मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १६०

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 160

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवाल्मीकिरुवाच ।

विपश्चिति वदत्येवं तद्वृत्तान्तमवेक्षितुम् ।

इव लोकान्तरं भानुः पादैर्दूरायतैर्ययौ

॥१॥

उदभूत्पूरयन्नाशा दिनपर्यन्तदुन्दुभिः ।

तुष्टाभिरिव निर्मुक्तो दिग्भिर्जयजयारवः

॥२॥

विपश्चिते दशरथो गृहदारधनादिकम् ।

राज्यानुरूपं विभवं प्रोत्तस्थौ कल्पयन्क्रमात्

॥३॥

राजरामवसिष्ठाद्या मिथः कृत्वा विसर्जनम् ।

यथाक्रमं पूजनं च प्रययुः स्वास्पदानि ते

॥४॥

स्नात्वा भुक्त्वा निशां नीत्वा प्रभाते पुनराययुः ।

तेनैव संनिवेशेन सा सभा संस्थिताऽभवत्

॥५॥

क्रमान्मुनिरुवाचाथ तां यथाप्रस्तुतां कथाम् ।

शशीवामृतमाह्लादमुद्गिरन्मुखदीप्तिभिः

॥६॥

राजन्नेयमविद्येयमसत्येव सती स्थिता ।

नेदृशेनापि यत्नेन निर्णीतैषा विपश्चिता

॥७॥

अविद्यैवमविज्ञाता चिरानन्तावभासते ।

परिज्ञाता तु नास्त्येव मृगतृष्णानदी यथा

॥८॥

मन्त्रिणस्ते महाबुद्धे भासस्यास्य विपश्चितः ।

इतिवृत्तं त्वमित्यस्य स्वयमेव हि दृष्टवान्

॥९॥

सदृशोऽयमितस्त्वाभिः कथाभिर्ज्ञाततत्पदः ।

अविद्यायां प्रशान्तायां जीवन्मुक्तो भविष्यति

॥१०॥

अविद्येति धृता संविद्ब्रह्मणात्मनि सत्तया ।

तद्भ्रमेणासदप्यस्याः सद्रूपमिव लक्ष्यते

॥११॥

यदा ब्रह्मात्मिकैवेयमविद्या नेतरात्मिका ।

तदास्त्येषाऽपरिज्ञाता परिज्ञाता न भिद्यते

॥१२॥

अविद्यैवमनन्तेयं नानाप्रसवशालिनी ।

जडा हृद्या रसमयी मोहमाधवमञ्जरी

॥१३॥

अन्तशून्या ग्रन्थिमती श्लक्ष्णा स्वङ्कुरकण्टका ।

जडा रसमयी दीर्घा लतेव वनवैणवी

॥१४॥

फलाशङ्का मुधैवातिनिष्फला चित्तहारिणी ।

अकालपुष्पमालेव श्रेयसा नाभिनन्दिता

॥१५॥

न किंचिद्रूपिणी पीना नानाभुवनपूरिणी ।

भूताकुला निरालोका सुदीर्घेव तमोमयी

॥१६॥

केशोण्ड्रकभ्रान्तिरिव विचित्रग्रन्थिवेष्टना ।

मिथ्यैव दृश्यमाना खेऽदृश्यमाना न किंचन

॥१७॥

विचित्रवर्णा विगुणा शून्ये च वितताकृतिः ।

जडस्पन्दोत्पातमयी शक्रचापलतेव खे

॥१८॥

जडकल्लोलबहुला कलुषोल्लासफेनिला ।

चक्रावर्ताक्षयमयी प्रावृषीव तरङ्गिणी

॥१९॥

अनारतवहच्छून्यजगन्मृगनदीशता ।

रजोराशिमयी रूक्षा शवभूरिव दुर्भगा

॥२०॥

अन्तं प्राप्नोति न यथा चिरं स्वप्नपुरे चरन् ।

जाग्रदाख्ये स्वप्नपुरे तथैवास्मिंश्चिरं चरन्

॥२१॥

यानि संकल्पजालानि प्रतिष्ठामागतान्यलम् ।

त्यक्तैकदृश्यजालस्थदेहानां दृढचेतसाम्

॥२२॥

स्थितानि तानि चिद्व्योम कोशरत्नान्यसंकटम् ।

विमानपुरभूम्यादिरूपेणेत्थं स्थितात्मना

॥२३॥

तान्येव सिद्धसद्मानि व्योम्नि भान्ति परस्परम् ।

अदृष्टान्यप्यसंख्यानि सूपलब्धान्यसन्त्यपि

॥२४॥

सुवर्णमणिमाणिक्यमुक्तावनिमयानि च ।

भक्ष्यभोज्यान्नपानाढ्यरसायनसरांसि च

॥२५॥

मधुमद्यदधिक्षीरघृतकुल्याकुलानि च ।

रसायनमयाकारवनितावलितानि च

॥२६॥

सर्वर्तुपुष्पफलपल्लवपूरवन्ति

लीलाविलोलललनाकुलितालयानि ।

संकल्पमात्ररचनेन च सर्वकालं

संपन्नसर्वविभवोत्करसंकुलानि

॥२७॥

