मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उपशमप्रकरणम् — सर्गः ४८

3
योगवासिष्ठम् · उपशमप्रकरणम् · 48

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

लुठितं श्वपचागारे पुनर्विस्मयमाययौ ।

गाधेर्मनो हि नायाति तृप्तिमाश्चर्यदर्शने

॥१॥

तत्रावलोकयामास स्थानानि सदनानि च ।

कल्पक्षोभविवृत्तानि जगन्तीवाम्बुजोद्भवः

॥२॥

उवाच स्वात्मनैवेदमरण्ये लुठितालये ।

शुष्कास्थिमालावलिते पिशाचक इव द्रुमे

॥३॥

इमास्ता मृतमातङ्गदन्तमाला वृतौ कृताः ।

अद्यापि संस्थिताः कल्पं प्रतिमेरुशिखा इव

॥४॥

इह तद्वानरीमांसं पक्ववंशांकुरैः¬ सह ।

भुक्तं पुरासवोन्मत्तैः सह श्वपचबन्धुभिः

॥५॥

आलिङ्ग्य श्वपचश्यामामिह केसरिचर्मणि ।

सुप्तमापीय मैरेयं तिक्तं गजमदेन च

॥६॥

कौलेयककुटुम्बिन्यः पिण्याकपलवर्धिताः ।

इह बद्धा वरत्राभिर्मृतेभरदकाष्ठके

॥७॥

इह वारणमुक्तानां ददासीत्पिठरत्रयम् ।

पिनद्धं माहिषेणोग्रचर्मणाम्बुदशोभिना

॥८॥

स्थलीष्वेतासु तास्वत्र सह श्वपचबालकैः ।

चिरं विलुठितं चूतपत्रपुञ्जे पिकैरिव

॥९॥

अत्र तद्बालनिःश्वासरणद्वंशप्रवृत्तवत् ।

गीतं पीतं शुनीरक्तं साधिता शवभूषितः

॥१०॥

अत्र सार्धं कुटुम्बेन जन्यत्रेषु कुटुम्बिना ।

नृत्तं तत्कृतमुन्नादं कल्लोलैर्जलधाविव

॥११॥

अत्रोड्डयनलोलानां काकभासपत्त्रिणाम् ।

धृतानामन्यदाशार्थं ग्रथितं वंशपञ्जरम्

॥१२॥

श्रीवसिष्ठ उवाच ।

एवंप्रायाः स्मरन्गाधिः प्राक्तनीः श्वपचक्रियाः ।

विस्मयोत्कम्पितशिरा धातुश्चेष्टां परामृशत्

॥१३॥

चचाल तस्माद्दीर्घेण देशात्कालेन कार्यवित् ।

भूत्मण्डलमुत्सृज्य प्राप देशान्तरं क्रमात्

॥१४॥

समुल्लङ्घ्य नदीशैलमण्डलारण्यसंततिम् ।

आससाद तुषाराद्रिरत्नं किल जनास्पदम्

॥१५॥

तत्र प्राप महीपालनगरं नगसंनिभम् ।

जगद्भ्रमणखिन्नात्मा स्वर्लोकमिव नारदः

॥१६॥

अथात्मनानुभूतानि दृष्टान्यासेवितानि च ।

स्थानानि नगरे पश्यन्पप्रच्छ जनमादृतः

॥१७॥

साधो स्मरसि किंचित्त्वमिह श्वपचमीश्वरम् ।

यदि जानासि तत्त्वं मे वर्णयाशु यथाविधि

॥१८॥

नागरा ऊचुः ।

अभूदिहाष्टौ वर्षाणि श्वपचो भूमिपो द्विज ।

राजत्वमर्पितं यस्य नाम मङ्गलहस्तिना

॥१९॥

अन्ते च संपरिज्ञातः स प्रविष्टो हुताशनम् ।

अद्य द्वादशवर्षाणि समतीतानि तापस

॥२०॥

यं यं पृच्छत्यसौ गाधिर्जनं जातकुतूहलः ।

तस्य तस्य मुखादेव श्रृणोत्यास्वादयत्यपि

॥२१॥

अथापश्यत्पुरे तस्मिन्नृपं सबलवाहनम् ।

देवं चक्रधरं विष्णुं मन्दिरान्निर्गतं बहिः

॥२२॥

स दृष्ट्वा स्थगिताकाशं चलरेणुपयोधरैः ।

प्राक्तनीं राजतां स्मृत्वा समुवाचातिविस्मयः

॥२३॥

