मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उपशमप्रकरणम् — सर्गः ५०

3
योगवासिष्ठम् · उपशमप्रकरणम् · 50

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

एवमेषातिवितता दुर्ज्ञाना रघुनन्दन ।

महामोहमयी माया विषमा पारमात्मिकी

॥१॥

क्व मुहूर्तद्वयस्वप्नसंभ्रमाल्लोकदृष्टता ।

क्वानेकवर्षसंभुक्तश्वपचावनिपभ्रमः

॥२॥

क्व संभ्रमोपलब्धत्वं क्व प्रत्यक्षनिदर्शनम् ।

क्वासत्यत्वमसंदिग्धं क्व सत्यपरिणामिता

॥३॥

अतो वच्मि महाबाहो मायेयं विषमान्वहम् ।

असावधानमनसं संयोजयति संकटे

॥४॥

श्रीराम उवाच ।

एवमस्य कथं ब्रह्मन्मायाचक्रस्य रोधनम् ।

कुर्युः प्रवहतो वेगात्सर्वाङ्गच्छेदकारिणः

॥५॥

श्रीवसिष्ठ उवाच ।

अस्य संसाररूपस्य मायाचक्रस्य राघव ।

चित्तं विद्धि महानाभिं भ्रमतो भ्रमदायिनः

॥६॥

तस्मिन्द्रुतमवष्टब्धे धिया पुरुषयत्नतः ।

गृहीतनाभिवहनान्मायाचक्रं निरुध्यते

॥७॥

अवष्टब्धमनोनाभिमोहचक्रं न गच्छति ।

यथा रज्ज्वां निरुद्धायां कीलकं रज्जुवेष्टितम्

॥८॥

चक्रयुद्धैकतज्ज्ञोऽसि कस्माज्जानासि नानघ ।

चक्रं नाभाववष्टब्धं वशमायाति नान्यथा

॥९॥

चित्तं नाभिमवष्टभ्य तस्माद्यत्नेन राघव ।

संसारचक्रं वहनादात्मनः परिरोधय

॥१०॥

एतां युक्तिं विना दुःखमनन्तमितमात्मनः ।

अस्यां दृष्टौ क्षणादन्तं गतमेवावलोकय

॥११॥

चित्ताक्रमणमात्रात्तु परमादौषधादृते ।

प्रयत्नेनापि संसारमहारोगो न शाम्यति

॥१२॥

तस्माद्राघव संत्यज्य तीर्थदानतपःक्रियाः ।

श्रेयसे परमायान्तश्चित्तमेव वशं कुरु

॥१३॥

चित्तान्तरेव संसारः कुम्भान्तः कुम्भखं यथा ।

चित्तनाशे न संसारः कुम्भनाशे न कुम्भखम्

॥१४॥

चिरं संसरणाकाशकोटरं चित्तकुम्भखम् ।

विनाश्यातुलिताकाशस्वरूपं रूपमाविश

॥१५॥

वर्तमानमनायासं भजद्वाह्यधिया क्षणम् ।

भूतं भविष्यदभजद्याति चित्तमचित्तताम्

॥१६॥

संकल्पांशानुसंधानवर्जनं चेत्प्रतिक्षणम् ।

करोषि तदचित्तत्वं प्राप्त एवासि पावनम्

॥१७॥

यावत्संकल्पकलना तावच्चित्तविभूतयः ।

यावज्जलदविस्तारस्तावत्खजलबिन्दवः

॥१८॥

सचित्तं चेतनं यावत्तावत्संकल्पकल्पनम् ।

सचन्द्रांशु जगद्यावत्तावत्प्रालेयलेशकाः

॥१९॥

चेतनं चित्तरिक्तं चेद्भावितं तत्स्वसंसृतेः ।

आमूलमेव दग्धानि विद्धि मूलानि सिद्धवत्

॥२०॥

चेतनं चित्तरिक्तं हि प्रत्यक्चेतनमुच्यते ।

निर्मनस्कस्वभावं तन्न तत्र कलनामलः

॥२१॥

सा सत्यता सा शिवता सावस्था पारमात्मिकी ।

सर्वज्ञता सा सा दृष्टिर्नतु यत्र मनः क्षतम्

॥२२॥

