मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उपशमप्रकरणम् — सर्गः ८५

3
योगवासिष्ठम् · उपशमप्रकरणम् · 85

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

अथ किं वीतहव्यः स्वं स्थितं तस्मिन्धरोदरे ।

कथमुद्धृतवान्देहं स संपन्नश्च किं कथम्

॥१॥

श्रीवसिष्ठ उवाच ।

अनन्तरमनन्तात्म वीतहव्याभिधं मनः ।

स्वमेवात्मचमत्कारमात्रं समवबुद्धवान्

॥२॥

शार्वस्यास्य गणस्याभूत्प्राग्ज्योतिःस्मरणे स्वयम् ।

इच्छा कदाचित्सकलप्राग्जन्मालोकनोन्मुखी

॥३॥

अशेषान्स ददर्शाथ नष्टानष्टान्स्वदेहकान् ।

अनष्टानां ततो मध्यात्तत्तत्कोटरसंस्थितम्

॥४॥

यदृच्छयैव प्रोद्धर्तुं देहं तस्याभवन्मतिः ।

अपश्यत्तत्तथा तत्र पङ्के कीटमिव स्थितम्

॥५॥

शरीरं वीतहव्याख्यं धराकोटरपीडितम् ।

प्रावृडोघोपनीतं तत्पृष्ठस्थपङ्कमण्डलम्

॥६॥

तृणजालावकीर्णत्वग्देहपृष्ठमृदं तथा ।

एतद्दृष्ट्वा महातेजा धराविवरयन्त्रितम्

॥७॥

भूयोऽपि चिन्तयामास धिया परमबोधया ।

सर्वसंपीडिताङ्गत्वात्कायो मे प्राणवायुभिः

॥८॥

मुक्तश्चलितुमाकर्तुं शक्नोति न मनागपि ।

तज्ज्ञात्वा प्रविशाम्याशु देहमेवं विवस्वतः

॥९॥

तदीयः पिङ्गलो देहमुद्धरिष्यति मे ततः ।

अथवा किं ममैतेन शाम्याम्यहमविघ्नतः

॥१०॥

निर्वामि स्वं पदं यामि कोऽर्थो मे देहलीलया ।

इति संचिन्त्य मनसा वीतहव्यो महामते

॥११॥

तूष्णीं स्थित्वा क्षणं भूयश्चिन्तयामास भूतले ।

उपादेयो हि देहस्य न मे त्यागो न संश्रयः

॥१२॥

यादृशो देहसंत्यागस्तादृशो देहसंश्रयः ।

तद्यावदस्ति देहोऽयं न यावदणुतां गतः

॥१३॥

तावदेनमुपारुह्य किंचित्प्रविहराम्यहम् ।

पिङ्गलेन शरीरं स्वमुद्धर्तुं तापनं वपुः

॥१४॥

प्रविशामि नभःसंस्थं मुकुरं प्रतिबिम्बवत् ।

इत्यसौ मुनिरादित्यं विवेशानिलरूपधृक्

॥१५॥

पुर्यष्टकवपुर्भूत्वा भस्त्राखमिव चानलः ।

भगवान्मुनिरप्येनं हृद्गतं मुनिनायकम्

॥१६॥

दृष्ट्वासौ चिन्तयन्कार्यं पौर्वापर्यमुदारधीः ।

विन्ध्यभूधरभूकोशमन्तर्मुनिकलेवरम्

॥१७॥

तृणोपलपरिच्छन्नं ददर्श गतसंविदम् ।

ऋषेश्चिकीर्षितं ज्ञात्वा भानुर्गगनमध्यगः

॥१८॥

धरातो मुनिमुद्धर्तुमादिदेशाग्रगं गणम् ।

वीतहव्यमुनेः संवित्सा पुर्यष्टकरूपिणी

॥१९॥

रविं वातमयी पूज्यं प्रणनामाशु चेतसा ।

भानुनाप्यभ्यनुज्ञातो मानपूर्वकमग्रगम्

॥२०॥

विवेश पिङ्गलाकारं विन्ध्यकन्दरगामिनम् ।

पिङ्गलोऽसौ नभस्त्यक्त्वा कुञ्जकुञ्जरसुन्दरम्

॥२१॥

प्राप विन्ध्यवनं प्रावृण्मत्ताभ्राम्बरभासुरम् ।

उद्दधार धराकोशान्नखनिष्कृष्टभूतलः

॥२२॥

कलेवरं मुनेः पङ्कान्मृणालमिव सारसः ।

मौनं पुर्यष्टकमथ स्वं विवेश कलेवरम्

॥२३॥

नभस्तलपरिभ्रान्तो विहङ्गम इवालयम् ।

प्रणेमतुर्मिथो मूर्तवीतहव्यनभश्चरौ

॥२४॥

बभूवतुः स्वकार्यैकतत्परौ तेजसां निधी ।

जगाम पिङ्गलो व्योम मुनिश्च विमलं सरः

॥२५॥

तारकाकारकुमुदं सूर्यांशुकवदाकृति ।

वीतहव्यो ममज्जाशु सरस्युद्भिन्नपङ्कजे

॥२६॥

पङ्कपल्वललीलान्ते वने कलभको यथा ।

तत्र स्नात्वा जपं कृत्वा पूजयित्वा दिवाकरम् ।

मनोभूषितया तन्वा पूर्ववत्पुनराबभौ

॥२७॥

मैत्र्या तया समतया परया च शान्त्या

सत्प्रज्ञया मुदितया कृपया श्रिया च ।

युक्तो मुनिः सकलसङ्गविमुक्तचेता

विन्ध्ये सरित्तटगतो दिनमेव रेमे

॥२८॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे वीतहव्यसमाधियोगोपदेशो नाम पञ्चाशीतितमःसर्गः ८५