मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १८२

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 182

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

वृद्धतापस उवाच ।

तस्मिन्नेव कदम्बेऽस्मिन्वर्षाणि स्वेच्छया दश ।

स्थित्वा गौरी जगामाथ हरवामार्धमन्दिरम्

॥१॥

तत्स्पर्शामृतसिक्तोऽयं कदम्बतरुपुत्रकः ।

उत्सङ्ग इव चासीनो न यात्येव पुराणताम्

॥२॥

ततो गौर्या प्रयातायां तद्वनं तादृशं महत् ।

सामान्यवनतां यातं जनवृन्दोपजीवितम्

॥३॥

मालवो नाम देशोऽस्ति तत्राहं पृथिवीपतिः ।

कदाचित्त्यक्तराज्यश्रीर्मुनीनामाश्रमान्भ्रमन्

॥४॥

इमं देशमनुप्राप्त इह चाश्रमवासिमिः ।

पूजितोऽस्य कदम्बस्य ध्याननिष्ठस्तले स्थितः

॥५॥

केनचित्त्वथ कालेन भ्रातृभिः सप्तभिः सह ।

भवानभ्यागतः पूर्वं तपोर्थमिममाश्रमम्

॥६॥

तपस्विनोऽष्टाविह ते तथा नाम तदाऽवसन् ।

यथा तपस्विनोऽन्ये ते तेषां मान्यास्तपस्विनः

॥७॥

कालेनानन्तरमसावेकः श्रीपर्वतं गतः ।

स्वामिनं कार्तिकेयं च द्वितीयस्तपसे गतः

॥८॥

वाराणसीं तृतीयस्तु चतुर्थोऽगाद्धिमाचलम् ।

इहैव ते परे धीराश्चत्वारोऽन्ये परं तपन्

॥९॥

सर्वेषामेव चैतेषां प्रत्येकं त्वेतदीप्सितम् ।

यथा समस्तद्वीपाया भुवोऽस्याः स्यां महीपतिः

॥१०॥

अथ संपादितं तेषां सर्वेषामेतदीप्सितम् ।

तपस्तुष्टाभिरिष्टाभिर्देवताभिर्वरर्वरैः

॥११॥

तपतस्ते ततो याता भ्रातरः सदनं निजम् ।

भूमौ धर्मयुगं भुक्त्वा वेधा ब्रह्मपुरीमिव

॥१२॥

तैर्भवद्भ्रातृभिर्भव्य वरदानविधौ तदा ।

इदं वरोद्यता यत्नात्प्रार्थिताः स्वेष्टदेवताः

॥१३॥

देव्यस्माकमिमे सर्वे सप्तद्वीपेश्वरस्थितौ ।

सत्याः प्रकृतयः सन्तु सर्व आश्रमवासिनः

॥१४॥

तमिष्टदेवतासार्थमुररीकृत्य सादरम् ।

तेषामस्त्वेवमित्युक्त्वा जगामान्तर्द्धिमीश्वरी

॥१५॥

ते ततः सदनं यातास्तेषामाश्रमवासिनः ।

सर्व एव गताः पश्चादेक एवास्मि नो गतः

॥१६॥

अहं केवलमेकान्ते ध्यानैकगतमानसः ।

वागीश्वरीकदम्बस्य तले तिष्ठामि शैलवत्

॥१७॥

अथ काले वहत्यस्मिन्नृतुसंवत्सरात्मनि ।

इदं सर्वं वनं छिन्नं जनैः पर्यन्तवासिभिः

॥१८॥

इदं कदम्बमम्लानं जनताः पूजयन्त्यलम् ।

वागीश्वरीगृहमिति मां चैवैकसमाधिगम्

॥१९॥

अथैनं देशमायातौ भवन्तौ दीर्घतापसौ ।

एतत्तत्कथितं सर्वं ध्यानदृष्टं मयाखिलम्

॥२०॥

तस्मादुत्थाय हे साधू गच्छतं गृहमागतौ ।

तत्र ते भ्रातरः सर्वे संगता दारबन्धुभिः

॥२१॥

अष्टानां भवतां भव्यं सदने स्वे भविष्यति ।

महात्मनां ब्रह्मलोके वसूनामिव संगमः

॥२२॥

इत्युक्ते तेन स मया पृष्टः परमतापसः ।

संदेहादिदमाश्चर्यमार्यास्तद्वर्णयाम्यहम्

॥२३॥

एकैव सप्तद्वीपास्ति भगवन्भूरियं किल ।

तुल्यकालं भवन्त्यष्टौ सप्तद्वीपेश्वराः कथम्

॥२४॥

कदम्बतापस उवाच ।

असमञ्जसमेतावदेव नो यावदुच्यते ।

इदमन्यदसंबद्धतरं संश्रूयतां मम

॥२५॥

एतेऽष्टौ भ्रातरस्तत्र तापसा देहसंक्षये ।

सप्तद्वीपेश्वराः सर्वे भविष्यन्ति गृहोदरे

॥२६॥

अष्टौ ह्येते महीपीठेष्वेतेष्वेतेषु सद्मसु ।

सप्तद्वीपेश्वरा भूपा भविष्यन्तीह मे शृणु

