मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः २०८

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 208

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

शुभाशुभं यथोदेति प्रजानां गृहसंगमे ।

असंबद्धैरप्रतिघैर्दूरस्थैस्तदिदं श्रृणु

॥१॥

ब्रह्मसंकल्पनगरं जगत्तावदिदं स्थितम् ।

यद्दृश्यं दृश्यबोधेन ब्रह्मैव ब्रह्मबोधतः

॥२॥

यद्यत्संकल्पनगरे यदा संकल्प्यते यथा ।

तथानुभूयते तत्तत्तादृग्विरचनं तदा

॥३॥

एवमस्मिन्गृहे याते संपन्नैवमियं प्रजा ।

एवं संकल्पसंपन्ने जगत्येवं भवत्यलम्

॥४॥

एतत्स्वसंकल्पपुरे यादृशं ते तथा स्थितम् ।

यथा संकल्पयसि यत्तत्तथा किल पश्यसि

॥५॥

यथैव वरशापाभ्यां शुद्धसंविदवाप्यते ।

संवित्तथैव भवति ब्राह्ममेवेति कल्पनम्

॥६॥

प्रजाविधिनिषेधाभ्यामेकयाऽऽस्थाव्यवस्थया ।

तथैव फलमाप्नोति ब्राह्ममेवेति कल्पनम्

॥७॥

देहिनो ये जगत्यस्मिंस्तान्प्रत्यनुपलम्भतः ।

असदासीज्जगत्पूर्वं सत्यमित्युपलभ्यते

॥८॥

चिद्रूपब्रह्मसंकल्पवशादेवैतदङ्ग सत् ।

चिदुन्मेषनिमेषौ यौ तावेतौ प्रलयोदयौ

॥९॥

राजोवाच ।

किं नोपलभ्यते पूर्वं किं पश्चादुपलभ्यते ।

जगच्चलद्वपुरिदं सुस्थिरारम्भभास्वरम्

॥१०॥

श्रीवसिष्ठ उवाच ।

अस्मिंश्चिद्व्योमसंकल्पपुरस्थे भाव ईदृशः ।

यद्भूत्वा न भवत्येव पुनर्भवति च क्षणात्

॥११॥

बालसंकल्पपुरवद्व्योमकेशोण्ड्रकादिवत् ।

किलैते सदसद्रूपा भान्ति सर्गाश्चिदात्मनि

॥१२॥

त्वं संकल्पपुरं कृत्वा विनाशयसि तत्क्षणात् ।

स्वतोऽन्यसंविद्वशतः स्वस्वभावः स ते यथा

॥१३॥

चिद्व्योमकल्पनपुरे यदुन्मज्जनमज्जनम् ।

स्वभावकचनं तस्य तद्विद्धि विमलं तथा

॥१४॥

संविद्धनस्त्वनाद्यन्तव्योमैव त्रिजगन्नभः ।

तेनासावद्य यन्नाम करोत्यपि च चेतति

॥१५॥

तदनावरणस्यास्य योजनानां शतेष्वपि ।

युगैरपि स्वप्न इव कार्यकृद्वर्तमानवत्

॥१६॥

किल देशान्तरे नित्यमथ लोकान्तरेऽपि च ।

निरावृतो य एकात्मा स किं नाम न चेतति

॥१७॥

यथा मणौ प्रकचति प्रोन्मज्जननिमज्जने ।

परावर्तः स्वभासास्य चिन्मणौ जगतां तथा

॥१८॥

विधीनां प्रतिषेधानां लोकसंस्थाप्रयोजनम् ।

सैव संविदि रूढत्वात्प्रेत्यापि फलदा स्थिता

॥१९॥

न कदाचन यात्यस्तमुदेति न कदाचन ।

ब्रह्म ब्रह्मचिदाभानं सर्वदात्मन्यवस्थितम्

॥२०॥

यथा तु द्रष्टृदृश्यत्वात्कल्पना कल्पनापुरम् ।

स्वयं जगदिवाभाति जातमित्युच्यते तथा

॥२१॥

यदा स्वभावात्कचनं संहृत्यात्मनि तिष्ठति ।

ब्रह्मचिद्गगनैकात्मा शान्त इत्युच्यते तथा

॥२२॥

कचनाकचने यस्य स्वभावो निर्मलोऽक्षयः ।

यथैतावात्मनो नान्यौ स्पन्दास्पन्दौ नभस्वतः

॥२३॥

जरामरणहन्तृणि क्षणान्यत्र पृथक्पृथक् ।

भवन्त्विति यथैतानि सन्ति त्वत्कल्पनापुरे

॥२४॥

ब्रह्मसंकल्पनगरे स्वभावा उदितास्तथा ।

ओषधीनां पदार्थानां सर्वेषां च जगत्त्रये

॥२५॥

न संकल्पयिता राजन्संकल्पनगरे स्वयम् ।

तृणं तृणं कल्पयति बालः क्रीडनकानिव

॥२६॥

स्वयं स्वभाव एवैष चिद्धनस्यास्य सुस्फुटम् ।

यद्यत्संकल्पयत्याशु तत्र तेऽवयवा अपि

॥२७॥

चिदात्मकतया भान्ति नानात्मकतयात्मना ।

अप्येकसारास्तिष्ठन्ति नानाकारस्वभावगाः

॥२८॥

प्रत्येकं किल तत्रास्ति ब्रह्मचिन्मात्रतात्मनि ।

सर्वात्मिका सा यत्रास्ते यथान्तर्भाति तत्तथा

॥२९॥

अनादिमध्यान्तमनन्तवीर्यं

किंचिन्न किंचिच्च सदप्यसत्यम् ।

स्थितं यथा यत्र तदात्म तत्र

सर्वात्मभूर्भूततृणादिजातौ

॥३०॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० नि० उ० महाप्रश्नमोक्षणो नामाष्टोत्तरद्विशततमः सर्गः ।। २०८ ।।