मनो यत्र तु तत्राशास्तत्र दुःखसुखानि च ।

सदा संनिधिमायान्ति श्मशान इव वायसाः

॥२३॥

वस्तुतत्त्वावबोधेन सर्वभावव्यवस्थितेः ।

ससृतिव्रततेर्बीजं संकल्पेनोपजायते

॥२४॥

शास्त्रसज्जनसंपर्कसंतताभ्यासयोगतः ।

जागतानामवस्तुत्वं भावानामवगम्यते

॥२५॥

अविवेकादुपाहृत्य चेतसोद्यमनिश्चयैः ।

बलात्कारेण संयोज्यं शास्त्रसत्पुरुषक्रमैः

॥२६॥

मुख्यं कारणमात्मैव परमात्मावलोकने ।

अगाधे पतितं रत्नं रत्नेनैवावलोक्यते

॥२७॥

स्वानुभूतानि दुःखानि स्वात्मैव त्यक्तुमिच्छति ।

तेनात्मैवात्मविज्ञाने हेतुरेकः परः स्मृतः

॥२८॥

प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ।

निरस्तमननानन्तसंविन्मात्रपरो भव

॥२९॥

जायमानस्तथा जीवन्म्रियमाणः क्रियारतः ।

स्वात्मन्यमलतां प्राप्ते संविदंशे स्थिरो भव

॥३०॥

ममेदं तदयं सोऽहमिति संत्यज्य वासनाः ।

एकनिष्ठतयान्तस्थसंविन्मात्रपरो भव

॥३१॥

वर्तमानभविष्यन्त्योः स्थित्योरादेहमेकधीः ।

स्वसंवित्त्यानुसंधानसमाधानपरो भव

॥३२॥

बाल्ययौवनवृद्धेषु दुःखेषु च सुखेषु च ।

जाग्रत्स्वप्नसुषुप्तेषु स्वसंवित्तिपरो भव

॥३३॥

मलं संवेद्यमुत्सृज्य मनो निर्गलयन्परम् ।

आशापाशमलं छित्त्वा स्वसंवित्तिपरो भव

॥३४॥

शुभाशुभस्वसंकेतसंशान्ताशाविषूचिकः ।

नष्टेष्टानिष्टदृष्टिस्त्वं संवित्सारपरो भव

॥३५॥

सकर्तृकर्मकरणान्स्वास्पर्शानन्तरा स्पृशन् ।

निर्विकल्पनिरालम्बः स्वचिन्मात्रपरो भव

॥३६॥

जाग्रत्येव हि संसुप्तां भावयन्सुस्थिरां स्थितिम् ।

सर्वमस्मीति संचिन्त्य सत्तैकात्मवपुर्भव

॥३७॥

नानाऽनानादशामुक्तो युक्तो मुक्ततया समे ।

समग्रकलनादीपः स्वचिन्मात्रपरो भव

॥३८॥

आत्मतापरते त्यक्त्वा निर्विभागो जगत्स्थितौ ।

वज्रस्तम्भवदात्मानमवलम्ब्य स्थिरो भव

॥३९॥

स्थित्वान्तर्मानसान्पाशानाशारूपानुदारया ।

धिया धैर्यैकधर्मिण्या निर्धर्माधर्मता व्रज

॥४०॥

समास्वादयतस्तत्त्वं स्वसंवेदनधर्मिणः ।

विषं हालाहलमपि यास्यत्यमृततामथ

॥४१॥

तदोदेति महामोहः संसृतिभ्रमकारणम् ।

निर्मलाया निरंशायाः संवित्तेश्चामतिर्यदा

॥४२॥

तदा संक्षीयते मोहः संसारभ्रमकारणम् ।

निर्मलायां निरंशायां स्वसंवित्तौ स्थितिर्यदा

॥४३॥

स्वरूपमनुयातस्य तीर्णस्याशामहार्णवम् ।

प्रसरिष्यति ते संवित्सर्यांशुरिव सर्वतः

॥४४॥

स्वभावमालोकयत आनन्दाद्वयसंस्थितेः ।

रसायनमपि स्वादु राम प्रतिविषायते

॥४५॥

तैर्नो भजामहे पुंभिर्ये स्वभावमुपागताः ।

शेषाः पुरुषनामानो गर्दभा दीर्घबाहवः