॥२७॥

अस्त्येतेषां किलाष्टानां भार्याष्टकमनिन्दितम् ।

दिगन्तराणां नियतं ताराष्टकमिवोज्ज्वलम्

॥२८॥

तद्भार्याष्टकमेतेषु यातेषु तपसे चिरम् ।

बभूव दुःखितं स्त्रीणां यद्वियोगोऽहिदुःसहः

॥२९॥

दुःखिताः प्रत्यये तेषां चक्रुस्ता दारुणं तपः ।

शतचान्द्रायणं तासां तुष्टाभूत्तेन पार्वती

॥३०॥

अदृश्योवाच सा तासां वचोऽन्तःपुरमन्दिरे ।

देवी सपर्यावसरे प्रत्येकं पृथगीश्वरी

॥३१॥

देव्युवाच ।

भर्त्रर्थमथ चात्मार्थे गृह्यतां बालिके वरः ।

चिरं क्लिष्टासि तपसा निदाघेनेव मञ्जरी

॥३२॥

इत्याकर्ण्य वचो देव्या दत्तपुष्पा चिरंटिका ।

स्ववासनानुसारेण कुर्वाणैवेश्वरीस्तवम्

॥३३॥

आनन्दमन्थरोवाच वचनं मृदुभाषिणी ।

आकाशसंस्थितां देवीं मयूरीवाभ्रमालिकाम्

॥३४॥

चिरंटिकोवाच ।

देवि देवाधिदेवेन यथा ते प्रेम शंभुना ।

भर्त्रा मम तथा प्रेम स भर्तास्तु ममामरः

॥३५॥

देव्युवाच ।

आसृष्टेर्नियतेर्दार्ढ्यादमरत्वं न लभ्यते ।

तपोदानैरतोऽन्यं त्वं वरं वरय सुव्रते

॥३६॥

चिरंटिकोवाच ।

अलभ्यमेतन्मे देवि तन्मद्भर्तुर्गृहान्तरात् ।

मृतस्य मा विनिर्यातु जीवो बाह्यमपि क्षणात्

॥३७॥

देहपातश्च मे भर्तुर्यदा स्यादात्ममन्दिरे ।

तदेतदस्त्विति वरो दीयतामम्बिके मम

॥३८॥

देव्युवाच ।

एवमस्तु सुते त्वं च पत्यौ लोकान्तरास्थिते ।

भविष्यसि प्रिया भार्या देहान्ते नात्र संशयः

॥३९॥

इत्युक्त्वा विररामासौ गौर्या गीर्गगनोदरे ।

मेघमालाध्वनिरिव निरवद्यसमुद्यता

॥४०॥

देव्यां गतायां भर्तारस्तासां कालेन केनचित् ।

ते ककुब्भ्यः समाजग्मुः सर्वे प्राप्तमहावराः

॥४१॥

अद्यायमपि संयातु भार्याया निकटं पतिः ।

भ्रातॄणां बान्धवानां च भवत्वन्योन्यसंगमः

॥४२॥

इदमन्यदथेतेषामसमञ्जसमाकुलम् ।

शृणु किंवृत्तमाश्चर्यमार्यकार्योपरोधकम्

॥४३॥

तप्यतां तप एतेषां पितरौ तौ वधूयुतौ ।

तीर्थमुन्याश्रमश्रेणीं द्रष्टुं दुःखान्वितौ गतौ

॥४४॥

शरीरनैरपेक्ष्येण पुत्राणां हितकाम्यया ।

गन्तुं कलापग्रामं तं यत्नवन्तौ बभूवतुः

॥४५॥

तौ प्रयातौ मुनिग्राम मार्गे ददृशतुः सितम् ।

पुरुषं कपिलं ह्रस्वं भस्माङ्गं चोर्ध्वमूर्धजम्

॥४६॥

धूलीलवमनादृत्य तं जरत्पान्थशङ्कया ।

यदा तौ जग्मतुस्तेन स उवाचान्वितः क्रुधा

॥४७॥

सवधूक महामूर्ख तीर्थार्थी दारसंयुतः ।

मां दुर्वाससमुल्लङ्घ्य गच्छस्यविहितानतिः

॥४८॥

वधूनां ते सुतानां च गच्छतस्तपसार्जिताः ।

विपरीता भविष्यन्ति लब्धा अपि महावराः

॥४९॥

इत्युक्तवन्तं तं यावत्सदारोऽथ वधूयुतः ।

सन्मानं कुरुते तावन्मुनिरन्तर्धिमाययो

॥५०॥

अथ तौ पितरौ तेषां सवधूकौ सुदुःखितौ ।

कृशीभूतौ दीनमुखौ निराशौ गृहमागतौ

॥५१॥

अतो वदाम्यहं तेषां नैकं नामासमञ्जसम् ।

असमञ्जसलक्षाणि गण्डे स्फोटाः स्फुटा इव

॥५२॥

चिद्व्योमसंकल्पमहापुरेऽस्मि-

न्नित्थं विचित्राण्यसमञ्जसानि ।

निःशून्यरूपेऽपि हि संभवन्ति

दृश्ये यथा व्योमनि दृश्यजृम्भाः

॥५३॥

इति श्री० वा० दे० मो० नि० उ० ब्र० तापसोपाख्यानान्तर्गत सप्तद्वीपेश्वरोपा० सप्तद्वीपेश्वरवर्णनं नाम द्व्यशीत्यधिकशततमः सर्गः

॥१८२॥