मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः ९२

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 92

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

चूडालोवाच ।

यदुक्तं नयशालिन्या तया विदितवेद्यया ।

तदा चूडालया ज्ञानं तत्कस्मान्नोररीकृतम्

॥१॥

सा हि तत्त्वविदां मुख्या यद्यद्वक्ति करोति च ।

तत्सर्वं सत्यमेवाङ्ग तदनुष्ठेयमादरात्

॥२॥

अथ चेद्वचनं तस्यास्त्वया नानुष्ठितं नृप ।

तत्सर्वसंपरित्यागः कस्मान्न निपुणीकृतः

॥३॥

शिखिध्वज उवाच ।

राज्यं त्यक्तं गृहं त्यक्तं देशस्त्यक्तस्तथाविधः ।

दारास्त्यक्तास्तथाप्यङ्ग सर्वत्यागो न किं कृतः

॥४॥

चूडालोवाच ।

धनं दारा गृहं राज्यं भूमिश्छत्रं च बान्धवाः ।

इति सर्वं न ते राजन्सर्वत्यागो हि कस्तव

॥५॥

तवास्त्येवापरित्यक्तः सर्वस्माद्भाग उत्तमः ।

तं परित्यज्य निःशेषमायास्यसि विशोकताम्

॥६॥

शिखिध्वज उवाच ।

राज्यं चेन्मम नो सर्वं तत्सर्वं वनमेव मे ।

शैलवृक्षादिगुल्माढ्यं तदप्येतत्त्यजाम्यहम्

॥७॥

श्रीवसिष्ठ उवाच ।

इति राम वदन्नेव कुम्भवाक्यप्रणोदितः ।

निमेषान्तरमात्रेण वशी वीरः शिखिध्वजः

॥८॥

प्रममार्ज वनास्थां तां कृतः सुदृढनिश्चयः ।

प्रावृडोघस्तटगतां रजोलेखामिवात्मना

॥९॥

शिखिध्वज उवाच ।

सवृक्षाद्रिवनश्वभ्राद्विपिनादपि वासना ।

परित्यक्ता मया नूनं परित्यागः स्थितो मम

॥१०॥

कुम्भ उवाच ।

अद्रेस्तटं वनं श्वभ्रं सलिलं पादपस्थलम् ।

इत्यादि तव नो सर्वं सर्वत्यागः कथं तव

॥११॥

तवास्त्येवापरित्यक्तः सर्वस्माद्भाग उत्तमः ।

तं परित्यज्य निःशेषं परामायास्यशोकताम्

॥१२॥

शिखिध्वज उवाच ।

एतच्चेन्मम नो सर्वं तत्सर्वं स्वाश्रमो मम ।

वापीस्थलोटजयुतस्तमेवाशु त्यजाम्यहम्

॥१३॥

श्रीवसिष्ठ उवाच ।

इति राम वदन्नेव कुम्भवाक्यप्रबोधितः ।

निमेषध्यानमात्रेण वशी वीरः शिखिध्वजः

॥१४॥

प्रममार्जाश्रमास्थां तां संविदा शुद्धया हृदि ।

स्फुरन्तीं स्फुरणेनैव रजोलेखामिवानिलः

॥१५॥

शिखिध्वज उवाच ।

स वृक्षोटजवीरुत्काद्वासना स्वाश्रमादपि ।

परित्यक्ता मया नूनं सर्वत्यागः स्थितो मम

॥१६॥

कुम्भ उवाच ।

वृक्षो वापी स्थलं गुल्ममुटजं व्रततीवृतिः ।

इति किंचिन्न ते सर्वं सर्वत्यागः कुतस्तव

॥१७॥

तवास्त्यन्योऽपरित्यक्तः सर्वस्माद्भाग उत्तमः ।

तं परित्यज्य निःशेषं परामायास्यशोकताम्

॥१८॥

शिखिध्वज उवाच ।

एतच्चेन्मम नो सर्वं तत्सर्वं भाजनादि मे ।

चर्मकुड्यकुटीरादि तत्तावत्संत्यजाम्यहम्

॥१९॥

श्रीवसिष्ठ उवाच ।

इत्युक्त्वा स समुत्तस्थावविक्षुब्धमतिः शमी ।