॥४६॥

पर्वतात्पर्वतं यान्ति पुरोऽद्रेरिव दन्तिनः ।

परां कोटिं प्रयातस्य स्वसंवित्त्युन्नतस्थितेः

॥४७॥

अदृष्टादृश्यसीम्नोऽन्तः सूर्यादीन्यखिलान्यपि ।

न तेजांस्युपकुर्वन्ति स्वसंविद्दिव्यचक्षुषः

॥४८॥

अवस्तुतां व्रजन्त्येते माध्याह्ना इव दीपकाः ।

अर्कादयो महालोका विद्ययाधिगतात्मनः

॥४९॥

तेजोंशुषु प्रभावेषु बलिष्वपि महत्स्वपि ।

सर्वेषून्नतियुक्तेषु तत्त्वज्ञः परमोन्नतः

॥५०॥

भान्तीह भासा यस्यार्कवह्नीन्दुमणितारकाः ।

तथा जगति राजन्ते ज्ञातज्ञेया नरोत्तमाः

॥५१॥

धराविवरकीटेभ्यो गर्दभेभ्योऽपि मानवः ।

तिर्यग्भ्यश्चाप्यतत्त्वज्ञा राम तुच्छतराः स्मृताः

॥५२॥

तावत्संमोहवेतालो देही यावदनात्मवान् ।

आत्मज्ञ एव संयुक्तश्चेतनेनेति तद्विदः

॥५३॥

अनात्मज्ञो हि दुःखेहः प्रस्फुरन्नपि भूतले ।

शव एव भ्रमत्युच्चैरात्मज्ञस्तु सचेतनः

॥५४॥

दूरादात्मज्ञता याति चित्ते पीवरतां गते ।

आलोकलक्ष्मीरभितो महामेघ इवोत्थिते

॥५५॥

भोगाभोगतिरस्कारैः कार्श्यं नेयं शनैर्मनः ।

रसापहारैस्तज्ज्ञेन कालेनाजीर्णपर्णवत्

॥५६॥

अन्यात्मन्यात्मभावेन देहमात्रास्थयानया ।

पुत्रदारकुटुम्बैश्च चेतो गच्छति पीनताम्

॥५७॥

अहंकारविकारेण ममतामलहेलया ।

इदं ममेति भावेन चेतो गच्छति पीनताम्

॥४८॥

जरामरणदुःखेन व्यर्थमुन्नतिमीयुषा ।

दोषाशीविषकोशेन चेतो गच्छति पीनताम्

॥५९॥

आधिव्याधिविलासेन समाश्वासेन संसृतेः ।

हेयादेयप्रयत्नेन चेतो गच्छति पीनताम्

॥६०॥

स्नेहेन धनलोभेन लाभेन मणियोषिताम् ।

आपातरमणीयेन चेतो गच्छति पीनताम्

॥६१॥

दुराशाक्षीरपानेन भोगानिलबलेन च ।

आस्थादानेन चारेण चित्ताहिर्याति पीनताम्

॥६२॥

आगमापायवपुषा विषवैषम्यशंसिना ।

भोगाभोगेन भीमेन चेतो गच्छति पीनताम्

॥६३॥

शरीरदुःश्वभ्रचिरप्ररूढं

चिन्ताचयोच्चाकृतिमञ्जरीकम् ।

जरामृतिव्याधिफलौघनम्रं

कामोपभोगौघविकासिपुष्पम्

॥६४॥

विचारसारक्रकचेन चित्त-

विषद्रुमं त्वद्भुतमद्रिकल्पम् ।

आशामहाशाखमशङ्कमेनं

छिन्धि प्रसह्यात्र विकल्पपत्रम्

॥६५॥

मत्तेक्षणं चैकतटोपवेशं

विश्रान्तिसौख्येष्वसमर्थमुग्रम् ।

आलोकनोत्कं सुजनक्रमाल्ल-

खण्डस्य चण्डं सुखदुःखगण्डम्

॥६६॥

चेतोगजं कायकुकाननस्थं

सुतीक्ष्णया धीकरजाग्रपङ्क्त्या ।

विदारयादीर्घविकारदन्तं

क्रियाकरं राघव राजसिंह

॥६७॥

रतिं गतं नित्यमसत्प्रदेशे

शरीरमांसग्रसनेन पुष्टम् ।

दुष्टक्रियाकर्कशचञ्चुदण्ड-

मेकेक्षणं पुष्टतमोंशुकृष्णम्

॥६८॥

दूरे समुत्सारय भारभूतं

