मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १२७

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 127

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

भगवन्कथयैतन्मे कथं भूगोलकं स्थितम् ।

कथमृक्षगणो याति लोकालोकः कथं गिरिः

॥१॥

श्रीवसिष्ठ उवाच ।

यथा संकल्परचिता शिशोर्व्योमनि तिष्ठति ।

वीटा चिन्मात्रबालेन कल्पितो भूस्तथाम्बरे

॥२॥

यथा तिमिरिकाक्षाणां केशचन्द्रादिदर्शनम् ।

चिदाकाशस्य सर्गादौ तथा पृथ्व्यादिदर्शनम्

॥३॥

यथा संकल्पनगरं धार्यमाणं न दृश्यते ।

धार्यते धार्यते मा च तथोर्व्यनुभवश्चितेः

॥४॥

यद्यथा यावदाभाति चिति चित्त्वात्स्वभावतः ।

तत्तथा तावदाभाति तत्र तत्र तदात्मकम्

॥५॥

तिमिराक्रान्तनेत्रस्य केशोण्ड्रकमिवाम्बरे ।

चिन्मात्रस्य महीगोलो यो भातः स तथा स्थितः

॥६॥

ऊर्ध्वं वहन्त्यः सरितस्तदधस्ताद्हुताशनः ।

चिति चेत्स्वप्नवद्भाति तत्तथा तत्स्थितं भवेत्

॥७॥

तस्मात्पतन्ती भूर्भाता पतत्येवानिशं जगत् ।

उत्पतन्ती तु चिद्भाता तथा नानात्मिका भवेत्

॥८॥

स्तब्धभाता स्थिता स्तब्धा सालोका तु प्रकाशिनी ।

निरालोका निरालोकलोकानामात्मनि स्थिता

॥९॥

चिद्भानैकानुसारेण ताराचक्रं तथा मही ।

असदेव सदैवेदं भातीदमविखण्डितम्

॥१०॥

आलोकालोकमेवाथ नभःखातं ततो महत् ।

तम एकार्णवाकारं स्थितं तत्र क्वचित्क्वचित्

॥११॥

दूरत्वादृक्षचक्रस्य करालत्वान्महागिरेः ।

क्वचित्तमः क्वचित्तेजस्तत्रैवाचत्वरेऽपि च

॥१२॥

लोकालोकगिरेः पारे स्थितादाकाशमण्डलात् ।

दशदिक्कं सुदूरेण ऋक्षचक्रं विवर्तते

॥१३॥

आपातालदिवो नद्धमृक्षचक्रं तदम्बरे ।

दशदिक्कं प्रसरति पतदूर्ध्वादृतेऽभितः

॥१४॥

भूलोकमेव पातालयुतं नक्षत्रमण्डलम् ।

पर्येति लोकालोकान्ते नान्यच्चित्कल्पनाच्च तत्

॥१५॥

सलोकालोकभूलोकद्विगुणात्खादनन्तरम् ।

पक्वाक्षोटस्य भिस्सेव स्थितं नक्षत्रमण्डलम्

॥१६॥

द्विगुणा नभसस्तस्मादृक्षचक्रस्य पुष्टता ।

दशदिक्कं विसरतो बिल्वत्वक्सदृशस्थितेः

॥१७॥

संविद्धनस्य कचनं यादृशं कल्पनात्मकम् ।

यदित्थं संनिवेशेन नन्वियं जागती स्थितिः

॥१८॥

नक्षत्रचक्राद्द्विगुणं ततोऽन्यद्विद्यते नभः ।

तच्च क्वचित्प्रकाशाढ्यं क्वचित्सान्द्रतमोमयम्

॥१९॥

पर्यन्ते तस्य नभसः स्थितं ब्रह्माण्डखर्परम् ।

एकमूर्ध्वे परमधो गगनं मध्यमेतयोः

॥२०॥

योजनानां कोटिशतं पुष्टं वज्रदृढं च तत् ।

स्थितं संवेदनमयं व्योम्नि व्योममयात्मकम्

॥२१॥

सर्वदिक्कं महागोले नभसि स्वर्कतारकम् ।

किमत्रोर्ध्वमधः किं स्यात्सर्वमूर्ध्वमधश्च वा

॥२२॥

पतनमुत्पतनं गमनं स्थितं

चित इति स्फुरितं न तु वस्तु तत् ।

पतनमस्ति न चोत्पतनं न वा

गमनमागमनं स्थितमित्यपि

॥२३॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० अ० वि० भूगोलनिर्णयो नाम सप्तविंशाधिकशततमः सर्गः ।। १२७ ।।