मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १९२

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 192

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

अहो नु सुचिरं कालं संभ्रान्ता वयमन्तरे ।

अपरिज्ञातमात्रेण संसारपरमाम्बरे

॥१॥

बुद्धे यावदियं नाम जगद्भ्रान्तिर्न किंचन ।

न चाभून्न च वास्तीयं न च नाम भविष्यति

॥२॥

सर्वं शान्तं निरालम्बं विज्ञानं केवलं स्थितम् ।

अनन्तं चिद्धनं व्योम नीरागमपकल्पनम्

॥३॥

परमाकाशमेवेदमपरिज्ञातमात्रकम् ।

संसारतामिवास्माकं गतं चित्रमहो नु भोः

॥४॥

इत्थं द्वैतमिदं भातमिमे लोका इमेऽद्रयः ।

परमाकाशमित्यच्छमेवानच्छमिव स्थितम्

॥५॥

सर्गादौ परलोकादौ स्वप्नादौ कल्पनादिके ।

चिदेव चेत्यवद्भाति कुतोऽन्या किल दृश्यधीः

॥६॥

स्वर्गे वा नरके वापि स्थितोऽस्मीति मतिर्यदि ।

तत्तस्या नरकस्यान्तो दृश्यं संविन्मयात्मकम्

॥७॥

नेदं दृश्यं न च द्रष्टा न सर्गो न जगन्न चित् ।

न जाग्रत्स्वप्नसिद्धादि किमपीदं तदप्यसत्

॥८॥

कुतोऽस्याः संभवो भ्रान्तेरिति चेद्दृश्यते मुने ।

तदेतदपि नो युक्तं भ्रान्त्यभावानुभूतितः

॥९॥

भ्रान्तिर्न संभवत्येव निर्विकारे ज्ञतापदे ।

यत्त्विदं भ्रान्तिताज्ञानं तत्तदेवेतरन्न तत्

॥१०॥

निरन्तरे निराद्यन्ते व्योम्नि शैलोदरेऽथवा ।

कुतोऽन्यताकल्पकं स्याज्ज्ञपदे चाविकारिणि

॥११॥

मिथ्यैवानुभवो भ्रान्तेः स्वप्ने स्वमरणोपमः ।

यदनालोकनं नाम शाम्यतीदं विलोकनात्

॥१२॥

मृगतृष्णाम्बुगन्धर्वनगरद्वीन्दुविभ्रमः ।

तथाऽविद्याभ्रमश्चायं विचारान्नोपलभ्यते

॥१३॥

बालवेतालवद्भ्रान्तिर्न विद्या जाग्रगापि हि ।

अविचारेण संरूढा विचारेणोपशाम्यति

॥१४॥

कुत आसीदिति मुने नात्र प्रश्नो विराजते ।

सत एव विचारेण लाभो भवति नासतः

॥१५॥

प्रामाणिकविचारेण प्रेक्षितं यन्न लभ्यते ।

तदेतदसदेवादि तत्तर्ह्यनुभवो भ्रमः

॥१६॥

यन्नास्तीति परिच्छिन्नं प्रमाणैः सुविचारितम् ।

खपुष्पशशशृङ्गाभं तत्कथं लभ्यते सतः

॥१७॥

सर्वतः प्रेक्ष्यमाणोऽपि यः कुतश्चिन्न लभ्यते ।

तस्य स्यात्कीदृशी सत्ता वन्ध्यातनयरूपिणः

॥१८॥

भ्रान्तिर्न संभवत्येव तस्मात्काचित्कदाचन ।

निरावरणविज्ञानघनमेवेदमाततम्

॥१९॥

यत्किंचिज्जगदद्यात्र भातीदं परमेव तत् ।

परं परे परापूर्णे पूर्णमेवावतिष्ठते

॥२०॥

न भातं न च नाभातमिह किंचित्कदाचन ।

इदमित्थं स्थितं स्वच्छं शान्तमेव जगद्वपुः

॥२१॥

अजममरमहार्यमार्यजुष्टं

परमविकारि निरामयं समन्तात् ।

पदमहमुदितं ततं हि शुद्धं

निरहमनेकमथाद्वयं विकासि

॥२२॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० विश्रान्त्युपगमवर्णनं नाम द्विनवत्यधिकशततमः सर्गः ।। १९२ ।।