मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १३८

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 138

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

तापस उवाच ।

गन्तुमेवं विचार्याहं ततस्तत्संविदैकताम् ।

प्रवृत्तश्चौत्तमाब्जेन सौरभेणेव सौरभम्

॥१॥

यावत्तच्चेतनं तस्य तमोजोधातुमत्यजम् ।

प्रवृत्तं बाह्यसंवित्तौ समस्तेन्द्रियसंविदा

॥२॥

संविदं संविदा गृह्णंस्तान्बाह्येऽन्तरपि क्षणात् ।

अहं प्रसृतवांस्तत्र तैलबिन्दुरिवाम्भसि

॥३॥

तत्संविदि तथैवाथ यावत्परिणमाम्यहम् ।

भुवनं दृष्टवांस्तावत्सर्वं द्विगुणितं स्थितम् ।।

दिशो द्विगुणतां यातास्तपतस्तपनावुभौ ।

भूमण्डले द्वे संपन्ने द्वे वै द्यावौ समुत्थिते

॥५॥

वदनप्रतिबिम्बे द्वे दर्पणप्रतिबिम्बिते ।

यथा भातस्तथा भाते मिश्रिते ते जगच्चितम्

॥६॥

तैलवद्भाति कोशस्थं यच्चेतनतिलद्वये ।

तस्मिञ्जगद्द्वयं तत्तत्तथा भाति विमिश्रितम्

॥७॥

संविद्द्वितयकोशस्थे मिश्रिते अप्यमिश्रिते ।

ते उभे जगती भाते समे क्षीरजले यथा

॥८॥

निमेषाद्दृष्टमात्रेण सा तत्संविन्मया ततः ।

सकलैवात्मतां नीता परिमित्येव संविदा

॥९॥

ऋतुर्ऋत्वन्तरेणेव सरितेवाल्पिका सरित् ।

वातेनामोदलेखेव धूमलेखेव वार्मुचा

॥१०॥

एकत्वेनाशु संवित्तेर्ययौ मे जगदेकताम् ।

दुर्दृष्टेर्द्विवपुश्चन्द्रः सुदृष्टेरेकतामिव

॥११॥

ततो मे तच्चितिस्थस्य स्वं विवेकमनुज्झतः ।

अल्पीभूतः स्वसंकल्पस्तत्संकल्पस्थितिं गतः

॥१२॥

तच्चित्तवृत्त्यैव ततो बाह्यमालोकयंस्ततः ।

अभुञ्जि तद्दिनाचारं तत्तद्धृदयमत्यजन्

॥१३॥

ततो यदृच्छयैवासौ शनैर्निद्राकुलोऽभवत् ।

पद्मः सायमिवापीय पयो भुक्त्वान्नमुच्छ्रमः

॥१४॥

प्रसृतं दिग्निकुञ्जेषु रूपालोकक्रियाकरम् ।

संजहार बहिश्चित्तं सायमर्को रुचिं यथा

॥१५॥

सह चित्तेन तास्तस्य समस्तेन्द्रियवृत्तयः ।

हृत्कोशमविशञ्छन्नाः कूर्मस्येवाङ्गसंधयः

॥१६॥

मुद्रिता हृदयाकारास्त आसंश्चक्षुरादयः ।

लोष्टरूपा मृतावेव लिपिकर्मार्पिता इव

॥१७॥

अहं तच्चित्तवृत्त्यैव सहसोन्नम्य तत्स्थितः ।

तच्चित्तानुविधायित्वात्तत्तद्धृदयमाविशम्

॥१८॥

संहृत्य बाह्यानुभवमन्तरेव तदोजसि ।

क्षणमन्वभवं शून्यं सुषुप्तं तल्पकोमले

॥१९॥

क्लमान्नपानबहुलैर्निबिडास्वपि नाडिषु ।

सुषिरास्वेव वा वायुर्न निर्यात्येव याति च

॥२०॥

यदा तदात्मकात्मैकपरो हृदि सहस्थितम् ।

अप्रधानीकरोत्येतच्चित्तं स्वार्थस्वभावतः

॥२१॥

स्वार्थमात्रोऽद्य तस्यान्तः परकृत्यं न कस्यचित् ।

कचति स्वार्थसत्तायामेतदेव वपुर्यतः

॥२२॥

श्रीराम उवाच ।

मनः प्राणवशादेव मनुते किं महामुने ।

स्वरूपं मनसो नास्ति तस्मात्तत्केवलं च किम्

॥२३॥

श्रीवसिष्ठ उवाच ।

देह एवेह नास्त्येव स्वानुभूतोऽप्ययं निजः ।

मनसः कल्पनात्मेदं वपुः स्वप्ने गिरिर्यथा

॥२४॥

तच्चित्तमपि नास्त्येव चेत्यार्थाभावयोगतः ।

सर्गादौ कारणाभावाद्दृश्यानुत्पत्तिहेतुतः

॥२५॥

अतः सर्वमिदं ब्रह्म तच्च सर्वात्मकं यदा ।

तदा विश्वमिदं विष्वगस्त्येव च यथास्थितम्

॥२६॥

अस्ति चित्तादि देहादि तद्ब्रह्मैव च तद्विदाम् ।

यादृक्तत्तद्विदामेतदस्माकं विषये न तत्

॥२७॥

यथेदं त्रिजगद्ब्रह्म यथेति विविधात्मकम् ।

अत्रेमं राजपुत्र त्वं वर्ण्यमानं क्रमं श्रृणु

॥२८॥

अस्ति चिन्मात्रममलमनन्ताकाशरूपि यत् ।

सर्वदा सर्वरूपात्म न जगन्न च दृश्यता

॥२९॥

सर्ववित्त्वात्तु तेनेदं मनस्त्वं चेतितं स्वतः ।

रूपमत्यजता शुद्धं बुद्धमाधिविवर्जितम्

॥३०॥

मनसा कल्पितं तेन यद्वै सरणमात्मनः ।

तदेतत्प्राणपवनं विद्धि वेद्यविदां वर

॥३१॥

प्राणतैषा यथा तेन कल्पितेवानुभूयते ।

तथैवेन्द्रियदेहादि दिक्कालकलनादि च

॥३२॥

इति विश्वमिदं विष्वक् चित्तमात्रमखण्डितम् ।

चित्तं तु चित्परं ब्रह्म तस्माद्ब्रह्मेदमाततम्

॥३३॥

अनाकारमनाद्यन्तमनाभासमनामयम् ।

शान्तं चिन्मात्रसन्मात्रं ब्रह्मैवेदं जगद्वपुः

॥३४॥

सर्वशक्ति परं ब्रह्म मनःशक्त्या यथा स्थितम् ।

यत्र तत्र तथा रूपं स्वमेवानुभवत्यलम्

॥३५॥

संकल्पात्म मनो ब्रह्म संकल्पयति यद्यथा ।

तत्तथैवानुभवति सिद्धमाबालमीदृशम्

॥३६॥

प्राणीकृतः स्वयमयं ननु चेतसात्मा

देहीकृतस्त्रिभुवनीकृत एव नाद्यः ।

देहीकृतः खवपुरेव गिरीकृतश्च

स्वप्नेषु कल्पितपुरीष्वनुभूतमेतत्

॥३७॥

इत्यार्षे श्रीवा० वा० दे० मो० नि० उ० अवि० वि० चित्तसर्वात्मकताप्रतिपादनं नामाष्टत्रिंशदधिकशततमः सर्गः ।। १३८ ।।