मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः ३७

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 37

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

रणे रभसनिर्लूननरवारणदारुणे ।

अहंपूर्वमहंपूर्वमिति वृन्दानुपातिनि

॥१॥

एते चान्ये च बहवस्तत्र भस्मत्वमागताः ।

प्रविशन्तः प्रयत्नेन शलभा इव पावके

॥२॥

अत्रान्ये मध्यदेशीया जना नोदाहृता मया ।

तानिमाञ्छृणु वक्ष्यामि पक्षाँल्लीलामहीभृतः

॥३॥

तद्देहिकाः शूरसेना गुडा अश्वघनायकाः ।

उत्तमज्योतिभद्राणि मदमध्यमिकादयः

॥४॥

सालूकाकोद्यमालास्या दौज्ञेयाः पिप्पलायनाः ।

माण्डव्याः पाण्डुनगराः सौग्रीवाद्या गुरुग्रहाः

॥५॥

पारियात्राः कुराष्ट्राश्च यामुनोदुम्बरा अपि ।

राज्याह्वा उज्जिहानाश्च कालकोटिकमाथुराः

॥६॥

पाञ्चाला धर्मारण्याश्च तथैवोत्तरदक्षिणाः ।

पाञ्चालकाः कुरुक्षेत्रास्तथा सारस्वता जनाः

॥७॥

अवन्तीस्यन्दनश्रेणीकुन्तिपाञ्चनदेरितैः ।

स्पन्दमाना विद्रवन्ती निपपात महाभृगौ

॥८॥

कोशब्रह्मावसानाश्च च्छिन्ना वस्त्रवतीजनैः ।

भूमौ निपतिताः सन्तो मिलिता मत्तवारणैः

॥९॥

शूरा दाशपुराः शस्त्रनिकृत्तोदरकन्धराः ।

बाणक्षितिभिराक्रम्य योजिता योजने ह्रदे

॥१०॥

दीर्णोदरविनिर्यातस्वान्त्रतन्त्रीनियन्त्रिताः ।

शान्तिकाःशान्तसंचाराः पिशाच्चैश्चर्विता निशि

॥११॥

उद्रवैर्भद्रगिरिभिः संग्रामाध्वरदीक्षितैः ।

क्षोणिगर्तेषु निक्षिप्ता मरगाः कमठा इव

॥१२॥

प्रद्रुता विद्रवद्रक्ता विद्रावितमहारयः ।

दण्डिकास्थानिलोद्धूता हैहयैर्हरिणा इव

॥१३॥

दन्तिदन्तविनिर्भिन्ना दरदा दलितारयः ।

नीता रक्तमहानद्या द्रुमाणां पल्लवा इव

॥१४॥

नाराचैश्चर्विताश्चीना जीर्णा जर्जरजीविताः ।

जहुर्जलनिधौ देहान्भारभूतानिव स्थितान्

॥१५॥

कर्णाटसुभटोड्डीनकुन्ताकलितकन्धराः ।

भग्ना नलदशूराश्च तारकानिकरा इव

॥१६॥

करीन्द्रमकरव्यूहरंहःसंहतहेतयः ।

केशाकेशिकृतारम्भा विनेदुर्दाशकाः शकाः

॥१७॥

दशार्णाः पाशनिर्मुक्तश्रृङ्खला जालभीरवः ।

निलीना रक्तजम्बाले वैतसास्तिमयो यथा

॥१८॥

गुर्जरानीकनाशेन गुर्जरीकेशलुञ्चनम् ।

विहितं तङ्गणोत्तुङ्गनासिशङ्कुशतै रणे

॥१९॥

सिषिचुः शस्त्रकर्णौघाद्विन्दुभ्यो निगडा गुहान् ।

शरधारावनानीव वीरहेतिप्रभाम्बुदाः

॥२०॥

भुशुण्डीमण्डलोद्द्योतश्यामार्कोत्पातभीरुषु ।

आभीरेष्वरयः पेतुर्गोगणा हरितेष्विव

॥२१॥

कान्तकाञ्चनकान्तासीत्ताम्रसंग्रामवाहिनी ।

भुक्ता गौडभटेनाङ्ग नखकेशनिकर्षणैः

॥२२॥

रणे नगनयासंख्यकवच्चक्रनिकृन्तनैः ।

तङ्गणाः कणशः कीर्णाः कङ्कगृध्रेषुभासकैः

॥२३॥

लगुडालोडनोड्डीनं गौडं गुडुगुडारवम् ।

श्रुत्वा गान्धारगावोऽग्रे दुद्रुवुर्द्रविडा इव

॥२४॥

आकाशगार्णवप्रख्यो वहच्छककदम्बकः ।

अकरोत्पारसीकानां घननैशतमोभ्रमम्

॥२५॥

मन्दराहननोड्डीनस्वच्छक्षीरार्णवोदरे ।

वनानीवायुधान्यासञ्छत्रुप्रालेयसानुनि

॥२६॥

यदम्बुदैरिवोड्डीनं शस्त्रवृन्दैर्नभोङ्गणे ।

तद्दृष्टं वीचिवलनैर्लोलैः प्लुतमिवार्णवे

॥२७॥

शतचन्द्रं सितच्छत्रैः शरैः शलभनिर्भरम् ।

शक्तिभिः किल नीरन्ध्रं दृष्टमाकाशकाननम्

॥२८॥

वीरासवसमाक्रन्दकारिणः केकयैः कृताः ।

कङ्कैः कङ्ककुलाक्रान्तव्योमोद्धूलितमस्तकाः

॥२९॥

किरातसैन्यकन्यानां कामं कलकलारवैः ।