विष्टरादवदातात्मा श्रृङ्गादिव शरद्धनः

॥२०॥

कुम्भस्त्वालोकयन्नेव तत्क्रियाः सस्मितः स्वयम् ।

आसने लोककार्येषु स्वस्यन्दन इवांशुमान्

॥२१॥

यत्करोति करोत्वेतदस्यैतत्पावनं परम् ।

इति तूष्णीं स्थितः कुम्भः शिखिध्वजमवैक्षत

॥२२॥

शिखिध्वजस्तु तत्सर्वं भाण्डोपस्करमाश्रमात् ।

एकत्रैवानयामास भुवो वार्यब्धिभूरिव

॥२३॥

तत्संस्थाप्येन्धनैः शुष्कैर्ज्वालयामास पावकम् ।

करैः संचारवानर्कः सूर्यकान्तपदं यथा

॥२४॥

भाण्डोपस्करजालं तदग्नौ त्यक्त्वा विवेश सः ।

ध्वंसिकायां जगद्धुत्वा मेरुश्रृङ्गे यथा रविः

॥२५॥

एतावन्तं मया कालं वृत्ता यत्त्वं पतिप्रिये ।

अजातबुद्धिभेदेन तेनैव कृतमस्तु ते

॥२६॥

भ्रान्तौ तु विनिवर्तिन्यां नाधुनोपकरोषि माम् ।

मन्त्राटव्यां चिरं भ्रान्तं विहृतं कार्यवर्त्मसु

॥२७॥

दृष्टानि धर्मस्थानानि विश्राम्याम्यधुना सखि ।

इत्यक्षमालां ज्वलने चिक्षेपोक्त्वा शिखिध्वजः

॥२८॥

कल्पान्ताग्नाविव व्योम तारालीं पवनोऽमलाम् ।

मया नरमृगेण त्वं चिरं वनमृगाच्च्युतम्

॥२९॥

अबोधेन धृतं वृस्यामिदमेव मृगाजिनम् ।

इदानीं गच्छ तुच्छाय पन्थानः सन्तु ते शिवाः

॥३०॥

वह्निना व्योमतां गच्छ सतारं व्योम ते समम् ।

तद्वृस्यङ्गात्कराभ्यां स धृत्वा चर्माजहाविति

॥३१॥

नृपोऽग्नावम्बुधेर्वातो दववह्नाविवाचलात् ।

महावृत्तेन भवता त्वया वारि धृतं मम

॥३२॥

साधो कमण्डलो सम्यङ् न ते प्रतिकृतं कृतम् ।

सौहृदस्य मनोज्ञस्य सौजन्यस्यस्थिरस्य च

॥३३॥

साधुत्वस्य च सर्वस्य त्वमेव परमास्पदम् ।

येनैव वह्निना देहं संशोध्याभ्यागतोऽसि माम्

॥३४॥

तेनैव गच्छ हे मित्र पन्थानः सन्तु ते शिवाः ।

इत्युक्त्वा श्रोत्रियायैव कमण्डलुमदात्तदा

॥३५॥

अग्नये महते वापि दातव्यं साधु यद्भवेत् ।

मूर्खस्येव मतिर्गुप्ते नित्यमेव पतस्यधः

॥३६॥

उचिता ते गतिः सैव बृसिके भस्मतां व्रज ।

इत्युक्त्वादाय बृसिकामग्नावेव स मृद्विकाम्

॥३७॥

शुद्ध्यर्थमासनार्थं वै चिति तत्याज भासुरे ।

यत्त्याज्यमचिरेणैव त्यक्तव्यं किल तत्सदा

॥३८॥

विस्तरः क्रियते सद्भिरुपादेये इति स्थितिः ।

शीघ्रमग्नाविदं सर्वं भाण्डजातं त्यजाम्यहम्

॥३९॥

एकवारं दहत्यग्निर्दाह्यं भवति तुष्टये ।

साधो क्रियोपकरणं निष्क्रियाय त्यजाम्यहम् ।

न खेदस्तत्र कर्तव्यो नन्वयोग्यं बिभर्ति कः

॥४०॥

इत्युक्तवान्झटिति भोजनभाजनाद्यं

सर्वं जुहाव वनवासविलासयोग्यम् ।

तद्भाण्डजालमनले सममेव राजा

कल्पान्ततेजसि जगज्ज्वलतीव कालः

॥४१॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० चू० सर्वत्यागकरणं नाम द्विनवतितमः सर्गः ।।९२।।