दुश्चेष्टितं कर्कशमारटन्तम् ।

गन्धोद्गतं कायकुलायकोशा-

द्दोषोपशान्त्यै निजचित्तकाकम्

॥६९॥

तृष्णापिशाच्या परिचर्यमाणं

विश्रान्तमज्ञानमहावटेषु ।

भ्रान्तं चिरं देहशतेष्वटव्यां

स्वसंसृतौ चेतनवर्जितेषु

॥७०॥

विवेकवैराग्यगुरुप्रयत्न-

मन्त्रैः स्वतन्त्रैः स्वचिदात्मगेहात् ।

नोत्सादयेच्चित्तपिशाचमेनं

यावत्कुतस्तावदिहात्मसिद्धिः

॥७१॥

शुभाशुभास्यं हतमानवौघं

चिन्ताविषं कायकुकञ्चुकं च ।

अजस्रमच्छश्वसनाशनं च

सर्वस्य नानाभयनाशदं च

॥७२॥

हृदज्जदुःशाल्मलिकोटरस्थ-

ममोघया चित्खगमन्त्रशक्त्या ।

नीत्वा शमं राम मनोमहाहिं

भयं भृशं प्रोज्झ्य भवाभयात्मा

॥७३॥

अमङ्गलाकारधरः शरीर-

शवावलीसंततसेवनेन ।

दिगावलीसंभ्रमणश्रमार्तः

श्मशानसेवी वपुषा क्षतेन

॥७४॥

भोगमिषो दिक्ष्वभिधावमान

उत्कन्धरो धीरविवृद्धगर्धः ।

उड्डीय वै गच्छति चित्तगृध्रो

देहद्रुमात्तन्निपुणं जयस्ते

॥७५॥

भ्रान्तं वनान्तेषु दिगन्तरेषु

फलार्थिनं चञ्चलमाकुलाङ्गम् ।

जन्मावनेर्जन्ममहिं प्रयातं

संसारबन्धं जनतां हसन्तम्

॥७६॥

द्रुमेऽक्षिनासाकुसुमे भुजादि-

शाखे विलोलाङ्गुलिजालपत्रे ।

समुल्लसन्तं परिमारयान्त-

र्मनोमहामर्कटमङ्ग सिद्ध्यै

॥७७॥

अभ्युत्थितं सत्फलसंक्षयाय

लसन्मुखासङ्गितडित्प्रकाशम् ।

वर्षन्तमासारमनर्थसार्थ-

मान्दोलितं वासनवात्ययान्तः

॥७८॥

संकल्पसंकल्पनवर्जनोग्र-

मन्त्रप्रभावाद्हृदयाम्बरस्थम् ।

सोत्साहमुत्सादय चित्तमेघं

बृहत्फलं प्राप्य भवालमाद्यः

॥७९॥

ग्रन्थीकृतं कर्मभिरात्मसृष्टे-

र्मन्त्रैरभेद्यं ज्वलनैरदग्धम् ।

पीडां परामात्मनि कल्पयन्तं

समस्तजात्यन्तरदीर्घदाम

॥८०॥

संप्रोतनिःसंख्यशरीरमालं

बलादसंकल्पनमात्रशस्त्रैः ।

छित्त्वा स्वयं राघव चित्तपाशं

यथासुखं त्वं विहरास्तशङ्कः

॥८१॥

फूत्कारदग्धाखिलपान्थलोक-

मत्यन्तदुष्प्रापपरप्रबोधम् ।

आशीविषं शोषितलोकखण्डं

व्यात्त्यामिषोद्धूतशरीरदण्डम्

॥८२॥

आमन्थरं देहगुहासु गुप्तं

संकल्पघोराजगरं जवेन ।

अकामनानाममहानलेन

बलेन दग्ध्वा विभवो भव त्वम्

॥८३॥

चित्तेन चेतः शममाशु नीत्वा

शुद्धेन घोरास्त्रमिवास्त्रयुक्त्या ।

चिराय साधो त्यज चञ्चलत्वं

विमर्कटो वृक्ष इवाक्षतश्रीः

॥८४॥

अमलमिति च कृत्वा चेतसा वीतशङ्क-

मुपशमितमनोऽन्तः सर्वमादेहमेव ।

तृणलवलघु पश्यँल्लीलया हेयदृष्ट्या

पिव विहर रमस्व प्राप्तसंसारपारः

॥८५॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे राघवाशयविनियोगो नाम पञ्चाशः सर्गः ।। ५० ।।