मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः ७८

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 78

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

अथ सा राक्षसी रक्षःकुलकाननमञ्जरी ।

तमस्येवाभ्रलेखेव गम्भीरं विननाद ह

॥१॥

नादान्ते समुवाचेदं हुंकारापरुषं वचः ।

गर्जितानन्तरं जातकरकाशनिशब्दवत्

॥२॥

भो भो घोराटवीव्योमपदवीशशिभास्करौ ।

महामायातमःपीठशिलाकोटरकीटकौ

॥३॥

कौ भवन्तौ महाबुद्धी दुर्बुद्धी वा समागतौ ।

मद्ग्रासपदमापन्नौ क्षणान्मरणकोचितौ

॥४॥

राजोवाच ।

भो भो भूतक किं स्यास्त्वं क्व तिष्ठसि च देहकम् ।

दर्शयास्यास्तव गिरः को बिभेत्यलिनीध्वनेः

॥५॥

सिंहवत्सर्ववेगेन पतन्त्यर्थे किलार्थिनः ।

त्यज संरम्भमारम्भं स्वसामर्थ्य प्रदर्शय

॥६॥

किं प्रार्थयसि मे ब्रूहि ददामि तव सुव्रत ।

किं वा संरम्भशब्दाभ्यां भीषयास्मान्बिभेषि किम्

॥७॥

क्षिप्रमाकारशब्दाभ्यां मायया सन्मुखीभव ।

न किंचिद्दीर्घसूत्राणां सिद्ध्यत्यात्मक्षयादृते

॥८॥

राज्ञेत्युक्ते रम्यमुक्तमिति संचिन्त्य सा तयोः ।

प्रकाशायाप्य धैर्याय ननाद च जहास च

॥९॥

ततो ददृशतुस्तां तौ शब्दपूरितदिग्गणाम् ।

साट्टहासप्रभापिण्डपूरप्रकटिताकृतिम्

॥१०॥

कल्पाभ्राशनिकाषेण घृष्टामद्रितटीमिव ।

स्वनेत्रविद्युद्वलयबलाकोज्ज्वलिताम्बराम्

॥११॥

तिमिरैकार्णवौर्वाग्निज्वालाविवलनामिव ।

गर्जद्धनघटाटोपपीवरासितकन्धराम्

॥१२॥

रणद्दशनसरम्भहाहाहतनिशाचराम् ।

रोदसीकज्जलस्तम्भां लीलयोल्लसितां पुनः

॥१३॥

ऊर्ध्वकेशीं शिरालाङ्गीं कपिलाक्षीं तमोमयीम् ।

यक्षरक्षःपिशाचानामप्यनर्थभयप्रदाम्

॥१४॥

देहरन्ध्रविशच्छ्वासवातभांकारभीषणाम् ।

मुसलोलूखलालातहलशूर्पकशेखराम्

॥१५॥

स्फुरन्तीमिव कल्पान्ते वैदूर्यशिखरस्थलीम् ।

हासघट्टितविश्वेशां कालरात्रिमिवोदिताम्

॥१६॥

शरद्व्योमाटवीं साभ्रां कृतदेहामिवागताम् ।

शरीरिणीं महाभ्राढ्यां यामिनीमिव मांसलाम्

॥१७॥

शरीरसंनिवेशेन पङ्कपीठमिवोत्थिताम् ।

तनुं चन्द्रार्कयुद्धाय तमसेव समाश्रिताम्

॥१८॥

इन्द्रनीलमहाशुभ्रलम्बाभ्रयुगलोपमौ ।

उलूखलादिहारौघौ दधानामसितौ स्तनौ

॥१९॥

लग्नामङ्गारकाष्ठेन समानां च महातनुम् ।

द्रुमाभास्पन्दसशिरलसद्भुजलतातनुम्

॥२०॥

तामवेक्ष्य महावीरौ तथैवाक्षुभितौ स्थितौ ।

न तदस्ति विमोहाय यद्विविक्तस्य चेतसः

॥२१॥

मन्त्र्युवाच ।

महाराक्षसि संरम्भो महात्मा किमयं तव ।

लघवो ह्यथवा कार्ये लघावप्यतिसंभ्रमाः

॥२२॥

त्यज संरम्भमारम्भो नायं तव विराजते ।

विषये हि प्रवर्तन्ते धीमन्तः स्वार्थसाधकाः

