मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १५२

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 152

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

मुनिरुवाच ।

इत्युक्त्वा स मुनिस्तत्र तूष्णीं स्वशयने निशि ।

आसीद्विस्मयतश्चाहमथाऽऽसं प्रोह्यमानवत्

॥१॥

ततश्चिरेण कालेन मयोक्तं तस्य सन्मुने ।

एवं स्वप्नो विभो सर्वः सद्रूप इति मे मतिः

॥२॥

अन्यमुनिरुवाच ।

सत्संभवति यत्रान्यत्तत्रेदं सदिति स्मयः ।

युक्तो यत्र त्वेतदेव सत्ताल्पं तत्र का प्रमा

॥३॥

यथा स्वप्नस्तथैवायमादौ सर्गोऽवभासते ।

पृथ्व्यादिरहितोऽप्येष पृथ्व्यादिभिरवस्थितः

॥४॥

इत्थमद्यतनात्स्वप्नात्सर्गस्वप्नोऽमलात्मकः ।

श्रृणु पुष्करपत्राक्ष मुने व्याध महागुरो

॥५॥

अद्य दृष्टपदार्थाभ्यां स्वप्नं स्वप्नवतोऽभवत् ।

सर्गस्वप्नस्तु दृष्टार्थ एवादौ खे विराजते

॥६॥

एवं सत्स्वप्न इत्येव संदिग्धमिव वक्षि किम् ।

स्फुटमप्यनुभूतं सत्स्वप्नध्यानोद्यमः कथम्

॥७॥

इदमित्थं यदाभोगि स्फुटं स्वप्नजगन्मुने ।

सदेवानुभवत्येव तत्र संदिग्धता कथम्

॥८॥

अथेवंवादिनस्तस्य वाक्यमाक्षिप्तवानहम् ।

पृष्टवान्व्याधगुरुता कासौ मे कथ्यतामिति

॥९॥

अन्यमुनिरुवाच ।

श्रूयतामिदमाख्यानमपरं कथयामि ते ।

संक्षेपेण महाप्राज्ञ नास्त्यन्तो विस्तरस्य मे

॥१०॥

अस्म्यहं तावदादीर्घतपास्त्वमतिधार्मिकः ।

श्रुत्वेदं मद्वचः सत्यमिहैव रतिमेष्यसि

॥११॥

इहस्थं मामिमं त्वं च न त्यक्ष्यसि सपर्यया ।

अहं भवद्भिः सहितो निवत्स्यामीति निश्चयः

॥१२॥

साधो यातेषु वर्षेषु ततः कतिपयेष्विह ।

सर्वबन्धुविनाशस्ते दुर्भिक्षेण भविष्यति

॥१३॥

मत्तसीमान्तसामन्तविग्रहेण तदैव च ।

सर्वो गृहात्तनुप्राणिर्ग्रामकोऽयं विनङ्क्ष्यति

॥१४॥

ततो दुःखमजानन्तौ चिरमाश्वसितौ मिथः ।

शान्तौ विदितवेद्यत्समौ सर्वार्थनिस्पृहौ

॥११॥

इहैवैकत्र कस्मिंश्चित्तरुखण्डकजालके ।

समाचारौ निवत्स्यावः शून्ये चन्द्ररवी यथा

॥१६॥

उत्पत्स्यते त्वरण्येऽस्मिन्कालेन वनमुत्तमम् ।

शालताललताजालवलिताखिलभूतलम्

॥१७॥

तालीतमालदलताण्डवमण्डिताशं

व्याकोशपद्मवनवन्द्यविकासिवृक्षम् ।

कूजच्चकोरचयचारुलतानिकुञ्ज-

मुद्भासि नन्दनमिवागतमन्तरिक्षात्

॥१८॥

इत्यार्षे श्रीवासिष्ठमहा० वा० दे० मो० नि० उ० अ० वि० श० मुनिरात्रिसंकथावर्णनं नाम द्विपञ्चाशदधिकशततमः सर्गः ।। १५२ ।।