मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः ३६

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 36

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

ईश्वर उवाच ।

ततश्चिद्रूपमेवैकं सर्वसत्तान्तरास्थितम् ।

स्वानुभूतिमयं शुद्धं देवं रुद्रेश्वरं विदुः

॥१॥

बीजं समस्तबीजानां सारं संसारसंसृतेः ।

कर्मणां परमं कर्म चिद्धातुं विद्धि निर्मलम्

॥२॥

कारणं कारणौघानामकारणमनाविलम् ।

भावनं भावनौघानामभाव्यमभवात्मकम्

॥३॥

चेतनं चेतनौघानां चेतनात्मनि चेतनम् ।

स्वं चेत्यचेतनं चेत्यपरमं भूरिभावनम्

॥४॥

आलोकालोकममलमनालोक्यमलोकजम् ।

आलोकं बीजबीजौघं चिद्धनं विमलं विदुः

॥५॥

असत्यं सन्मयं शान्तं सत्यासत्यविवर्जितम् ।

महासत्तादिसत्तान्ते चिन्मात्रं विद्धि नेतरत्

॥६॥

स्वयं भवति रागात्मा रञ्जको रञ्जनं रजः ।

स्वयमाकाशमप्याशु कुड्यं भवति मण्डितम्

॥७॥

अस्मिंश्चिच्चेतसि स्फारे जगन्मरुमरीचयः ।

स्फुरिताः प्रस्फुरिष्यन्ति प्रस्फुरन्ति च कोटयः

॥८॥

स्वसत्तामात्रसंपन्नं पदमस्मिन्स्वतेजसि ।

न किंचन च संपन्नमन्यदौष्ण्यादिवानले

॥९॥

गर्भीकृतमहामेरुं परमाणुसमं विदुः ।

आच्छादितमहामेरुं परमाणुसमं विदुः

॥१०॥

गर्भीकृतमहाकल्पो निमेषोऽसावुदाहृतः ।

आक्रान्तकल्पेनानेन न संत्यक्ता निमेषता ।।

॥११॥

बालाग्रकादप्यणुना व्याप्तानेनाखिला मही ।

सप्ताब्धिवसनाप्युर्वी नास्यान्तमधिगच्छति

॥१२॥

अकुर्वन्नेव संसाररचनां कर्तृतां गतः ।

कुर्वन्नेव महाकर्म न करोत्येव किंचन

॥१३॥

द्रव्यमप्येष निर्द्रव्यो निर्द्रव्योऽपि हि द्रव्यवान् ।

अकायोऽपि महाकायो महाकायोऽप्यकायवान्

॥१४॥

अद्याप्येष सदा प्रातः प्रातरप्यद्यतां गतः ।

न वाद्यमद्य न प्रातस्त्वद्य प्रातश्च वा सदा

॥१५॥

भिंडिं भिंडिं खिले मत्ता पुरुपिच्छिलिसालघम् ।

विविच्चलित्सदालोका लासो गुलुगुलुः शिली

॥१६॥

इत्याद्यनर्थकं वाक्यं तथा सत्यं स एव च ।

न तदस्ति न यत्सत्यं न तदस्ति न यत्त्वसौ

॥१७॥

यस्मिन्सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः ।

यश्च सर्वमयो नित्यं तस्मै सर्वात्मने नमः

॥१८॥

यत्रान्तरालगहनेन विलासवत्या

हेलाविलोलघनसर्जितयामलेन ।

मल्लेन पल्लवदलामलमालितानां

लक्ष्मीलताऽविरलिता वलितेव मुष्टिः

॥१९॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देव० मोक्षोपायेषु निर्वाणप्रकरणे पू० परमेश्वरवर्णनं नाम षटत्रिंशः सर्गः ।। ३६ ।।