मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः १२

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 12

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

इति निश्चयवन्तस्ते महान्तो विगतैनसः ।

सत्याः सत्ये पदे शान्ते समे सुखमवस्थिताः

॥१॥

इति पूर्णधियो धीराः समनीरागचेतसः ।

न निन्दन्ति न नन्दन्ति जीवितं मरणं तथा

॥२॥

इत्यलक्ष्यचमत्कारा नारायणभुजा इव ।

ऋजवः स्खलिताकारा अपरा इव मेरवः

॥३॥

रेमिरे वनखण्डेषु द्वीपेषु नगरेषु च ।

देवोपवनमालासु स्वर्गेषु च सुरा इव

॥४॥

भ्रेमुः कुसुमपूर्णासु दोलान्दोलचलासु च ।

विचित्रवनलेखासु मेरुश्रृङ्गशिखासु च

॥५॥

चक्रुर्विजितशत्रूणि चामरच्छत्रवन्ति च ।

विचित्रार्थानि राज्यानि चित्राचारमयानि च

॥६॥

अनुजग्मुरिमान्सर्वान्नानाचारविचेष्टितान् ।

श्रुतिस्मृत्युदितारम्भामितिकर्तव्यतामिति

॥७॥

ईदृशीरमणीयेषु ललनाहास्यहारिषु ।

विहाराहाररम्येषु भोगाभोगेषु भूषिताः

॥८॥

विविशुश्चारुचूतासु मन्दारवलितासु च ।

अप्सरोगीतपूर्णासु नन्दनोद्यानभूमिषु

॥९॥

सचराचरभूतेषु विश्रान्ताखिलजन्तुषु ।

यज्ञक्रियाकलापेषु गार्हस्थ्येषु यथाक्रमम्

॥१०॥

तेरुर्हतगजेन्द्रासु भ्रान्तभूरिशिवासु च ।

भेरीभांकारभीमासु संग्रामार्णववीथिषु

॥११॥

तस्थुः परुषचित्तासु हृतवित्तोद्धतासु च ।

संरम्भक्षोभरौद्रीषु सर्वासु द्वन्द्वरीतिषु

॥१२॥

मनस्तेषां तु नीरागमनुपाधि गतभ्रमम् ।

असक्तं मुक्तमाशान्तं परं सत्वपदं गतम्

॥१३॥

न ममज्जुः क्वचिदपि संकटेषु महत्स्वपि ।

महदप्युपयातेषु कुलशलाः सरस्स्विव

॥१४॥

नोल्ललास विलासिन्या श्रिया परमकान्तया ।

परिपूर्णेन्दुलक्ष्म्येव जलराशी रघूद्वह

॥१५॥

न मम्लौ दुःखशोकेन ग्रीष्मेणेव वनस्थलम् ।

जहर्ष च न भोगौघैरवश्यायैरिवौषधीः

॥१६॥

ते हि केवलमव्यग्राः कुर्वन्तः काममञ्जरीः ।

इष्टानिष्टफलं राम नाभिलेषुर्न तत्यजुः

॥१७॥

नोदगुः कार्यसंपत्तावाक्रान्ता नास्तमाययुः ।

जहृषुर्न सुखप्राप्तौ मम्लुर्नैव च संकटे

॥१८॥

मुमुहुर्न विमोहेषु न ममज्जुर्विपत्क्रमैः ।

न जहर्षुः शुभैः शोकै रुरुदुर्न भवानिव

॥१९॥

प्राकृताचारसंप्राप्ते कुर्वन्तः कर्म केवलम् ।

स्थिता विगतसंरम्भमपरा इव मेरवः

॥२०॥

तां त्वं दृष्टिमवष्टभ्य राघवाऽघविनाशिनीम् ।

अनहंकृत्यहंकारो विहरस्व यथाक्रमम्

॥२१॥

यथाभूतामिमामेव पश्यत्सर्गपरम्पराम् ।

मेरुस्थितोऽब्धिगम्भीरः सममास्स्व गतभ्रमः

॥२२॥

चिन्मात्रं सर्वमेवेदमित्थमाभासतां गतम् ।

नेह सत्यमसत्यं वा क्वचिदस्ति न किंचन

॥२३॥

महत्तामलमालम्ब्य त्यक्त्वेदमवहेलया ।

असक्तबुद्धिः सर्वत्र भव भव्य भवक्षयी

॥२४॥

किं रोदिषि घनोद्वेगं मूढवच्चानुशोचसि ।

भ्रमस्युद्भान्तचित्तश्च सौम्यावर्ते तृणं यथा

॥२५॥

श्रीराम उवाच ।।

अहो न भगवन्नूनं सम्यग्जातमलक्षयः ।

त्वत्प्रसादात्प्रबुद्धोऽस्मि सूर्यसङ्गादिवाम्बुजम्

॥२६॥

भ्रान्तिरस्तं गता नूनं मिहिका शरदीव मे ।

संशान्ताखिलसंदेहः करिष्ये वचनं तव

॥२७॥

व्यपगतमदमोहो मानमात्सर्यमुक्त

श्चिरतरमुदितात्मा शान्तशोकश्चिरेण ।

पुनरसुखमगच्छन्स्वच्छयैकान्तबुद्ध्या

यदिह वदसि साधो तत्करिष्येऽविशङ्कं

॥२८॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पूर्वार्धे जीवन्मुक्तसंशयनिरूपणं नाम द्वादशः सर्गः ।।१२।।