मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — मुमुक्षुव्यवहारप्रकरणम् — सर्गः २०

3
योगवासिष्ठम् · मुमुक्षुव्यवहारप्रकरणम् · 20

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

आर्यसंगमयुक्त्यादौ प्रज्ञां वृद्धिं नयेद्बलात् ।

ततो महापुरुषतां महापुरुषलक्षणैः

॥१॥

यो यो येन गुणेनेह पुरुषः प्रविराजते ।

शिष्यते तं तमेवाशु तस्माद्बुद्धिं विवर्धयेत्

॥२॥

महापुरुषता ह्येषा शमादिगुणशालिनी ।

सम्यग्ज्ञानं विना राम सिद्धिमेति न कांचन

॥३॥

ज्ञानाच्छमादयो यान्ति वृद्धिं सत्पुरुषक्रमाः ।

श्लाघनीयाः फलेनान्तर्वृष्टेरिव नवाङ्कुराः

॥४॥

शमादिभ्यो गुणेभ्यश्च वर्धते ज्ञानमुत्तमम् ।

अन्नात्मकेभ्यो यज्ञेभ्यः शालिवृष्टिरिवोत्तमा

॥५॥

गुणाः शमादयो ज्ञानाच्छमादिभ्यस्तथा ज्ञता ।

परस्परं विवर्धन्ते ते अब्जसरसी इव

॥६॥

ज्ञानं सत्पुरुषाचाराज्ज्ञानात्सत्पुरुषक्रमः ।

परस्परं गतौ वृद्धिं ज्ञानसत्पुरुषक्रमौ

॥७॥

शमप्रज्ञादिनिपुणपुरुषार्थक्रमेण च ।

अभ्यसेत्पुरुषो धीमाञ्ज्ञानसत्पुरुषक्रमौ

॥८॥

न यावत्सममभ्यस्तौ ज्ञानसत्पुरुषक्रमौ ।

एकोऽपि नैतयोस्तात पुरुषस्येह सिध्यति

॥९॥

यथा कलमरक्षिण्या गीत्या वितततालया ।

खगोत्सादेन सहितं गीतानन्दः प्रसाध्यते

॥१०॥

ज्ञानसत्पुरुषेहाभ्यामकर्त्रा कर्तृरूपिणा ।

तथा पुंसा निरिच्छेन सममासाद्यते पदम्

॥११॥

सदाचारक्रमः प्रोक्तो मयैवं रघुनन्दन ।

तथोपदिश्यते सम्यगेवं ज्ञानक्रमोऽधुना

॥१२॥

इदं यशस्यमायुष्यं पुरुषार्थफलप्रदम् ।

तज्ज्ञादाप्ताच्च सच्छास्त्रं श्रोतव्यं किल धीमता

॥१३॥

श्रुत्वा त्वं बुद्धिनैर्मल्याद्बलाद्यास्यसि तत्पदम् ।

यथा कतकसंश्लेषात्प्रसादं कलुषं पयः

॥१४॥

विदितवेद्यमिदं हि मनो मुने-

र्विवशमेव हि याति परं पदम् ।

यदवबुद्धमखण्डितमुत्तमं

तदवबोधवशान्न जहाति हि

॥१५॥

इत्यार्षे श्रीवासिष्ठमहारामायणे द्वात्रिंशत्साहस्रयां संहितायां वाल्मीकीये मोक्षोपाये मुमुक्षुव्यवहारप्रकरणे सदाचारनिरूपणं नाम विंशतितमः सर्गः ।। २० ।।