मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः ११८

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 118

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

अष्टादशाधिकशततमः सर्ग

॥११८॥

मनुरुवाच ।

संकल्पोन्मुखतां याताः सत्यश्चिन्मात्रसंविदः ।

आपस्तरङ्गत्वमिव यान्ति भूमिप जीवताम्

॥१॥

ते जीवाः संसरन्तीह संसारे पूर्वमुत्थिते ।

सुखदुःखदशामोहो मनस्येवास्ति नात्मनि

॥२॥

अदृश्यो दृश्यते राहुर्गृहीतेन यथेन्दुना ।

तथानुभवमात्रात्मा दृश्येनात्मावलोक्यते

॥३॥

न शास्त्रैर्नापि गुरुणा दृश्यते परमेश्वरः ।

दृश्यते स्वात्मनैवात्मा स्वया सत्त्वस्थया धिया

॥४॥

पथिकाः पथि दृश्यन्ते रागद्वेषविमुक्तया ।

यथा धिया तथवते द्रष्टव्याः स्वेन्द्रियादयः

॥५॥

एतेषु नादरः कार्यः सता नैवावधीरणम् ।

पदार्थमात्रताविष्टास्तिष्ठन्त्वेते यथासुखम्

॥६॥

पदार्थमात्रं देहादि धिया संत्यज्य दूरतः ।

आशीतलान्तःकरणो नित्यमात्ममयो भव

॥७॥

देहोऽहमिति या बुद्धिः सा संसारनिबन्धनी ।

न कदाचिदियं बुद्धिरादेया हि मुमुक्षुभिः

॥८॥

नकिंचिन्मात्रचिन्मात्ररूपोऽस्मि गगनादणुः ।

इति या शाश्वती बुद्धिः सा न संसारबन्धनी

॥९॥

यथा विमलतोयानां बहिरन्तश्च भावनम् ।

तेजस्तिष्ठति सर्वत्र तथात्मा सर्ववस्तुषु

॥१०॥

संनिवेशांशवैचित्र्यं यथा हेम्नोऽङ्गदादिता ।

आत्मनस्तदतद्रूपा तथैव जगदादिता

॥११॥

विनाशवाडवाक्रान्तं भीमं काममहार्णवम् ।

जगज्जालतरङ्गिण्यो यान्ति भूततरङ्गिकाः

॥१२॥

तथाप्यद्याप्यपूर्णस्य यः पाता कालवारिधेः ।

तमात्मानं महागस्त्यं राजन्भावय सर्वदा

॥१३॥

अनात्मन्यात्मतामस्मिन्देहादौ दृश्यजालके ।

त्यक्त्वा सत्त्वमुपारूढो गूढस्तिष्ठ यथासुखम्

॥१४॥

कुचकोटरसंसुप्तं विस्मृत्य जननी सुतम् ।

यथा रोदिति पुत्रार्थं तथात्मार्थमयं जनः

॥१५॥

अजरामरमात्मानमबुद्ध्वा परिरोदिति ।

हा हतोऽहमनाथोऽहं नष्टोऽस्मीति वपुर्व्यये

॥१६॥

यथा वारि परिस्पन्दान्नानाकारं विलोक्यते ।

तथा संकल्पवशतश्चिद्ब्रह्म परिबृंहति

॥१७॥

संस्थाप्य संकल्पकलङ्कमुक्तं

चित्तं त्वमात्मन्युपशान्तकल्पः ।

स्पन्देऽप्यसंस्पन्दमिवेह तिष्ठ

स्वस्थः सुखी राज्यमिदं प्रशाधि

॥१८॥

इत्यार्षे श्रीवा०रामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० इक्ष्वाकुमनुसंवादेऽष्टादशाधिकशततमः सर्गः ।। ११८ ।।