मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः ७९

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 79

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

दिनानुदिनमित्येषा स्वात्मारामतया तया ।

नित्यमन्तर्मुखतया बभूव प्रकृतिस्थिता

॥१॥

नीरागा निरुपासङ्गा निर्द्वन्द्वा निःसमीहिता ।

न जहाति न चादत्ते प्रकृताचारचारिणी

॥२॥

परितीर्णभवाम्भोधिः शान्तसंदेहजालिका ।

परमात्ममहालाभपरिपूर्णान्तरात्मना

॥३॥

विश्रान्ता सुचिरं श्रान्ता घनलब्धपदान्तरे ।

सर्वोपमातीततया जगामाव्यपदेश्यताम्

॥४॥

इति सा भामिनी तस्य चूडाला वरवर्णिनी ।

स्वल्पेनैव हि कालेन ययौ विदितवेद्यताम्

॥५॥

यथायमागतः कश्चिज्जागतः स्पन्दविभ्रमः ।

तथा विलीयते सर्वं तत्त्वज्ञानवति स्वयम्

॥६॥

अदृष्टसकले शान्ते पदे विश्रान्तिमेत्य सा ।

रराज शरदच्छाभ्रमालेव गतसंभ्रमा

॥७॥

अनाकुला समालोकमसंबन्धात्मनात्मनि ।

जरद्गवीव शैलाग्रं सतृणं प्राप्य संस्थिता

॥८॥

स्वविवेकघनाभ्यासवशादात्मोदयेन सा ।

शुशुभे शोभना पुष्पलतेवाभिनवोद्गता

॥९॥

अथ तामनवद्याङ्गीं कदाचित्स शिखिध्वजः ।

अपूर्वशोभामालोक्य स्मयमान उवाच ह

॥१०॥

भूयो यौवनयुक्तेव मण्डितेव पुनःपुनः ।

अधिकं राजसे तन्वि जगद्राजवती यथा

॥११॥

प्रपीतामृतसारेव लब्धा लभ्यपदेव च ।

आनन्दापूरपूर्णेव राजसे नितरां प्रिये

॥१२॥

उपशान्तं च कान्तं च दधाना सुन्दरं वपुः ।

अभिभूयेन्दुमायासि श्रियं कामपि कामिनि

॥१३॥

अभोगकृपणं शान्तमूर्जितं समतां गतम् ।

गम्भीरं च प्रशान्तं च चेतः पश्यामि ते प्रिये

॥१४॥

तृणीकृत्य त्रिभुवनं पीताखिलजगद्रसम् ।

अनन्तोड्डामरं सौम्यं मनः पश्यामि ते प्रिये

॥१५॥

न केनचिन्महाभागे विभवानन्दवस्तुना ।

चेतस्तव तुलामेति मरुक्षीराब्धिसुन्दरम्

॥१६॥

तैरेव बालकदलीमृणालाङ्कुरकोमलैः ।

अङ्गैः स्थितिमनुप्राप्तैर्वृद्धिं यातेव लक्ष्यसे

॥१७॥

तथा तेनैव तेनैव संनिवेशेन संस्थिता ।

अन्यतामुपयातासि लतेव ऋतुपर्यये

॥१८॥

किं त्वया पीतममृतं प्राप्तं साम्राज्यमेव वा ।

अमृत्युमेव संप्राप्ता प्रयोगायोगयुक्तितः

॥१९॥

राज्याच्चिन्तामणेर्वापि त्रैलोक्याद्वा त्वयाधिकम् ।

अप्राप्तं किमनुप्राप्तं नीलोत्पलविलोचने

॥२०॥

चूडालोवाच ।

नाकिंचित्किंचिदाकारमिदं त्यक्त्वाहमागता ।

नकिंचित्किंचिदाकारं तेनास्मि श्रीमती स्थिता

॥२१॥

इदं सर्वं परित्यज्य सर्वमन्यन्मयाश्रितम् ।

यत्तत्सत्यमसत्यं च तेनास्मि श्रीमती स्थिता

॥२२॥

यत्किंचिद्यन्न किंचिच्च तज्जानामि यथास्थितम् ।

यथोदयं यथानाशं तेनास्मि श्रीमती स्थिता

॥२३॥

भोगैरभुक्तैस्तुष्यामि भुक्तैरिव सुदूरगैः ।

न हृष्यामि न कुप्यामि तेनास्मि श्रीमती स्थिता

॥२४॥

एकैवाकाशसंकाशे केवले हृदये रमे ।

न रमे राजलीलासु तेनास्मि श्रीमती स्थिता

॥२५॥

आत्मन्येव हि तिष्ठामि ह्यासनोद्यानसद्मसु ।

न भोगेषु न लज्जासु तेनाहं श्रीमती स्थिता

॥२६॥

जगतां प्रभुरेवास्मि नकिंचिन्मात्ररूपिणी ।

इत्यात्मन्येव तुष्यामि तेनाहं श्रीमती स्थिता

॥२७॥

इदं चाहमिदं नाहं सत्या चाहं न चाप्यहम् ।

सर्वमस्मि न किंचिच्च तेनाहं श्रीमती स्थिता

॥२८॥

न सुखं प्रार्थये नार्थं नानर्थं नेतरां स्थितिम् ।

यथाप्राप्तेन हृष्यामि तेनाहं श्रीमती स्थिता

॥२९॥

तनुविद्वेषराजाभिः प्रज्ञाभिः शास्त्रदृष्टिभिः ।

रमे सह वयस्याभिस्तेनाहं श्रीमती स्थिता

॥३०॥

पश्यामि यन्नयनरश्मिभिरिन्द्रियैर्वा

चित्तेन चेह हि तदङ्ग नकिंचिदेव ।

पश्यामि तद्विरहितं तु नकिंचिदन्तः

पश्यामि सम्यगिति नाथ चिरोदयास्मि

॥३१॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० चू० चूडालात्मलाभो नामैकोनाशीतितमः सर्गः ।।७९।।