मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — मुमुक्षुव्यवहारप्रकरणम् — सर्गः १०

3
योगवासिष्ठम् · मुमुक्षुव्यवहारप्रकरणम् · 10

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

यथास्थितं ब्रह्मतत्त्वं सत्तानियतिरुच्यते ।

सा विनेतुर्विनेतृत्वं सा विनेयविनेयता

॥१॥

अतः पौरुषमाश्रित्य श्रेयसे नित्यबान्धवम् ।

एकाग्रं कुरु तच्चित्तं शृणु चोक्तमिदं मम

॥२॥

अवान्तरनिपातीनि स्वारूढानि मनोरथम् ।

पौरुषेणेन्द्रियाण्याशु संयम्य समतां नय

॥३॥

इहामुत्र च सिद्ध्यर्थं पुरुषार्थफलप्रदाम् ।

मोक्षोपायमयीं वक्ष्ये संहितां सारनिर्मिताम्

॥४॥

अपुनर्ग्रहणायान्तस्त्यक्त्वा संसारवासनाम् ।

संपूर्णौ शमसंतोषावादायोदारया धिया

॥५॥

सपूर्वापरवाक्यार्थविचारविषयाहतम् ।

मनः समरसं कृत्वा सानुसंऽधानमात्मनि

॥६॥

सुखदुःखक्षयकरं महानन्देककारणम् ।

मोक्षोपायमिमं राम वक्ष्यमाणं मया शृणु

॥७॥

इमां मोक्षकथां श्रुत्वा सह सर्वैर्विवेकिभिः ।

परं यास्यसि निर्दुःखं नाशो यत्र न विद्यते

॥८॥

इदमुक्तं पुराकल्पे ब्रह्मणा परमेष्ठिना ।

सर्वदुःखक्षयकरं परमाश्वासनं श्रियः

॥९॥

श्रीराम उवाच ।

केनोक्तं कारणेनेदं ब्रह्मन्पूर्व स्वयंभुवा ।

कथं च भवता प्राप्तमेतत्कथय मे प्रभो

॥१०॥

श्रीवसिष्ठ उवाच ।

अस्त्यनन्तविलासात्मा सर्वगः सर्वसंश्रयः ।

चिदाकाशोऽविनाशात्मा प्रदीपः सर्वजन्तुषु

॥११॥

स्पन्दास्पन्दसमाकारात्ततो विष्णुरजायत ।

स्यन्दमानरसापूरात्तरङ्गः सागरादिव

॥१२॥

सुमेरुकर्णिकात्तस्य दिग्दलाद्धृदयाम्बुजात् ।

तारकाकेसरवतः परमेष्ठी व्यजायत

॥१३॥

वेदवेदार्थविद्देवमुनिमूण्डलमण्डितः ।

सोऽसृजत्सकल सग विकल्पौघं यथा मनः

॥१४॥

जम्बूद्वूपिस्य कोणेऽखिरवर्षे भारतनामनि ।

ससज जनसर्गौधं ह्याधिव्याधिपरिप्लुतम्

॥१५॥

भावाभावविषण्णाङ्गमुत्पातध्वसतत्परम् ।

सर्गेऽस्मिन्भूतजातीना नानाव्यसनसकुलम्

॥१६॥

जनस्यैतस्य दुःखं तद्दृष्ट्वा सकललोककृत् ।

जगाम करुणामीशः पुत्रदुःखात्पिता यथा

॥१७॥

क एतेषां हताशानां दुःखस्यान्तो हतायुषाम् ।

स्यादिति क्षणमेकाग्रं चिन्तयामास भूतये

॥१८॥

इति संचिन्त्य भगवान्ससर्ज स्वयमीश्वरः ।

तपो धर्म च दानं च सत्यं तीर्थानि चैव हि

॥१९॥

एतत्सृष्ट्वा पुनदवाश्चन्तयामास भूतकृत् ।

पुंसां नानेन सर्गस्य दुःखस्यान्त इति स्वयम्

॥२०॥

निर्वाणं नाम परमं सुखं येन पुनर्जनः ।

न जायते न म्रियते तज्ज्ञानादेव लभ्यते

॥२१॥

संसारोत्तरणे जन्तोरुपायो ज्ञानमेव हि ।