अङ्गैरनङ्गतां नीत्वा भैरवैरिव गर्जितम्

॥३०॥

काशैस्तद्देहकाः क्रांता अदृश्यैर्मायया खगैः ।

निर्धूतपक्षैः क्षुभितैः पवनैरिव पांसवः

॥३१॥

उन्मत्ताः सुविनिर्धूतास्त्यक्तहेतिरणाम्बराः ।

नार्मदा नर्मनिर्मातृ ननृतुर्जहसुर्जगुः

॥३२॥

प्रक्वणत्किंकिणीजालं शक्तिवर्षमुपागतम् ।

साल्वबाणानिलोद्भूतमगमत्पृषदाकृति

॥३३॥

शैव्यास्तु खण्डिताः कौन्तैर्भ्रमत्कुन्तैर्विघट्टिताः ।

शवीभूता दिवं नीता दृष्टा विद्याधरा इव

॥३४॥

धराधरणधर्मिण्या धीरया हीनसेनया ।

लुण्ठिताः पाण्डुनगराश्चलनोल्लासमात्रतः

॥३५॥

त देहकाः पाञ्चनदैर्दलिता मत्तकाशिभिः ।

कुन्तदन्तद्रुमोद्दामा नगा इव मतङ्गजैः

॥३६॥

ब्रह्मावत्सनका नीपैश्चक्रैः कृत्ता गता महीम् ।

सहयाः क्रकचोन्कृत्ता वृक्षाः कुसुमिता इव

॥३७॥

श्वेतकाकाननं लूनं कुठारैर्जठरेरितैः ।

एतद्ददाह पार्श्वस्थो भद्रेशः शरवह्निना

॥३८॥

काष्ठयोधे निरालानं मग्ना जीर्णा मतङ्गजाः ।

लयमाजग्मुरायुद्धमिद्धेग्नाविन्धनं यथा

॥३९॥

मित्रगर्तास्त्रिगर्तात्ता भ्रमित्वोर्ध्वं तृणोपमम् ।

विविशुर्व्यस्तमूर्धानः पातालान्तं पलायितुम्

॥४०॥

मन्दानिलचलाम्भोधिभासुरे मागधे बले ।

निर्मग्ना वनिला मन्दाः पङ्के जीर्णगजा इव

॥४१॥

चेदयश्चेतनां जह्रुस्तङ्गणानां रणाङ्गणे ।

पुष्पाणां पथि शीर्णानां सौकुमार्यमिवातपाः

॥४२॥

कौसलाः पौरवारावमसहन्तोऽन्तका इव ।

तैरुन्मुक्तगदाप्रासशरशक्त्यतिवृष्टयः

॥४३॥

बभूवुर्भल्लकृत्ताङ्गाऽविस्मया विद्रुमद्रुमाः ।

इवाद्रौ विद्रवन्त्यार्द्रसान्द्रासृक्सूर्यमूर्तयः

॥४४॥

नाराचौघमहाहेतिमारुताधूतमूर्तयः ।

बभ्रमुर्भ्रमरानीकभासुरा जलदा इव

॥४५॥

शरधाराधरा मेघाः शरोर्णापूर्णमेषकाः ।

शरपत्रावृता वृक्षा भ्रमुस्तद्गर्जनागजाः

॥४६॥

वनराज्यजराजीर्णाः कन्दाकस्थलजन्तवः ।

अत्रुटन्परमाकृष्टाः पेलवा इव तन्तवः

॥४७॥

रथेषु ध्वस्तचक्रेषु निखातेऽमुत्र मूर्धसु ।

निपेतुर्जनसंघाता मेघा इव वनाद्रिषु

॥४८॥

शालतालवनं प्राप्य जनतावलनं वनम् ।

भुजावकर्तनं चासीदुत्तालं स्थाणुकाननम्

॥४९॥

ननर्दुर्नन्दनोद्यानसुन्दर्यो मत्तयौवनाः ।

वनोपवनदेशेषु मेरोर्वीरवराश्रिताः

॥५०॥

तावत्तारारवं रेजे सैन्यकाननमुत्तमम् ।

यावन्न परपक्षेण प्राप्तं कल्पानलार्चिषा

॥५१॥

छिन्नाः पिशाचसंयुक्ता भूतापहृतहेतयः ।

पातयित्वा ययुः कर्णान्दशार्णास्तर्णका इव

॥५२॥

जहुर्भग्नेश्वराः कान्ति तां जिगीषवनौजसा ।

कासयः कमलानीव शुष्कस्रोतस्विनौजसा

॥५३॥

तुषाका मेसलैः कीर्णाः शरशक्त्यसिमुद्गरैः ।

विद्रुता नरकैः क्षिप्ताः कटकच्छलना अपि

॥५४॥

कौन्तक्षेत्राः प्रस्थवासैः स्थित्वा योधिभिरावृताः ।

गुणा इव खलाक्रान्ता गता व्यक्तमशक्तताम्

॥५५॥

द्विपयो बाहुधानानां क्षणेनादाय मस्तकम्।

भल्लैः पलाय्याशु गता विलूनकमला इव

॥५६॥

मिथः सारस्वता नीत्वा आदिनान्तं कृताजयः ।

पण्डिता इव वादेषु नोद्विग्ना न पराजिताः

॥५७॥

खर्वगाः खदिताः क्षुद्रा यातुधानैः परावृताः ।

तेजः परममाजग्मुः शान्ताग्नय इवेन्धनैः

॥५८॥

कियदाख्यायत एत-

ज्जिह्वानिचयैः किलालमाकुलितः ।

वासुकिरपि वर्णयितुं

न समर्थो रणवरं राम

॥५९॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे मो० लीलो० जनपदवर्णनं नाम सप्तत्रिंशः सर्गः ।।३७।।