इमास्ताः कीरकामिन्यः पद्मगर्भोपमत्वचः ।

कनकद्रववर्णिन्यो लोलनीलोत्पलेक्षणाः

॥२४॥

चामरौघा इमे चन्द्रकरसंपिण्डपाण्डुराः ।

स्थिरनिर्झरसंकाशाः काशपुष्पचया इव

॥२५॥

कान्ताभिरवधूयन्ते बालव्यजनराजयः ।

इमास्ता वनवल्लीभिर्दीप्यमाना इवर्द्धयः

॥२६॥

इमास्ता मत्तमातङ्गघटा घटितदिक्तटाः ।

संकल्पपादपा मेरोरिव श्रृङ्गपरम्पराः

॥२७॥

एते ते यमवारीशकुबेरप्रतिमौजसः ।

सामन्ता वासवस्येव लोकपाला महीभृतः

॥२८॥

इमास्ताः सर्ववस्त्वोघाः सर्वाभिमतदास्तताः ।

कल्पवृक्षलताकुञ्जसुन्दर्यो गृहपङ्क्तयः

॥२९॥

इदं तत्कीरजनताराज्यं प्राग्भुक्तमद्य मे ।

आत्मजन्मान्तराचार इव प्रत्यक्षतां गतम्

॥३०॥

सत्यं स्वप्न इवायं मे जाग्रद्भूतः पुनः स्थितः ।

न जाने किंकृतोत्थाना मायेयं प्रविजृम्भते

॥३१॥

अहो नु खलु दीर्घेण मनोमोहेन वल्गता ।

वैवश्यमुपनीतोऽहं जालेनेव शकुन्तकः

॥३२॥

हा धिक्कष्टमबुद्धं मे मनो वासनया हतम् ।

पश्यति भ्रमजालानि विततानि शिशोरिव

॥३३॥

एषा हि माया महती तेन मे चक्रधारिणा ।

दर्शितेत्यधुना साधु मया स्मृतमखण्डितम्

॥३४॥

तदिदानीं तथा यत्नं करिष्ये गिरिकन्दरे ।

यथाकुसंभ्रमस्यास्य जाने जन्म तथा स्थितिम्

॥३५॥

इति संचिन्त्य नगराद्गाधिस्तस्माज्जगाम ह ।

कन्दरं प्राप्य शैलस्य तस्थौ विश्रान्तसिंहवत्

॥३६॥

तत्र संवत्सरं सार्धं पयश्चुलुकभोजनम् ।

तपश्चक्रे महातेजास्तुष्टये शार्ङ्गधन्वनः

॥३७॥

अथास्य पुण्डरीकाक्षः पयोमूर्तिरुपाययौ ।

प्रसादमुत्पलश्यामः शरदीव महाहदः

॥३८॥

तमाजगाम शैलेन्द्रकन्दरं द्विजमन्दिरम् ।

पयोधरवदच्छाच्छच्छविर्व्योमन्यथावसत्

॥३९॥

श्रीभगवानुवाच ।

गाधे कच्चित्त्वया दृष्टा माया मम गरीयसी ।

दृष्टं त्वया जगज्जालचेष्टितं दैष्टिकात्मकम्

॥४०॥

चित्ताभिगत एतस्मिन्प्राप्ते सम्यगनिन्दितः ।

तपो गिरितटे कुर्वन्किमन्यदभिवाञ्छसि

॥४१॥

श्रीवसिष्ठ उवाच ।

एवं वदन्तमालोक्य हरिं गाधिर्द्विजोत्तमः ।

अर्चां कुसुमपूरेण पादयोः पर्यपूरयत्

॥४२॥

दत्त्वार्ध्यं कीर्णकुसुमः प्रणम्याशु प्रदक्षिणैः ।

विष्णुमाह द्विजो वाक्यमम्भोदमिव चातकः

॥४३॥

गाधिरुवाच ।

देव यैषा त्वया माया दर्शिताऽतितमोमयी ।

महीं प्रातरिवादित्यस्तां मे प्रकटतां नय

॥४४॥

भ्रमं यं पश्यति मनो वासनामलमालितम् ।

स्वप्नवत्स कथं देव जाग्रत्यपि हि दृश्यते

॥४५॥

मुहूर्तमुपलब्धश्च जलान्तः स्वप्नविभ्रमः ।

कथं प्रत्यक्षतां प्राप्तो ममामलपदास्पद

॥४६॥

दैर्घ्यादैर्घ्येऽस्य कालस्य शरीरस्य भवाभवाः ।

कथमन्तस्थिता न स्युर्मदीयैः श्वपचभ्रमैः

॥४७॥

श्रीभगवानुवाच ।

गाधे स्वाधिविधूतस्य स्वरूपस्यैतदात्मकम् ।