सहस्रचन्द्रबिम्बानि शतसूर्याणि कानिचित् ।

सुवर्णामृतवेषाम्बुमयभूतानि कानिचित्

॥२८॥

स्वेच्छातमःप्रकाशानि नित्यानन्दमयानि च ।

कानिचिन्नीयमानानि तनुतूललघूनि च

॥२९॥

क्षणोत्पत्तिविनाशानि कानिचित्कलनावशात् ।

अनन्तस्वन्नपानानि निर्जरामरणानि च

॥३०॥

विचित्रसंनिवेशानि विचित्रविभवानि च ।

सर्वर्तुगुणरम्याणि सर्वकाममयानि च

॥३१॥

तानि संकल्पजालानि किल कल्याणकारतः ।

स्थिराणां मनसां भित्तिः कथमेवं भवेत्तु सा

॥३२॥

नान्यत्किंचन नामेह ब्रह्ममात्रमयात्मनि ।

संभवत्यङ्ग तेनैतदुच्यतामस्तु किंमयम्

॥३३॥

सर्गादावेव सर्गादि किंचनापीदमस्ति नो ।

कारणाभावतस्तेन जगत्किंमयमस्त्विदम्

॥३४॥

संकल्प्यन्ते निरन्तानि किल तानि यथा यथा ।

चितौ तथा तथा भान्ति केवात्र वद चित्रता

॥३५॥

इदानीमपि हे साधो त्वमप्यन्येऽपि केऽपि वा ।

तीव्रसंवेगसंकल्पनगराण्येवमेव खे

॥३६॥

कुर्वन्त्येकरसाभ्यासाद्यदि नाम यदृच्छया ।

तत्तानीदं वपुस्त्यक्त्वा प्राप्नुवन्त्यचिरेण खे

॥३७॥

यस्त्विदं कल्पितं च द्वे वस्तुनी अनुवर्तते ।

स्वर्गादिवदवाप्नोति प्राप्नोत्येवैकमेकधीः

॥३८॥

सिद्धाः सदा विभान्त्येवं यथान्तःकल्पनावशात् ।

नरकादीनि दुःखानि तथैवाभान्ति कल्पनात्

॥३९॥

यद्यत्संवेद्यते किंचित्तत्तथाप्यनुभूयते ।

सति वाऽसति देहेऽस्मिन्देह एव मनोमयः

॥४०॥

जीवस्त्यजति यद्भावे एकां देहमयीं धियम् ।

तद्भावैकमयीमन्यामाशु तत्रैव पश्यति

॥४१॥

शुभा संविच्छुभांल्लोकान्संपश्यत्यशुभाऽशुभान् ।

खात्मिका खात्मकानेव चिरं वानुभवत्यपि

॥४२॥

शुद्धा सिद्धपुराण्येव पश्यत्यनुभवत्यपि ।

चिदशुद्धानि रूपाणि दुःखानि नरकेष्वति

॥४३॥

घूर्णत्पाषाणयमलगिरिचक्रकपेषणम् ।

तत्रान्धकूपपतनं पुनरुद्धारवर्जितम्

॥४४॥

दारुणेनातिशीतेन देहं पाषाणतां गतम् ।

भूताङ्गारमयानन्तमरुमार्गास्पदं वपुः

॥४५॥

पूताङ्गारमयाम्भोदसरदङ्गारवर्षणम् ।

तप्तनाराचनिकरपरुषासारदारुणम्

॥४६॥

वहत्पाषाणचक्रासिसरिदाकाशसंचरम् ।

वक्षोमुक्ताम्बुदाकारकुठाराघातभेदनम्

॥४७॥

तप्तायःपरुषाश्लेषच्छमिच्छमितिमज्जनम् ।

वृहत्कटकटाशब्दशस्त्रयन्त्रनिपीडनम्

॥४८॥

चक्रवज्रगदाप्रासशूलासिशरवर्षणम् ।

शाल्मलीग्रहणं पाशं कुशक्तिशततोदनम्

॥४९॥

तप्तसैकतसंभारपातपातालमज्जनम् ।

दीपच्छन्नानलभयं बृहद्वायसचर्वणम्

॥५०॥

निर्निर्गमाकृशाङ्गारमहाङ्गारप्रवेशनम् ।

शरशक्तिगदाप्रासभुशुण्डीचक्रवेधनम्

॥५१॥

क्षुत्क्षोभपरुषप्रेतव्रातान्योन्याङ्गचर्वणम् ।

तालोत्तालातिपरुषशिलातलनिपातनम्

॥५२॥

रुधिरामेध्यपङ्काङ्कपूयनद्यादिसंकटम् ।

शिलाशस्त्रमयाश्वेभपादपाषाणपेषणम्

॥५३॥

श्वभ्राभोलूकलिखितं जनौघमुसलाहतम् ।

शिरःकरखुरस्कन्धखण्डोत्कगृध्रमण्डलम्

॥५४॥

एतस्मात्कुकृतादेतत्फलमित्येव भावनात् ।

पश्यत्येवंदेशदृढादविसंवादिविस्तृतः

॥५५॥

यन्नाम किंचन कदाचन चेतनं खे

भातं न भातमथवा यदपूर्वमेव ।

तत्कल्पनाद्भवति तन्मयमेव तद्धि

तस्माच्चिरं च चलतीति यदृच्छयैव

॥५६॥

इत्यार्षे श्रीवासिष्ठ० वा० दे० मो० नि० उ० अ० वि० श० स्वर्गनरकोपलम्भवर्णनं नाम षष्ट्यधिकशततमः सर्गः ।। १६० ।।