॥२३॥

त्वादृशानां सहस्राणि मशकानामिवाबले ।

अस्माकं धीरतावात्याव्यूढानि तृणपर्णवत्

॥२४॥

संरम्भद्वारमुत्सृज्य समतास्वच्छया धिया ।

युक्ता च व्यवहारिण्या स्वार्थः प्राज्ञेन साध्यते

॥२५॥

स्वेनेव व्यवहारेण कार्यं सिद्ध्यतु वा न वा ।

महानियतिरित्येव भ्रमस्यावसरो हि कः

॥२६॥

कथयाभिमतं किं ते किमर्थयसि चार्थिनी ।

अर्थी स्वप्नेऽपि नास्माकमप्राप्तार्थः पुरो गतः

॥२७॥

इत्युक्ता सा तदा तेन चिन्तयामास राक्षसी ।

अहो नु विमलाचारं सत्त्वं पुरुषसिंहयोः

॥२८॥

न सामान्याविमौ मन्ये विचित्रेयं चमत्कृतिः ।

वचोवक्रेक्षणेनैव वदत्यन्तर्विनिश्चयम्

॥२९॥

वचोवक्रेक्षणद्वारैर्धीमतामाशया मिथः ।

एकीभवन्ति सरितां पयांसि वलनैरिव

॥३०॥

आभ्यां प्रायः परिज्ञातो मम भावोऽनयोर्मया ।

न विनाश्यौ मया चेमौ स्वयमेवाविनाशिनौ

॥३१॥

मन्ये भवेतामात्मज्ञौ नात्मज्ञानादृते मतिः ।

प्रमृष्टसदसद्भावाद्भवत्यस्तभया मृतौ

॥३२॥

तदेतौ परिपृच्छामि किंचित्संदेहमुत्थितम् ।

प्राज्ञं प्राप्य न पृच्छन्ति ये केचित्ते नराधमाः

॥३३॥

इति संचिन्त्य पृच्छायै तन्वानावसरं ततः ।

अकालकल्पाभ्ररवं हासं संयम्य साब्रवीत्

॥३४॥

कौ भवन्तौ नरौ धीरौ कथ्यतामिति मेऽनघौ ।

जायते दर्शनादेव मैत्री विशदचेतसाम्

॥३५॥

मन्त्र्युवाच ।

अयं राजा किरातानामस्याहं मन्त्रितां गतः ।

उद्यतौ रात्रिचर्येण त्वादृग्जनविनिग्रहे

॥३६॥

राज्ञो रात्रिंदिवं धर्मो दुष्टभूतविनिग्रहः ।

स्वधर्मत्यागिनो ये तु ते विनाशानलेन्धनम्

॥३७॥

राक्षस्युवाच ।

राजंस्त्वमसि दुर्मन्त्री दुर्मन्त्री न नृपो भवेत् ।

सद्रूपस्य भवेन्मन्त्री राजा सन्मन्त्रिणो भवेत्

॥३८॥

राजा चादौ विवेकेन योजनीयः सुमन्त्रिणा ।

तेनार्यतामुपायाति यथा राजा तथा प्रजाः

॥३९॥

समस्तगुणजालानामध्यात्मज्ञानमुत्तमम् ।

तद्विद्राजा भवेद्राजा तद्विन्मन्त्री च मन्त्रवित्

॥४०॥

प्रभुत्वं समदृष्टित्वं तच्च स्याद्राजविद्यया ।

तामेव यो न जानाति नासौ मन्त्री न सोऽधिपः

॥४१॥

भवन्तौ तद्विदौ साधू यदि तच्छ्रेय आप्नुथः ।

नो चेदनर्थदौ स्वस्याः प्रकृतेरद्म्यहं युवाम्

॥४२॥

एकोपायेन मत्पार्श्वाद्वालकावुत्तरिष्यथः ।

मत्प्रश्नपञ्जरं सारं चेद्विचारयथो धिया

॥४३॥

प्रश्नानिमान्कथय पार्थिव वा च मन्त्रिंस्तत्रार्थिनी भृशमहं परिपूरयार्थम् ।

अङ्गीकृतार्थमददत्क इवास्ति लोके दोषेण संक्षयकरेण न युज्यते यः

॥४४॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे क० राक्षसीवर्णनं नामाष्टस्रप्ततितमः सर्गः ।। ७८ ।।