मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः ७४

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 74

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

यथा चित्तचमत्कृत्या राज्ञो गङ्गावतारणम् ।

भगीरथस्य संपन्नं तन्मे कथय भो प्रभो

॥१॥

श्रीवसिष्ठ उवाच ।

आसीद्भगीरथो नाम राजा परमधार्मिकः ।

भुवः समुद्रयुक्ताया मण्डलीतिलकोपमः

॥२॥

संकल्पानन्तरं प्राप्ता यथाभिमतमर्थिनः ।

चन्द्रप्रसन्नवदनादस्माच्चिन्तामणेरिव

॥३॥

साधूनां यो व्यवस्थार्थं धनान्यविरतं ददौ ।

तृणमात्रमुपादत्ते क्वचिच्चिन्तामणिर्यथा

॥४॥

वज्रसारमिव प्रोतमुज्वलन्नेमि योऽभिनत् ।

अधो मणिरयोयन्त्रं सर्वदुर्जनचेष्टितम्

॥५॥

अधूमवह्निदेहश्रीः श्रान्तोऽपि दैन्यमप्यलम् ।

तमोऽहरन्नृणां नैशं द्युमणिर्वेश्मनामिव

॥६॥

किरन्नग्निकणासारमभितः स्वप्रतापजम् । ।

मध्याह्नसूर्यकान्ताग्निरिव ज्वलति योऽरिषु

॥७॥

मृदुशीतलसंस्पर्शो यः समाह्लादयन्मनः ।

सुज्ञानां द्रवति स्निग्धस्येन्दोरिन्दुमणिर्यथा

॥८॥

जगद्यज्ञोपवीतस्य स्वर्गपातालवाहिनः ।

गङ्गावाहस्य येनास्यां तृतीयः पूरितो गुणः

॥९॥

अगस्त्यशोषितोऽम्भोधिर्गङ्गापूरेण पूरितः ।

येन दुष्पूरभूतोऽपि महासार्थोऽर्थिनामिव

॥१०॥

गङ्गासोपानपद्धत्या येन पातालवासिनः ।

योजिता ब्रह्मणो लोके बान्धवा लोकबन्धुना

॥११॥

ब्रह्माणं शंकरं जह्नुं तपसाराधयंश्च यः ।

भूयोभूयो ययौ खेदमशून्याध्यवसायिनः

॥१२॥

यौवने वर्तमानस्य तस्य भूमिपतेरपि ।

प्रविचारयतो लोकयात्रां पर्याकुलामिमाम्

॥१३॥

सुविरागचमत्कारविचारकणिकोदभूत् ।

वयस्यपि च तारुण्ये दैवाद्वल्ली मराविव

॥१४॥

एकान्ते चिन्तयामास महीपतिरसाविति ।

जगद्यात्रामिमां नित्यमसमञ्जसमाकुलम्

॥१५॥

पुनर्दिनं पुनः श्यामा दानादानशतं पुनः ।

तदेव भुक्तविरसं लक्ष्यते कर्म कुर्वताम्

॥१६॥

येन प्राप्तेन लोकेऽस्मिन्न प्राप्यमवशिष्यते ।

तत्कृतं सुकृतं मन्ये शेषं कर्म विषूचिका

॥१७॥

पुनःपुनः पर्युषितं कर्म कुर्वन्न लज्जते ।

मूढ्बुद्धिरबुद्धिस्तु कः कुर्यात्किल बालवत्

॥१८॥

अथैकदोद्विग्नमनाः कदाचित्त्रितलं गुरुम् ।

एकान्तं संसृतेर्भीतः समपृच्छद्भगीरथः

॥१९॥

भगीरथ उवाच ।

अन्तःशून्यासु सुचिरं भ्रमत्संसारवृत्तिषु ।

अरण्यानीषु चैतासु भृशं खिन्ना वयं विभो

॥२०॥

जरामरणमोहादिरूपाणां भवकारिणाम् ।

भगवन्सर्वदुःखानां कथमन्तः प्रजायते

॥२१॥

त्रितल उवाच ।

चिरसाम्यात्मनोत्थेन निर्विभागविलासिना ।

राजन् ज्ञेयावबोधेन पूर्णेन भरितात्मना

॥२२॥

क्षीयन्ते सर्वदुःखानि त्रुट्यन्ति ग्रन्थयोऽभितः ।

संशयाः समतां यान्ति सर्वकर्माणि चानघ

॥२३॥

ज्ञेयं विदुरथात्मानं संशुद्धं ज्ञप्तिरूपिणम् ।

स च सर्वगतो नित्यं नास्तमेति न चोदयम्

॥२४॥

भगीरथ उवाच ।

चिन्मात्रं निर्गुणं शान्तमस्ति निर्मलमच्युतम् ।

देहादि नेतरत्किंचिदिति वेद्मि मुनीश्वर

॥२५॥

किं तत्र प्रतिपत्तिर्मे स्फुटतामेति नेतरा ।

एतावन्मात्रसंवित्तिः स्यामहं भगवन्कथम्

॥२६॥

त्रितल उवाच ।

ज्ञानेन ज्ञेयनिष्ठत्वमेति चेतो हृदम्बरे ।

ततः सर्ववपुर्भूत्वा भूयो जीवो न जायते

॥२७॥

असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।

नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु

॥२८॥

आत्मनोऽनन्ययोगेन तद्भावनमनारतम् ।

विविक्तदेशसेवित्वमरतिर्जनसंसदि

॥२९॥

अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।

एतज्ज्ञानमिति प्रोक्तमज्ञानं तदतोऽन्यथा

॥३०॥

रागद्वेषक्षयाकारं संसारव्याधिभेषजम् ।

अहंभावोपशान्तौ तु राजन् ज्ञानमवाप्यते

॥३५॥

भगीरथ उवाच ।

शरीरेऽस्मिंश्चिरारूढो गिरौ तरुरिव स्वके ।

अहंभावो महाभाग वद मे त्यज्यते कथम्

॥३२॥

त्रितल उवाच ।

पौरुषेण प्रयत्नेन त्यक्त्वा भोगौघभावनाम् ।

गत्वा विकसितां सत्तामहंकारो विलीयते

॥३३॥

यन्त्रणापञ्जरं यावद्भग्नं लज्जादिनाखिलम् ।

अकिंचनत्वशेषेण स्फुटा तावदहंकृतिः

॥३४॥

सर्वमेतद्धिया त्यक्त्वा यदि तिष्ठसि निश्चलः ।

तदहंकारविलये त्वमेव परमं पदम्

॥३५॥

शान्ताशेषविशेषणो विगतभीः संत्यक्तसर्वैषणो

गत्वानूनमकिंचनत्वमरिषु त्यक्त्वा समग्रां श्रियम् ।

शान्ताहंकृतिरस्तदेहकलनस्तेष्वेव भिक्षामट

न्मामप्युज्झितवानलं यदिभवस्युच्चैस्त्वमुच्चैरसि

॥३६॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० भगीरथोपदेशो नाम चतुःसप्ततितमः सर्गः ।। ७४।।