मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः ११२

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 112

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

यस्मिंस्तस्मिन्पदार्थे हि येन तेन यथा तथा ।

तीव्रसंवेगसंपन्नं मनः पश्यति वाञ्छितम्

॥१॥

जायते म्रियते चैषा मनसस्तीव्रवेगिता ।

सौम्याम्बुबुद्बुदालीव निर्निमित्ता स्वभावतः

॥२॥

शीतता तुहिनस्येव कज्जलस्येव कृष्णता ।

लोलता मनसो रूपं तीव्रातीव्रैकरूपिणी

॥३॥

श्रीराम उवाच ।

कथमस्यातिलोलस्य वेगो वेगैककारणम् ।

चलता मनसो ब्रह्मन्बलतो विनिवार्यते

॥४॥

श्रीवसिष्ठ उवाच ।

नेह चञ्चलताहीनं मनः क्वचन दृश्यते ।

चञ्चलत्वं मनोधर्मो वह्णेर्धर्मो यथोष्णता

॥५॥

यैषा हि चञ्चला स्पन्दशक्तिश्चित्तत्वसंस्थिता ।

तां विद्धि मानसीं शक्तिं जगदाडम्बरात्मिकाम्

॥६॥

स्पन्दास्पन्दादृते वायोर्यथा सत्तैव नोह्यते ।

तथा न चित्तसत्तास्ति चञ्चलस्पन्दनादृते

॥७॥

यत्तु चञ्चलताहीनं तन्मनो मृतमुच्यते ।

तदेव च तपःशास्त्रसिद्धान्तो मोक्ष उच्यते

॥८॥

मनोविलयमात्रेण दुःखशान्तिरवाप्यते ।

मनोमननमात्रेण दुःखं परमवाप्यते

॥९॥

दुःखमुत्पादयत्युच्चेरुत्थितश्चित्तराक्षसः ।

सुखायानन्तभोगाय तं प्रयत्नेन पातय

॥१०॥

तस्य चञ्चलता यैषा त्वविद्या राम सोच्यते ।

वासनापदनाम्नीं तां विचारेण विनाशय

॥११॥

अविद्यया वासनया तयान्तश्चित्तसत्तया ।

विलीनया त्यागवशात्परं श्रेयोऽधिगम्यते

॥१२॥

यत्तत्सदसतोर्मध्यं यन्मध्यं चित्त्वजाड्ययोः ।

तन्मनः प्रोच्यते राम द्वयोर्दोलायिताकृति

॥१३॥

जाड्यानुसंधानहतं जाड्यात्मकतयेद्धया ।

चेतो जडत्वमायाति दृढाभ्यासवशेन हि

॥१४॥

विवेकैकानुसंधानाच्चिदंशात्मतया मनः ।

चिदेकतामुपायाति दृढाभ्यासवशादिह

॥१५॥

पौरुषेण प्रयत्नेन यस्मिन्नेव पदे मनः ।

पात्यते तत्पदं प्राप्य भवत्यभ्यासतो हि तत्

॥१६॥

पुनः पौरुषमाश्रित्य चित्तमाक्रम्य चेतसा ।

विशोकं पदमाश्रित्य निराशङ्कः स्थिरो भव

॥१७॥

भवभावनया मग्नं मनसैव न चेन्मनः ।

बलादुत्तार्यते राम तदुपायोऽस्ति नेतरः

॥१८॥

मन एव समर्थं वो मनसो दृढनिग्रहे ।

अराजा कः समर्थः स्याद्राज्ञो राघव निग्रहे

॥१९॥

तृष्णाग्राहगृहीतानां संसारार्णवरंहसि ।

आवर्तैरुह्यमानानां दूरे स्वं मन एव नौः

॥२०॥

मनसैव मनश्छित्त्वा पाशं परमबन्धनम् ।

उन्मोचितो न येनात्मा नासावन्येन मोक्ष्यते

॥२१॥

या योदेति मनोनाम्नी वासना वासितान्तरा ।

तां तां परिहरेत्प्राज्ञस्ततोऽविद्याक्षयो भवेत्

॥२२॥

भोगौघवासनां त्यक्त्वा त्यज त्वं भेदवासनाम् ।

भावाभावौ ततस्त्यक्त्वा निर्विकल्पःसुखीभव

॥२३॥

अभावनं भावनायास्त्वेतावान्वासनाक्षयः ।

एष एव मनोनाशस्त्वविद्यानाश उच्यते

॥२४॥

यद्यत्संवेद्यते किंचित्तत्रासंवेदनं परम् ।

असंवित्तिस्तु निर्वाणं दुःखं संवेदनाद्भवेत्

॥२५॥

स्वेनैव तत्प्रयत्नेन पुंसः संवेद्यते क्षणात् ।

भावस्याभावनं भूत्यै तत्तस्मान्नित्यमाहरेत्

॥२६॥

रागादयो ये मनसीप्सितास्ते

बुद्ध्वेह तांस्तांस्त्वमवस्तुभूतान् ।

त्यक्त्वा तदास्याङ्कुरमस्तबीजं

मा हर्षशोकं समुपैहि तृप्तः

॥२७॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उ० मुखरवेणोपदेशांशकथनं नाम द्वादशोत्तरशततमः सर्गः ।। ११२ ।।