मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः १९

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 19

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीदेव्युवाच ।

वित्तवेषवयःकर्मविद्याविभवचेष्टितैः ।

वसिष्ठस्यैव सदृशो नतु वासिष्ठचेष्टितः

॥१॥

वसिष्ठ इति नाम्नासौ तस्याभूदिन्दुसुन्दरी ।

नाम्ना त्वरुन्धती भार्या भूमिव्योमन्यरुन्धती

॥२॥

वित्तवेषवयःकर्मविद्याविभवचेष्टितैः ।

समैव साप्यरुन्धत्या नतु चेतनसत्तया

॥३॥

अकृत्रिमप्रेमरसा विलासालसगामिनी ।

सास्य संसारसर्वस्वमासीत्कुमुदहासिनी

॥४॥

स विप्रस्तस्य शैलस्य सानौ सरलशाद्वले ।

कदाचिदुपविष्टः सन्ददर्शाधो महीपतिम्

॥५॥

समग्रपरिवारेण यान्तमाखेटकेच्छया ।

महता सैन्यघोषेण मेरोरिव बिभित्सया

॥६॥

चामरैः कीर्णचन्द्रांशुपताकाभिर्लतावनम् ।

कुर्वाणं खं सितच्छत्रमण्डलै रूप्यकुट्टिमम्

॥७॥

अश्वपादूस्वनत्क्ष्माजरेणुपूरावृताम्बरम् ।

हास्तिकोत्तम्भितकरवाताट्टालकगोपितम्

॥८॥

महाकलकलावर्तद्रवद्दिग्भूतमण्डलम् ।

कचत्काञ्चनमाणिक्यहारकेयूरमण्डलम्

॥९॥

तमालोक्य महीपालमिदं चिन्तितवानसौ ।

अहो नु रम्या नृपता सर्वसौभाग्यभासिता

॥१०॥

पदातिरथहस्त्यश्वपताकाच्छत्रचामरैः ।

कदा स्यां दशदिक्कुञ्जपूरकोऽहं महीपतिः

॥११॥

कदा मे वायवः कुन्दमकरन्दसुगन्धयः ।

पास्यन्त्यन्तःपुरस्त्रीणां सुरतश्रमसीकरान्

॥१२॥

कर्पूरेण पुरन्ध्रीणां पूर्णेन यशसा दिशाम् ।

इन्दूदयावदातानि कदा कुर्यां मुखान्यहम्

॥१३॥

इत्थं ततःप्रभृत्येष विप्रः संकल्पवानभूत् ।

स्वधर्मनिरतो नित्यं यावज्जीवमतन्द्रितः

॥१४॥

हिमाशनिरिवाम्भोजं जर्जरीकर्तुमादृता ।

जले जर्जरितेवाथ जरा द्विजमुपाययौ

॥१५॥

आसन्नमरणस्याथ भार्या म्लानिमुपाययौ ।

तस्य शाम्यति पुष्पर्तौ लतेव ग्रीष्मभीतितः

॥१६॥

मामथाराधितवती सा ततस्त्वमिवाङ्गना ।

अमरत्वं सुदुष्प्रापं बुद्ध्वेमं सावृणोद्वरम्

॥१७॥

देवि स्वमण्डपादेव जीवो भर्तुर्मृतस्य मे ।

मायासीदित्यतस्तस्याः स एवाङ्गीकृतो मया

॥१८॥

अथ कालवशाद्विप्रः स पञ्चत्वमुपाययौ ।

तस्मिन्नेव गृहाकाशे जीवाकाशतया स्थितः

॥१९॥

संपन्नः प्राक्तनानल्पसंकल्पवशतः स्वयम् ।

आकाशवपुरेवैष पतिः परमशक्तिमान्

॥२०॥

प्रभावजितभूपीठः प्रतापाक्रान्तविष्टपः ।

कृपापालितपातालस्त्रिलोकविजयी नृपः

॥२१॥

कल्पाग्निररिवृक्षाणां स्त्रीणां मकरकेतनः ।

मेरुर्विषयवायूनां साध्वब्जानां दिवाकरः

॥२२॥

आदर्शः सर्वशास्त्राणामर्थिनां कल्पपादपः ।

पादपीठं द्विजाग्र्याणां राकाधर्मामृतत्विषः

॥२३॥

स्वगृहाभ्यन्तराकाशे चित्ताकाशमयात्मनि ।

तस्मिन्द्विजे शवीभूते भूताकाशशरीरिणि

॥२४॥

सा तस्य ब्राह्मणी भार्या शोकेनात्यन्तकर्शिता ।

शुष्केव माषशिम्बीका हृदयेन द्विधाभवत्

॥२५॥

भर्त्रा सह शवीभूता देहमुत्सृज्य दूरतः ।

आतिवाहिकदेहेन भर्तारं समुपाययौ

॥२६॥

नदीनिखातमिव तं भर्तारमनुसृत्य सा ।

आजगाम विशोकत्वं सा वासन्तीव मञ्जरी

॥२७॥

तत्रास्य विप्रस्य गृहाणि सन्ति भूस्थावरादीनि धनानि सन्ति ।

अद्याष्टमं वासरमाप्तमृत्योर्जीवो गिरिग्रामककन्दरस्थः

॥२८॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो० ब्राह्मणमरणं नामैकोनविंशः सर्गः ।। १९ ।।