सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः
श्रीवसिष्ठ उवाच ।
अथ प्रोड्डयनोद्युक्ततुरङ्गमतरङ्गकः ।
उत्ताण्डव इवोन्मत्तो बभूव स रणार्णवः
॥१॥छत्रडिण्डीरविश्रान्तसितेषुशफरोत्करः ।
अश्वसैन्योल्लसल्लोलकल्लोलाकुलकोटरः
॥२॥नानायुधनदीनीतसैन्यावर्तविवृत्तिमान् ।
मत्तहस्तिघटापीठचलाचलकुलाचलः
॥३॥कचच्चक्रशतावर्तवृत्तिभ्रान्तशिरस्तृणः ।
धूलीजलधरापीतभ्रमत्खड्गप्रभाजलः
॥४॥मकरव्यूहविस्तारभग्नाभग्नभटौघनौ ।
महागुडुगुडावर्तप्रतिश्रुद्धनकन्दरः
॥५॥मीनव्यूहविनिष्क्रान्तशरबीजौघसर्षपः ।
हेतिवीचीवरालूनपताकावीचिमण्डलः
॥६॥शस्त्रवारिकृताम्भोदसदृशावर्तकुण्डलः ।
संरम्भघनसंचारसेनातिमितिमिङ्गिलः
॥७॥कृष्णायसपरीधानवलत्सेनाम्बुभीषणः ।
कबन्धावर्तलेखान्तर्बद्धसैन्यादिभूषणः
॥८॥शरसीकरनीहारसान्धकारककुब्गणः ।
निर्घोषाशोषिताशेषशब्दैकघनघुंघुमः
॥९॥पतनोत्पतनव्यग्रशिरःशकलसीकरः ।
आवर्तचक्रव्यूहेषु प्रभ्रमद्भटकाष्ठकः
॥१०॥कष्टटाङ्कारकोदण्डकुण्डलोन्मथनोद्भटः ।
अशङ्कमेव पातालादिवोद्यत्सैनिकोर्मिमान्
॥११॥गमागमपरानन्तपताकाच्छत्रफेनिलः ।
वहद्रक्तनदीरंहःप्रोह्यमानरथद्रुमः
॥१२॥गजप्रतिमसंपन्नमहारुधिरबुद्बुदः ।
सैन्यप्रवाहविचलद्धयहस्तिजलेचरः
॥१३॥ससंग्रामोऽम्बरग्राम इवाश्चर्यकरो नृणाम् ।
अभूत्प्रलयभूकम्पकम्पिताचलचञ्चलः
॥१४॥तरत्तरङ्गविहगः पतत्करिघटातटः ।
त्रस्तभीरुमृगानीकस्कूर्जद्धुरुघुरारवः
॥१५॥सरच्छरालीशलभशतभङ्गुरसैनिकः ।
तरत्तरङ्गशरभः शरभारवनावनिः
॥१६॥चलद्द्विरेफनिर्ह्रादो रसत्तूर्यगुहागुरुः ।
चिरात्स सैन्यजलदो लुठद्भटमृगाधिपः
॥१७॥प्रसरद्धूलिजलदो विगलत्सैन्यसानुमान् ।
पतद्रथवराढ्याङ्गः प्रतपत्खङ्गमण्डलः
॥१८॥प्रोत्पतत्पदपुष्पौघः पताकाच्छत्रवारिदः ।
वहद्रक्तनदीपूरपतत्साराववारणः
॥१९॥सोऽभूत्समरकल्पान्तो जगत्कवलनाकुलः ।
पर्यस्तसध्वजच्छत्रपताकारथपत्तनः
॥२०॥पतद्विमलहेत्यौघभूरिभास्वरभास्करः ।
कठिनप्राणसंतापतापिताखिलमानसः
॥२१॥कोदण्डपुष्करावर्तशरधारानिरन्तरः ।
वहत्खंगशिलालेखाविद्युद्वलयिताम्बरः
॥२२॥उच्छिन्नरक्तजलधिपतितेभकुलाचलः ।
नभोविकीर्णनिपतद्युत्तारकणतारकः
॥२३॥चक्रकुल्याम्बुदावर्तपूर्णव्योमशिराम्बुदः ।
अस्त्रकल्पाग्निनिर्दग्धसैन्यलोकान्तरक्रमः
॥२४॥हेतिवर्षाशनिच्छन्नभूतलामलभूधरः ।
गजराजगिरिव्रातपातपिष्टजनव्रजः
॥२५॥शरधाराघनानीकमेघच्छन्नमहीनभाः ।
महानीकार्णवक्षोभसंघट्टघटिताद्रवः
॥२६॥व्याप्त उग्रानिलोद्भूतैर्जलव्यालैरिवाचलः ।
अन्योन्यदलनव्यग्रैः शस्त्रोत्पात इवोत्थितैः
॥२७॥शूलासिचक्रशरशक्तिगदाभुशुण्डी-
प्रासादयो विदलनेन मिथो ध्वनन्तः ।
दीप्ता अधुर्दशदिशः शतशो भ्रमन्तः
कल्पान्तवातपरिवृत्तपदार्थलीलाम्
॥२८॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे रणवर्णनं नाम पञ्चत्रिंशः सर्गः ।। ३५ ।।