चेतसोऽदृष्टतत्त्वस्य यत्पश्यत्युरुविभ्रमम्

॥४८॥

बहिर्न किंचिदप्यस्ति खाद्यब्ध्युर्वीदिगादिकम् ।

एतत्स्वचित्त एवास्ति पत्रपुञ्जमिवाङ्कुरे

॥४९॥

फलादि स्फारतामेति यथैव बहिरङ्कुरात् ।

बहिः प्रकटतां याति तथा पृथ्व्यादिचेतसः

॥५०॥

सत्यं पृथ्व्यादि चित्तस्थं न बहिष्ठं कदाचन ।

अङ्कुरस्थः पल्लवस्तु तस्माद्यस्मात्फलश्रियः

॥५१॥

रूपालोकमनस्कारतत्ताकालक्रियात्मकम् ।

कुम्भकारो घटमिव चेतो हन्ति करोति च

॥५२॥

आबालमेतत्पुरुषैः सर्वैरेवानुभूयते ।

स्वप्नभ्रममदावेगरागरोगादिदृष्टिषु

॥५३॥

चित्ते वृत्तान्तलक्षाणि संस्थितान्यात्तवासने ।

पादपे फलपुष्पाणि मूलाक्रान्तावनाविव

॥५४॥

त्यक्तावनेर्विटपिनो भूयः पत्राणि नो यथा ।

निर्वासनस्य जीवस्य पुनर्जन्मादि नो तथा

॥५५॥

यत्रानन्तजगज्जालं संस्थितं तेन तेजसा ।

श्वपचत्वं प्रकटितं यदि तद्विस्मयोऽत्र किम्

॥५६॥

अवबुद्धा श्वपचता प्रतिभासवशात्त्वया ।

यथैवानल्पसंरम्भा विचित्राधिविकारदा

॥५७॥

तथैवातिथिरायातो भुक्तवान्सुप्तवान्द्विजः ।

कथां कथितवांश्चेति दृष्टवानसि संभ्रमम्

॥५८॥

तथैवोत्थाय गच्छामि प्राप्तोऽहं भूतमण्डलम् ।

इमे भूता इमे ग्रामा दृष्टवानसि संभ्रमम्

॥५९॥

तथैवेदं कटंजस्य प्राक्तनं लुठितं गृहम् ।

जनैरुक्तं कटंजस्य दृष्टवानसि संभ्रमम्

॥६०॥

तथैव कीरनगरं प्राप्तोऽस्मि कथितं च मे ।

कीरैः श्वपचराजत्वं दृष्टवानसि सभ्रमम्

॥६१॥

एवं सर्वं त्वया दृष्टं मोहजालं द्विजोत्तम ।

यत्सत्यमिति जानासि यच्चासत्यमवैषि च

॥६२॥

वासनावलितं चेतः किं नामान्तर्न पश्यति ।

साधितं दृश्यते स्वप्ने वर्षसाध्यं प्रयोजनम्

॥६३॥

नातिथिर्न च भूतास्ते न कीरास्ते न तत्पुरम् ।

सर्वमेतन्महाबुद्धे व्यामोहाद्दृष्टवानसि

॥६४॥

गच्छता भवता भूतदेशं पान्थेन कन्दरे ।

कस्मिंश्चिद्विप्र विश्रान्तं कुरङ्गेणेव कानने

॥६५॥

तत्रैव श्रममूढत्वादिदं तद्भूतमण्डलम् ।

इदं तच्छ्वपचागारमिति दृष्टं न सत्यतः

॥६६॥

तथैव कीरनगरं दृष्टवानसि तत्तथा ।

तदैव चान्यदा वापि मायार्थं हि भवान्द्विज

॥६७॥

सर्वदैव समग्रासु विहरन्नसि दृष्टवान् ।

दिक्षु प्रोन्मत्तक इव विभ्रमं मनसा मुने

॥६८॥

तदुत्तिष्ठ निजं कर्म कुर्वंस्तिष्ठोपशान्तधीः ।

न स्वकर्म विना श्रेयः प्राप्नुवन्तीह मानवाः

॥६९॥

श्रीवसिष्ठ उवाच ।

इति निगदितवान्स पद्मनाभो

भुवनगतापसवृन्दपूज्यमानः ।

विबुधमुनिगणैः पवित्रहस्तै-

र्वृत उदधिं निजमास्पदं जगाम

॥७०॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूपशमप्रकरणे गाधिवृत्तान्ते मायामहत्त्वकथनं नामाष्टचत्वारिंशः सर्गः ।।४८।।