मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः ४६

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 46

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

एवं संकथयन्तीषु तासु तस्मिन्गृहोदरे ।

विदूरथः किमकरोन्निर्गत्य कुपितो गृहात्

॥१॥

श्रीवसिष्ठ उवाच ।

विदूरथः स्वसदनान्निर्गतः परिवारितः ।

परिवारेण महता ऋक्षौघेणेव चन्द्रमाः

॥२॥

सन्नद्धसर्वावयवो लग्नहारविभूषणः ।

महाजयजयारावैः सुरेन्द्र इव निर्गतः

॥३॥

समादिशन्योधगणं शृण्वन्मण्डलसंस्थितिम् ।

आलोकयन्वीरगणानारुरोह नृपो रथम्

॥४॥

कूटाकारसमाकारं मुक्तामाणिक्यमण्डितम् ।

पताकापञ्चभिर्व्याप्तं द्युविमानमिवोत्तमम् ।। ऽ

चक्रभित्तिपरिप्रोतप्रकचत्काञ्चनाङ्कुरम् ।

मुक्ताजालरणत्कारचारुविक्रमकूबरम्

॥६॥

सुग्रीवैर्लक्षणोपेतैः प्रशस्तैः प्रचलैः कृशैः ।

जवोड्डयनवेगेन प्रवहद्भिः सुरानिव

॥७॥

वायुं जवेन सहसा असहद्भिर्गतिक्रमैः ।

प्रोह्यद्भिरिव पश्चार्धमापिबद्भिरिवाम्बरम्

॥८॥

योजितैरिव संपूर्णैश्चन्द्रैश्चामरदीप्तिभिः ।

अश्वैरष्टभिराबद्धमाशापूरकहेषितैः

॥९॥

अथोदपतदुद्दामनागाभ्ररवनिर्भरः ।

शैलभित्तिप्रतिध्वानदारुणो दुन्दुभिध्वनिः

॥१०॥

मत्तसैनिकनिर्मुक्तैर्व्याप्तं कलकलारवैः ।

किंकिणीजालनिर्ध्वानैर्हेतिसंघट्टघट्टितैः

॥११॥

धनुश्चटचटाशब्दैः शरसीत्कारगायनैः ।

परस्पराङ्गनिष्पिष्टकवचौघझणज्झणैः

॥१२॥

ज्वलदग्निटणत्कारैरार्तिमत्क्रन्दनारवैः ।

परस्परभटाह्वानैर्बन्दिविक्षुब्धरोदनैः

॥१३॥

शिलाघनीकृताशेषब्रह्माण्डकुहरो ध्वनिः ।

हस्तग्राह्योऽभवद्भीमो दशाशाकुञ्जपूरकः

॥१४॥

अथोदपतदादित्यपथपीवररोधकम् ।

रजोनिभेन भूपीठमम्बरोड्डयनोन्मुखम्

॥१५॥

गर्भवासमिवापन्नं तेनासीत्तन्महापुरम् ।

मूढत्वं यौवनेनेव घनतामाययौ तमः

॥१६॥

प्रययुः क्वापि दीपौघा दिवसेनेव तारकाः ।

आययुर्बलमालोला नैशभूतपरम्पराः

॥१७॥

ददृशुस्तन्महायुद्धं द्वे लीले सा कुमारिका ।

प्रस्फुटद्धृदयेनेव देवीदत्तमहादृशौ

॥१८॥

प्रशेमुरथ हेतीषु प्रोद्यत्कटकटारवाः ।

एकार्णवपयःपूरैर्वालवा इव वह्नयः

॥१९॥

शनैः सेनां समाकर्षन्नाज्ञायत बलान्तरम् ।

विवेशपक्षप्रोड्डीनो मेरुरेकमिवार्णवम्

॥२०॥

अथोदभूद्गुणध्वानं चटच्चटदिति स्फुटम् ।

रचितांशुमयाम्भोदाश्चेरुः परपरम्पराः

॥२१॥

ययुरम्बरमाश्रित्य नानाहेतिविहंगमाः ।

प्रसस्रुरलमात्तासुमलिनाः शस्त्रदीप्तयः

॥२२॥

जज्वलुः शस्त्रसंघट्टज्वलना उल्मुकाग्निवत् ।

जगर्जुः शरधारौघान्वर्षन्तो वीरवारिदाः

॥२३॥

विविशुः क्रकचक्रूरा वीराङ्गेषु च हेतयः ।

पेतुः पटपटारावं हेतिनिष्पिष्टयोऽम्बरे

॥२४॥

जग्मुः शमं तमांस्याशु शस्त्रकानलदीपकैः ।

बभूवुरखिला सेना नवनाराचरोमशाः

॥२५॥

उत्तस्थुर्यमयात्रायां कबन्धनटपङ्क्तयः ।

जगुरुच्चै रणोद्रेकं पिशाच्यो रणदारिकाः

॥२६॥

उदगुर्दन्तसंघट्टटंकारा दन्तिनां बलात् ।

ऊहुः क्षपणपाषाणमहानद्यो नभस्तले

॥२७॥

पेतुः शवा निवातास्तसंशुष्कवनपर्णवत् ।

निर्ययुर्लोहिता नद्यो रणाद्रेर्मृतिवर्षिणः

॥२८॥

प्रशेमुः पांसवो रक्तैस्तमांस्यायुधवह्निभिः ।

युद्धैकध्यानतः शब्दा भयानि मृतिनिश्चयैः

॥२९॥

अभवत्केवलं युद्धमपशब्दमसंभ्रमम् ।

अनाकुलाम्बुवाहाभं खड्गवीचिसटांकृतम्

॥३०॥

खदखदरवसंवहच्छरोघं

टकटकितारवसंपतद्भुशुण्डि ।

झणझणरवसंमिलन्महास्त्रं

तिमितिमिवद्रणमास दुस्तरं तत्

॥३१॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने विदूरथनिर्याणं नाम षट्चत्वारिंशः सर्गः ।। ४६ ।।