॥

त्वमेतदविवेकाब्भ्रमुदितं हृदयाम्बरे ।

विवेकपवनेनाशु दूरं नय महामते

॥५८॥

आत्मनैव प्रयत्नेन यावदात्मावलोकने ।

न कृतोऽनुग्रहस्तावन्न विचारोदयो भवेत्

॥५९॥

वेदवेदान्तशास्त्रार्थतर्कदृष्टिभिरप्ययम् ।

नात्मा प्रकटतामेति यावन्न स्वमवेक्षितम्

॥६०॥

त्वमात्मन्यात्मना राम प्रसादे समवस्थितः ।

प्राप्तोऽसि विततं बोधं मद्वचस्येव बुध्यसे

॥६१॥

विकल्पांशविहीनस्य त्वयैषा चिद्विवस्वतः ।

गृहीता वितता व्याप्तिर्मदुक्त्या परमात्मनः

॥६२॥

विलीनसर्वसंकल्पः शान्तसंदेहविभ्रमः ।

क्षीणकौतुकनीहारो जातोऽसि विगतज्वरः

॥६३॥

यदुपगच्छसि पासि निहंसि वा

पिबसि विस्मयसे च विवर्धसे ।

तदपि तेन तदास्तु यदा मुने

विगतबोधकलङ्कविशङ्कितः

॥६४॥