तपो दानं तथा तीर्थमनुपायाः प्रकीर्तिताः

॥२२॥

तत्तावदुःखमोक्षार्थ जनस्यास्य हतात्मनः ।

प्रत्यग्रं तरणोपायमाशु प्रकटयाम्यहम्

॥२३॥

इति संचिन्त्य भगवान्ब्रह्मा कमलसंस्थितः ।

मनसा परिसंकल्प्य मामुत्पादितवानिमम्

॥२४॥

कुतोऽप्युत्पन्न एवाशु ततोऽहं समुपस्थितः ।

पितुस्तस्य पुनः शीघ्रमूर्मिरूर्मेरिवानघ

॥२५॥

कमण्डलुधरो नाथः सकमण्डलुना मया ।

साक्षमालः साक्षमालं स प्रणम्याभिवादितः

॥२६॥

एहि पुत्रेति मामुक्त्वा स स्वाब्जस्योत्तरे दले ।

शुक्लाश्च इव शीतांशु योजयामास पाणिना

॥२७॥

मृगकृत्तिपरीधानो मृगकृत्तिनिजाम्बरम् ।

मामुवाच पिता ब्रह्मा सुहंसः सारसं यथा

॥२८॥

मुहूर्तमात्रं ते पुत्र चेतो वानरचञ्चलम् ।

अज्ञानमभ्यास्रशतु शशः शशधरं यथा

॥२९॥

इति तेनाशु शप्तः सन्विचारसमनन्तरम् ।

अहं विस्मृतवान्सर्वे स्वरूपममलं किल

॥३०॥

अथाहं दीनता यातः स्थितोऽसंबुद्धया धिया ।

दुःखशोकाभिसंतप्तो जातो जन इवाधनः

॥३१॥

कष्टं संसारनामायं दोषः कथमिहागतः ।

इति चिन्तितवानन्तस्तूष्णीमेव व्यवस्थितः

॥३२॥

अथाभ्यधात्स मां तातः पुत्र किं दुःखवानसि ।

दुःखोपघातं मां पृच्छ सुखी नित्यं भविष्यसि

॥३३॥

ततः पृष्टः स भगवान्मया सकललोककृत् ।

हेमपद्मदलस्थेन संसारव्याधिभेषजम्

॥३४॥

कथं नाथ महादुःखमयः संसार आगतः ।

कथं च क्षीयते जन्तोरिति पृष्टेन तेन मे

॥३५॥

तज्ज्ञानं सुबहु प्रोक्तं यज्ज्ञात्वा पावनं परम् ।

अहं पितुरभिप्रायः किलाधिक इव स्थितः

॥३६॥

ततो विदितवेद्यं मां निजां प्रकृतिमास्थितम् ।

स उवाच जगत्कर्ता वक्ता सकलकारणम्

॥३७॥

शापेनाज्ञपदं नीत्वा पृच्छकस्त्वं मया कृतः ।

पुत्रास्य ज्ञानसारस्य समस्तजनसिद्धये

॥३८॥

इदानीं शान्तशापस्त्वं परं बोधमुपागतः ।

संस्थितोऽहमिवैकान्माऽकनक कनकादिवत्

॥३९॥

गच्छेदानीं महीपृष्ठे जम्बूद्वीपान्तरस्थितम् ।

साधो भरतवर्ष त्वं लोकानुग्रहहेतुना

॥४०॥

तत्र क्रियाकाण्डपरास्त्वया पुत्र महाधिया ।

उपदेश्वाः क्रियाकाण्डक्रमेण क्रमशालिना

॥४१॥

विरर्क्ताचेत्ताश्च तथा महाप्राज्ञा विचारिणः ।

उपदेश्यास्त्वया साधो ज्ञानेनानन्ददायिना

॥४२॥

इति तेन नियुक्तोऽहं पित्रा कमलयोनिना ।

इह राघव तिष्ठामि यावद्भूतपरम्परा

॥४३॥

कर्तव्यमस्ति न ममेह हि किंचिदेव

स्थातव्यमित्यतिमना भुवि संस्थितोऽस्मि ।

संशान्तया सततसुप्तधियेह वृत्या

कार्य करोमि न च किंचिदहं करोमि

॥४४॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे ज्ञानावतरणं नाम दशमः सर्गः ।। १० ।।